________________
४४०
सूत्रकृताङ्ग सूत्रम् २/६/-/७८६ अस्मिन्जगतियेतीर्थिका 'अजानाना अविद्वांसो'धर्म' दुर्गतिगमनमार्गस्यार्गलाभूतं कथयन्ति' प्रतिपादयन्ति तेस्वतोनष्टाअपरानपि नाशयन्ति, क्व ? 'घोरे' भयानकेसंसारसागरे अनोरपारे त्ति अर्वाग्भागपरभागवर्जितेऽनाद्यनन्ते इति, एवंभूते संसारार्णवे आत्मानं प्रक्षिपन्तीतियावत् । मू. (७८७) लोयं विजाणंतिह केवलेणं, पुन्नेण नाणेण समाहिजुत्ता।
धम्मसमतं च कहति जे उ, तारंति अप्पाण परं च तिन्ना।। वृ. साम्प्रतं सम्यगज्ञानवतामुपदेष्टणां गुणानाविर्भावयन्नाह-'लोय'मित्यादि, 'लोक' चतुर्दशरञ्वात्मकं केवलालोकेन केवलिनो विविधम्-अनेकप्रकारंजानन्ति-विदन्तीह-अस्मिन् जगति, प्रकर्षेण जानाति प्रज्ञः पुण्यहेतुत्वाद्वा पुण्यं, तेन तथाभूतेन ज्ञानेन समाधिना च युक्ताः समस्तं 'धर्म' श्रुतचारित्ररूपं ये तुपरहितैषिणः कथयन्ति' प्रतिपादयन्ति ते महापुरुषाः स्वतः संसारसागरंतीर्णा, परं च तारयन्ति सदुपदेशदानत इति । केवलिनो लोकं जानन्तीत्युक्तेऽपि यत्पुननिनत्युक्तं, तद् बौद्धमतोच्छेदेनज्ञानाधार आत्माअस्तीतिप्रतिपादनार्थमिति, एतदुक्तं भवति-यथादेशिकःसम्यगमार्गज्ञआत्मानंपरंचतदुपदेशवर्तिनमहाकान्ताराद्विवक्षितदेशप्रापणेन निस्तारयति, एवं केवलिनोऽप्यात्मानं परंचसंसारकान्तारानिस्तारयन्तीति।
-पुनरप्याककुमार एवमाहमू. (७८८) जे गरहियं ठाणमिहावसंति, जे यावि लोए चरणोववेया।
उदाहडं तंतु समं मईए, अहाउसो विपरियासमेव ।। वृ.असर्वज्ञप्ररूपणमेवंभूतं भवति, तद्यथा-ये केचित्संसारान्तर्वर्तिनोऽशुभकर्मणोपपेता:समन्वितास्तद्विपाकसहाया 'गर्हितं' निन्दितं जुगुप्सितं निर्विवेकिजनाचरितं 'स्थानं' पदं कर्मानुष्ठानरूपमिह-अस्मिन् जगत्यासेवन्ति-जीविकाहेतुमाश्रयन्ति, तथा ये च सदुपदेशवर्तिनो लोकेऽस्मिन् ‘चरणेन' विरतिपरिणामरूपेणोपपेताः-समन्विताः, तेषामुभयेषामपि यदनुष्ठानशोभनाशोभनस्वरूपमपि सत् तदसर्वज्ञैः-अग्दिर्शिभिः 'सम' सशं तुल्यमुदाहृतं-उपन्यस्तं 'स्वमत्या' स्वाभिप्रायेण, न पुनर्यथावस्थितपदार्थनिरूपणेन, अथवाऽऽयुष्मन् हे एकदण्डिन् ! 'विपर्यासमेव विपर्ययमेवोदाहरेद् असर्वज्ञो-यदशोभनंतच्छोभनत्वेतरवितरथेति,यदिवा विपर्यास इति मदनोन्मत्तप्रलापवदित्युक्तं भवतीति। मू. (७८९) संवच्छरेणाविय एगमेगं, बाणेण मारेउ महागयतु ।
सेसाण जीवाण दयट्ठायाए, वासं वयं वित्ति पकप्पयामो । पृतदेवमेकदण्डिनो निराकृत्याककुमारो यावद्भवदन्तिकं व्रजति तावद्धस्तितापसाः परिवृत्य तस्थुरिदंच प्रोचुरित्याह-संवच्छरेण' इत्यादि, हस्तिनं व्यापाद्यात्मनो वृत्तिं कल्पयन्तीति हस्तितापस्तास्तेषां मध्ये कश्चिदृद्धतम् एतदुवाच्, तद्यथा-भो आर्द्रककुमार ! सश्रुतिकेन सदाऽल्पबहुत्वमालोचनीयं, तत्रयेअमीतापसाः कन्दमूलफलाशिनस्तेबहूनांसत्त्वानांस्थावराणां तदाश्रितानां चोदुम्बरादिषु जङ्गमानामुपधाते वर्तन्ते, येऽपि च भक्ष्येणात्मानं वर्तयन्ति तेऽप्याशंसादोषदूषिता इतश्चेतश्चाटाट्यमानाः पिपीलिकादिजन्तूनां उपाधाते वर्तन्ते, वयं तु संवत्सरेणापि अपिशब्दातू षण्मासेन चैकैकं हस्तिनं महाकायंबाणप्रहारेण व्यापाद्य शेषसत्वानां दयार्थमात्मनो 'वृत्तिं' वर्तनं तदामिषेण वर्षमेकं यावत्कल्पयामः, तदेवं वयमल्पसत्त्वोपघातेन प्रभूततरसत्त्वानां रक्षां कुर्म इति ।
___ -साम्प्रतमेतदेवाककुमारो हस्तितापसमतं दूषयितुमाहJain Education International
For Private & Personal Use Only
www.jainelibrary.org