________________
श्रुतस्कन्धः - २, अध्ययनं-६,
४३९ सर्वेष्वपि भूतेषु कायाकारपरिणतेषु प्रतिशरीरं सर्वतः सामस्त्यान्निरंशत्वादसावात्मा संभवति ।
क इव?-'चन्द्र इव' शशीव ताराभिः' अश्विन्यादिभिर्नक्षत्रैः यथा समस्तरूपः संपूर्ण सम्बन्धमुपयातिएवमसावपि आत्मा प्रत्येकंशरीरैः सह संपूर्णसम्बन्धमपयाति । तदेवमेकदण्डिभिर्दर्शनसाम्यापादनेनसामवादपूर्वकं स्वदर्शनारोपणार्थमार्द्रककुमारोऽभिहितो, यत्रैतानिसंपूर्णानिनिरुपचरितानिपूर्वोक्तानि विशेषणानिधर्मसंसारयोर्विद्यन्तेस एवपक्षः सश्रुतिकेनसमाश्रयितव्यो भवति । एतानिचास्मदीय एव दर्शनेयथोक्तानि सन्ति, नाऽऽर्हते, अतो भवताऽप्यस्मद्दर्शनमेवाभ्युपगन्तव्यमिति। म. (७८५) एवं न मिजंति न संसरंती, न माहणा खत्तिय वेस पेसा ।
कीडाय पक्खी य सरीसिवाय, नराय सव्वे तह देवलोगा। १. तदेवमभिहितः सन्नाककुमारस्तदुत्तरदानायाह-'एव' मित्यादि, यदिवा प्राक्तनः श्लोकः 'अव्वत्तरूव' मित्यादिको वेदान्तवाद्यात्माद्वैतमतेनव्याख्यातव्यः, तथाहि-ते एकमेवाव्यक्तं पुरुषम-आत्मानमहान्तमाकाशमिवसर्वव्यापिनंसनातनम् अनन्तमक्षयमव्ययं सर्वेष्वपि भूतेषुचेतनाचेतनेषु सर्वतः-सर्वात्मतयोऽसौ स्थित इत्येवमभ्युपगतवन्तो, यथा सर्वेष्वपि तारास्वेक एव चन्द्रः संबन्धमुपयात्येवमसावपीति । अस्य चोत्तरदानायाह-एवं'मित्यादि,
-'एव'मिति यथा भवतांदर्शनेएकान्तेनैव नित्योऽविकार्यात्माऽभ्युपगम्यतेइत्येवंपदार्था सर्वेऽपि नित्याः, तथाच सतिकुतो बन्धमोक्षसद्भावः?, बन्धाभावाचन नारकतिर्यङ्नरामरलक्षणश्चतुर्गतिकः संसारः, मोक्षाभावाञ्च निरर्थकं व्रतग्रहणं भवतां पञ्चरात्रोपदिष्टयमनियमप्रतिपत्तिश्चेति।
एवंचयदुच्यतेभवता-यथा आवयोस्तुल्योधर्म इति, तदयुक्तमुक्तं,तथासंसारान्तर्गतानां चपदार्थानांनसाम्यं, तथाहि-भवतां द्रव्यैकत्ववादिनां सर्वस्यप्रधानादभिन्नत्वात्कारणमेवास्ति, कार्यंच कारणाभिन्नत्वात्सर्वात्मना तत्र विद्यते, अस्माकंचद्रव्यपर्यायोभयवादिनां कारणे कार्य द्रव्यात्मतयां विद्यतेन पर्यायात्मकतया, अपिच-अस्माकमुत्पादव्ययध्रौव्ययुक्तमेव सदित्युच्यते, भवतांतुध्रौव्ययुक्ततमेव सदिति, यावप्याविर्भावतिरोभावौ भवतोच्येतेतावपिनोत्पादविनाशावन्तरेण भवितुमुत्सहेते, तदेवमैहिकामुष्मिकचिन्तायामावयोर्न कथञ्चित्साम्यं । किंच-सर्वव्यापित्वे सत्यात्मनामविकारित्वे चात्माद्वैते चाभ्युपगम्यमाने नारकतिर्यङनरामरभेदेन बालकुमारसुभगदुर्भगाढ्यदरिद्रादिभेदेन वा न मीयेरन्-न परिच्छिघेरन् ।
__नापि स्वकर्मचोदिता नानागतिषु संसरन्ति, सर्वव्यापित्वादेकत्वाद्वा, तथा न ब्राह्मणान क्षत्रिया न वैश्या न प्रेष्या-न शूद्रा नापि कीटपक्षिसरीसृपाश्च भवेयुः, तथा नराश्च सर्वेऽपि देवलोकाश्चेत्येवं नानागतिभेदेननभिघेरन्, अतोन सर्वव्यापीआत्मा, नाप्यात्माद्वैतवादोज्यायान्, यतः प्रत्येकं सुखदुःखानुभवः समुपलभ्यते, तथा शरीरत्वकपर्यन्तमात्र एवात्मा, तत्रैव तद्गुणविज्ञानोप लब्धेरिति स्थितम्, तदेवं व्यवस्थिते युष्मदागमो यथार्थाभिधायी न भवति, असर्वज्ञप्रणीतत्वाद्, असर्वज्ञप्रणीतत्वं चैकान्तपक्षसमाश्रयणादिति ।
एवमसर्वज्ञस्य मार्गोद्भावने दोषमाविर्भावयन्नाहमू. (७८६) लोयं अयाणित्तिह केवलेणं, कहति जे धम्ममजाणमाणा।
नासंति अप्पाण परं च नहा, संसार घोरंमि अनोरपारे ।। वृ. लोकं चतुर्दशरज्वात्मकंचराचरंवा लोकमज्ञात्वा केवलेन दिव्यज्ञानावभासेन 'इह'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org