________________
४३८
सूत्रकृता सूत्रम् २/६/-/७८१ इत्यादि, वेदोक्तत्वान्नायंदोषइतिचेत्नन्विदमभिहितमेव! 'नहिंस्यात्सर्वभूतानी'त्यतः पूर्वोत्तरविरोधः, तथा॥१॥ "आततायिनमायान्तमपि वेदान्तगरणे।
जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ॥ तथा 'शूद्रं हत्वा प्राणायाम जपेत् अपहसितं वा कुर्यात् यत्किञ्चिद्वा दद्यात्', तथा 'अनस्थिजन्तूनांशकटभरं मारयित्वा ब्राह्मणं भोजयेद्' इत्येवमादिका देशना विद्वज्जनमनांसिन रञ्जयतीत्यतोऽत्यर्थमसमञ्जसमिव लक्ष्यते युष्मदर्शनमिति। तदेवमार्द्रककुमारं निराकृतब्राह्मणविवादं भगवदन्तिकं गच्छन्तं दृष्टवा एकदण्डिनोऽन्तराले एवोचुः, तद्यथा ।
भोआर्द्रककुमार! शोभनंकृतंभवतायदेतेसर्वारम्भप्रवृत्तागृहस्थाःशब्दादिविषयपरायणाः पिशिताशनेने राक्षसकल्पा द्विजायतो निराकृताः, तत्साम्प्रतमस्मत्सिद्धान्तं शृणुश्रुत्वाचावधारय, तद्यथा-सत्त्वरजस्तमसांसाम्यवस्था प्रकृतिः,प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्चषोडशकस्तस्मादपि षोडशकात्पञ्चभ्यः पञ्चभूतानि, तथा चैतन्यं पुरुषस्य स्वरूपमित्येतत्त्वा-हतैरप्याश्रितम्, अतः पञ्चविंशतितत्त्वपरिज्ञाना-देव मोक्षावाप्तिरित्यतोऽस्मत्सिद्धान्त एव श्रेयानापर इति। मू. (७८३) दुहओवि धम्ममि समुट्ठियामो, असं सुडिया तह एसकालं।
आयारसीले बुइएइ नाणी, न संपरायमि विसेसमयि ।। घृ. तथा न युष्पत्सिद्धान्तोऽतिदूरेण भिद्यत इत्येतद्दर्शयितुमाह-'दुहओऽवी'त्यादि, योऽयमस्मद्धर्मो भवदीयश्चार्हतः स उभयरूपोऽपि कथञ्चित्समानः, तथाहि-युष्माकमपि जीवास्तित्वे सति पुण्यापबन्धमोक्षसद्भावो न लोकायतिकानामिव तदभावे प्रवृत्ति नापि बौद्धानामिव सर्वाधारभूतस्यान्तरात्मनएवाभावः,तथाऽस्माकमपिपञ्च यमाः अहिंसादयो भवतां चत एव पञ्च महाव्रतरूपाः, तथेन्द्रियनोइन्द्रियनियमोऽप्यावयोस्तुल्य एव, तदेवमुभयस्मिन्नपि धर्मे बहुसमाने सम्यगुत्थानोत्थिता यूयं वयं च तस्माद्धर्मे सुठु स्थिताः पूर्वस्मिन काले वर्तमाने एष्ये च यथागृहीतप्रतिज्ञानिर्वोढारो।
न पुरन्ये, यथा व्रतेश्वरयागविधानेन प्रव्रज्यां मुक्तवन्तो मुञ्चन्ति मोक्षन्ति चेति, तथाऽऽचारप्रधानं शीलमुक्तं यमनियमलक्षणं न फल्गु कल्ककुहकाजीवनरूपम् अथानन्तरं ज्ञानं च मोक्षाङ्गतयाऽभिहितं, तच्च श्रुतज्ञान केवलाख्य च यथास्वभावयोर्दर्शने प्रसिद्धं, तथा संपर्यन्ते-स्वकर्मभिर्धाम्यन्ते प्राणिनो यस्मिन्स संपरायः-संसारस्तस्मिंश्चावयोर्न विशेषोऽस्ति, तथाहि-यथा भवतां कारणे कार्यं नैकान्तेनासदुत्पद्यते अस्माकमपि तथैव, द्रव्यात्मतया नित्यत्वं भवद्भिरप्याश्रितमेव, तथोत्पादविनाशावपियुष्मदभिप्रेतावाविर्भावतिरोभावाश्रयादस्माकमपीति
पुनरपि त एवैकदण्डिनः सांसारिकजीवपदार्थसाम्यापादनायाहु:मू. (७८४) अव्वत्तरूवं पुरिसं महतं, सनातनं अक्खयमव्वयंच।
- सव्वेसु भूतेसुवि सब्बतो से, चंदो व ताराहिं समत्तरुवे ।। वृ.पुरिशयनात्पुरुषो-जीवस्तं यथा भवन्तोऽभ्युपगतन्तस्तथा वयमपि,तमेव विशिनष्टिअमूर्त्तत्वादव्यक्तं रूपं-स्वरूपमस्यासावव्यक्तरूपः तं, करचरणशिरोग्रीवाद्यवयवतया स्वतोऽनवस्थानात्, तथा 'महान्तं' लोकव्यापिनं तथा 'सनातन' शाश्वतं द्रव्यार्थतया नित्यं, नानाविधगतिसंभवेऽपिचैतन्यलक्षणात्मस्वरूपस्याप्रच्युतेः,तथा अक्षयं केनचित्रप्रदेशानांखण्डशः कर्तुमशक्यत्वात्, तथा अव्ययम्' अनन्तेनापि कालेनैकस्यापित प्रदेशस्य व्ययाभावात्, तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org