________________
श्रुतस्कन्धः - २, अध्ययनं ६,
·
४३७
सहस्रद्वयमपि नित्यं ये भोजन्ति, किंभूतानां कुलानि गृहाण्यामिषान्वेषणार्थिनो नित्यं येऽटन्ति ते कुलाटा:- मार्जाराः कुलाटा इव कुलाटा ब्राह्मणाः, यदिवा कुलानि क्षत्रियादिगृहाणि तानि नित्यं पिण्डपातान्वेषिणा पतर्कुकाणामालयो येषां ते कुलालयास्तेषां निन्द्यजीविकोपगतानामेवंभूतानां स्नातकानां यः सहस्रद्वयं भोजयेत्सोऽसत्पात्रनिक्षिप्तदानो गच्छति बहुवेदनासु गतिषु ।
किंभूतः सन् ? - लोलपैः " आमिषगृद्धै रससातागौरवाद्युपपन्नैः जिनेन्द्रियवशगैः संप्रगाढोव्याप्तो, यदिवा किंभूते नरके याति ? -लोलुपैः- आमिषगृघ्नुभिरसुमद्भिर्व्याप्तो यो नरकस्तस्मिन्निति, किंभूतश्चासौ दाता नरकाभिसेवी भवति तद्दर्शयति तीव्रः - असह्योयोऽभितापः क्रकचपाटकुम्भीपाकतप्तत्रपुपानशाल्मल्यालिङ्गनादिरूपः स विद्यते यस्यासी स तीव्राभितापीत्येवंभूतवेदनाभितप्तस्त्रयस्त्रिंशत्सागरोपमाणि यावदप्रतिष्ठाननरकाधिवासी भवतीति ।
भू. (७८२)
दयावरं धम्म दुगुंछमाणा, वहावहं धम्म पसंसमाणा । एगंपि जे भोययती असीलं, निवो निसं जाति कुओ सुरेहिं ।।
वृ. अपिच दया-प्राणिषु कृपा तया वरः प्रधानो यो धर्मस्तमेवंभूतं धर्मं 'जुगुप्समानो' निन्दन् तथा वधं - प्राण्युपमर्द्दमावहतीति वधावहस्तं तथाभूतं धर्मं 'प्रशंसन्' स्तुवन् एकमप्यशीलं - निरशीलं निर्व्रतं षडजीवकायोपमर्द्देन यो भोजयेत् किं पुनः प्रभूतान् ? नृपो राजन्यो वा यः कश्चिन्मूढमतिर्धार्मिकं आत्मानं मन्यमानः, स वराकोकायोपमर्द्देन यो भोजयेत्, किं पुनः प्रभूतान् नृपो राजन्यो वा यः कश्चिन्मूढमतिर्धार्मिकं आत्मानं मन्यमानः, स वराको निवेश नित्यान्धकारत्वान्निशा - नरकभूमिस्तां याति कुतस्तस्यासुरेष्वपि - अधमदेवेष्वपि प्राप्तिरिति । तथा कर्मवशादसुमतां विचित्रजातिगमनाज्जातेरशाश्वतत्वमतो न जातिमदो विधेय इति ।
यदपि कैश्चिदुच्यते यथा 'ब्राह्मणा ब्रह्मणो मुखाद्विनिर्गता बाहुभ्यां क्षत्रिया ऊरुभ्यां वैश्याः पद्यां शूद्राः' इत्येतदप्यप्रमाणत्वादतिफल्गुप्रायं, तदभ्युपगमे च न विशेषो वर्णानां स्याद्, एकस्माठासूतेर्बुघ्न शाखाप्रतिशाखाग्रभूतपनसोदुम्बरादिफलवद्, ब्रह्मणो वा मुखादेरवयवानां चातुर्वण्यार्वाप्ति स्यात्, न चैतदिष्यते भवद्भिः, तथा यदि ब्राह्मणादीनां ब्रह्मणो मुखादेरुद्भवः साम्प्रतं किं जायते ?, अथ युगादावेदित एवं च सति दृष्टहानिरध्ष्टकल्पना स्यादिति । तथा यदपि कैश्चिदभ्यधायि सर्वज्ञनिक्षेपावसरे, तद्यथा-सर्वज्ञरहितोऽतीतः कालः कालत्वाद्वर्तमानकालवत्, एवं च सत्येतदपि शक्यते वक्तुं यथा-नातीतः कालो ब्रह्ममुखादिविनिर्गतचातुर्वर्ण्यसमन्वितः कालत्वाद्वर्त्तमानकाल- बद्, भवति च विशेषे पक्षीकृते सामान्यं हेतुरित्यतः प्रतिज्ञार्थैकदेशासिद्धता नाशङ्कनीयेति । जातेश्चानित्यत्वं युष्मत्सिद्धान्त एवाभिहितं तद्यथा
॥१॥
119 11
119 11
-
- शृगालो वै एष जायते यः सपुरीषो दह्यत इत्यादिना, तथा'सद्यः पतति मांसेन, लाक्षया लवणेन च । त्र्यहेन शृद्रीभवति, ब्राह्मणः क्षीरविक्रयी ॥
-इत्यादि, परलोके चावश्यंभावी जातिपातः, यत उक्तम् - "कायिकैः कर्मणां दोषैर्याति स्थावरतां नरः । वाचिकैः पक्षिमृगतां, मानसैरन्त्यजातिताम् ॥ -इत्यादि, गुणैरप्येवंविधैर्न ब्राह्मणत्वं युज्यते, तद्यथा - 'षट् शतानिनियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभिस्त्रिभिः ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org