________________
४४१
श्रुतस्कन्धः - २, अध्ययन-६, मू. (७९०) संवच्छरेणावि य एगमेगं, पाणं हणंता अनियत्तदोसा।
सेसाण जीवाण वहेण लग्गा, सिया य धोवं गिहिणोऽवितम्हा।। वृ.संवत्सरेणैकैकंप्राणिनंनतोऽपिप्राणातिपातादनिवृत्तदोषास्तेभवन्ति, आशंसादोषश्च भवतां पञ्चेन्द्रियमहाकायसत्त्ववधपरायणानामतिदुष्टो भवति, साधूनांतुसूर्यरश्मिप्रकाशितवीथिषु युगमात्रष्टया गच्छतामीर्यासमितिसमितानां द्विचत्वारिंशद्दोषरहितमाहारमन्वेषयतांलामालाभसमवृत्तीनां कुतस्त्य आशंसादोषः पिपीलिकादिसत्त्वोपघातो वेत्यर्थः, स्तोकसत्त्वोपघातेनैवंभूतेन दोषाभावो भवताऽभ्युपगम्यते, तथा च सति गृहस्था अपि स्वारम्भदेशवर्तिन एव प्राणिनो घ्नन्ति शेषाणां च जन्तूनां क्षेत्रकालव्यवहितानां भवदभिप्रायेण वधे न प्रवृत्ताः, यत एवं तस्मात्कारणात्स्यादेवं 'स्तोक'मिति स्वल्पं यस्मात् घ्नन्ति ततस्तेऽपि दोषरहिता इति । मू. (७९१) संवच्छरेणाविय एगमेगं, पाणं हणंता समणव्ववासु ।
आयाहिए से पुरिसे अणजे, न तारिसे केवलिणो भवंति ॥ वृ. साम्प्रतमार्द्रककुमारोहस्तितापसान्दूषयित्वा तदुपदेष्टारंदूषयितुमाह-'संवच्छरेणे त्यादि, श्रमणानां-यतीनांव्रतानि श्रमणव्रतानि तेष्वपि व्यवस्थिताः सन्त एकैकंसंवत्सरेणापि ये मन्ति येचोपदिशन्ति तेऽनार्या, असत्कर्मानुष्ठायित्वात्, तथाआत्मानं परेषांचाहितास्तेपुरुषाः,बहुवचनमार्षत्वात्, न ताशाः केवलिनो भवन्ति, तथाहि-एकस्य प्राणिनः संवत्सरणापि घाते तेऽन्ये पिश्रितास्तत्संस्कारे च क्रियमाणे स्थावरजङ्गमा विनाशमुपयान्ति ते तैः प्राणिवधोपदेष्टुभिर्न दृष्टाः, न च तैर्निरवद्योपायो माधुकर्या वृत्त्या यो भवति स दृष्टः, अतस्ते न केवलमकेवलिनो विशिष्टविवेकरहिताश्चेति । तदेवं हस्तितापसानिराकृत्य भगवदन्तिकं गच्छन्तमार्द्रककुमारं महता कलकलेन लोकेनाभिष्ट्रयमानं तं समुपलभ्य अभिनवगृहीतः सर्वलक्षणसंपूर्णो वनहस्ती समुत्पन्नतथाविधविवेकोऽचिन्तयत्।
__यथाऽयमाककुमारोऽपाकृताशेषतीथिको निष्प्रत्यूहंसर्वज्ञपादपद्मान्तिकंवन्दनायव्रजति तथाऽहमपियद्यपगताशेषबन्धनः स्यांतत एनंमहापुरुषमार्द्रककुमारंप्रतिबुद्धतस्करपञ्चशतोपेतं तथा प्रतिबोधितानेकवादिगणसमन्वितं परमयाभक्त्यैतदन्तिकंगत्वा वन्दामीत्येवंयावदसी हस्ती कृतसंकल्पस्तावत्रटनटदिति त्रुटितसमस्तवन्धनः सन्नाककुमाराभिमुखंप्रदत्तकर्णतालस्तथोर्ध्वप्रसारितदीर्धकरः प्रधावितः, तदनन्तरं लोकेन कृतहाहारवगर्भकलकलेन पूत्कृतं-यता धिक् कष्टंहतोऽयमाककुमार महर्षिर्महापुरुषः,तदेवंप्रलपन्तोलोका इतश्चेतश्चप्रपलायमानाःअसावपि वनहस्ती समागत्याककुमारसमीपं भक्तिसंभ्रमावनताग्रभागोत्तमाङ्गो निवृत्तकर्णतालस्त्रिः प्रदक्षिणीकृत्य निहितधरणीतलदन्ताग्रभागः स्पृष्टकराग्रतच्चरणयुगलः सुप्रणिहितमनाः प्रणिपत्य महर्षि वनाभिमुखं ययाविति । __तदेवमाककुमारतपोऽनुभावाब्दन्धनोन्मुक्तं महागजमुपलभ्य सपौरजनपदः श्रेणिकराजस्तमाककुमारं महर्षिं तत्त्पःप्रभावं चामिनन्द्याभिवन्ध च प्रोवाच-भगवन्नाश्चर्यमिदं यदसौ वनहस्ती ताग्विधाच्छाच्छेद्याच्छृङ्खलाबन्धनायुष्मत्तपःप्रभावान्मुक्तइत्येतदतिदुष्करमित्येवमभिहिते आर्द्रककुमारः प्रत्याह-भोः श्रेणिकमहाराज ! नैतद्दुष्करं यदसौ वनहस्ती बन्धनान्मुक्तः, अपि त्वेतहुष्करं यत्स्नेहपाशमोचनं, एतच्च प्राङनियुक्तिगाथया प्रदर्शितं । सा चेयं-- ॥१॥ “न दुक्करं वा नरपासमोयणं, गयस्स मत्तस्स वर्णभि राय।
जहा उ चत्तालिएण तंतुणा, सुदुक्करं मे पडिहाइ मोयणं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org