________________
४३६
सूत्रकृताङ्ग सूत्रम् २/६/-७७७
यद्भक्तपानादिकं तत्परिवर्जयन्ति । मू. (७७८) भूयाभिसंकाए दुगुंछमाणा, सब्वेसि पाणाण निहाय दंड।
तम्हा न भुंजंति तहप्पगारं, एसोऽनुधम्मो इह संजयाणं ।। वृ. किञ्च-'भूतानां' जीवानां उपमईशङ्कया सावधमनुष्ठानं 'जुगुप्समानाः' परिहरन्तः, तथा सर्वेषां प्राणिनांदण्डयतीति दण्डः-समुपतापस्तं निधाय' परित्यज्य सम्यगुत्थानेनोत्थिताः सत्साधवो-यतयस्ततो न भुञ्जते तथाप्रकारमाहारमशुद्धजातीयम् एषोऽनुधर्म 'इह' अस्मिन् प्रवचने 'संयतानां' यतीनां, तीर्थकराचरणादनु-पश्चाच्चर्यत इत्यनुना विशेष्यते, यदिवाऽनुरिति स्तोकेनाप्यतिचारेण बाध्यते शिरीषपुष्पमिव सुकुमार इत्यतोऽणुना विशेष्यत इति । मू. (७७९) निग्गंथधम्ममि इमं समाहि, अस्सिं सुठिच्चा अनिहे चरेजा।
बुद्धे मुनी सीलगुणोववेए, अञ्चत्थतं पाउणती सिलोगं ।। वृ. किंचान्यत्-'निग्गंथधम्म'मित्यादि, नास्मिन्मौनीन्द्रधर्मे बाह्याभ्यन्तररूपो ग्रन्थोऽस्यास्तीति निर्ग्रन्थः स चासी धर्मश्च निर्ग्रन्थधर्म स च श्रुतचारित्राख्यः क्षान्त्यादिको वा सर्वज्ञोक्तस्तस्मिन्नेवभूतेधर्मेव्यवस्थितः इमंपूर्वोक्तं समाधिमनुप्ताप्तःअस्मिंश्चाशुद्धाहारपरिहाररूपे समाधौ सुष्टु अतिशयेन स्थित्वा अनिहः अमायोऽथवानिहन्यत इति निहो न निहोऽनिहःपरीषहैरपीडितो यदिवा स्निहबंधने अस्निह इति स्नेहरूपबन्धनरहितः संयमानुष्ठानं चरेत, तथा बद्धोऽवगततत्वो मुनिकालत्रयवेदी शीलेन क्रोधाधुपशमरूपेण गुणैश्च मूलोत्तरगुणभूतैरुपपेतो युक्त इत्येवं गुणकलितोऽत्यर्थतां सर्वगुणातिशायिनी सर्वद्वन्द्वोपरमरूपां संतोषामिकां श्लाघां प्रशंसां लोके लोकोत्तरे वाऽऽप्नोति, तथा चोक्तम - ॥१॥ "राजानं तृणतुल्यमेव मनुते शक्रेऽपि नैवादरो,
वित्तोपार्जनरक्षणव्ययकृताः प्राप्नोति नो वेदनाः।
संसारान्तरवलंपीहलभते शं मुक्तवन्निर्भयः, संतोषात्पुरुषोऽमृतत्वमचिराधायात्सुरेन्द्रार्चितः ।। (इत्यादि) तदेवमार्द्रककुमारंनिराकृतगोशालकाजीवकबौद्धमतमभिसमीक्ष्यसाम्प्रतंद्विजातयःप्रोचुः, तद्यथा-मो आर्द्रककुमार ! शोभनमकारि भवता यदेते वेदबाह्ये द्वे अपि मते निरस्ते, तत्साम्प्रतमेतदप्यार्हतं वेदबाह्यमेवातस्तदपिनाश्रयणाहं भवद्विधानं, तथाहि-भवान् क्षत्रियवरः, क्षत्रियाणा च सर्ववर्णोत्तमा ब्राह्मणा एवोपास्या न शूद्राः, अतो यागादिविधिना ब्राह्मण सेवैव युक्तिमतीत्येवप्रतिपादनायाहमू. (७८०) सिणायगाणं तु दुवे सहस्से, जे भोयए नियए माहणाणं।
तु पुनखंधे सुमहऽजणित्ता, भवंति देवा इति वेयवाओ! वृ.तुशब्दो विशेषणार्थः, षट्कर्माभिरता वेदाध्यापकाः शौचाचारपरतया नित्यं स्नायिनो ब्रह्मचारिणःस्नातकास्तेषां सहस्रद्वयंनित्यं ये भोजयेयुःकामिकाहारेणते समुपार्जितपुण्यस्कन्धाः सन्तो देवाः स्वर्गनिवासिनो भवन्तीत्येवंभूतो वेदवाद इति । मू. (७८१) सिणायगाणं तु दुवे सहस्से, जे भोयए नियए कुलालयाणं।
- से गच्छति लोलुवसंपगाढे, तिव्वामितावी नरगाभिसेवी।। वृ. अधुनाऽऽककुमार एतद्दूषयितुमाह-'सिणायगाणं तु' इत्यादि, स्नातकानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org