________________
४४२
सूत्रकृताङ्ग सूत्रम् २/६/-/७९१
एवमार्द्रककुमारो राजानं प्रतिबोध्य तीर्थकरान्तिकं गत्वाऽभिवन्द्य च भगवन्तं भक्तिभरनिर्भर आसांचक्रे, भगवानपि तानि पञ्चापि शतानि प्रव्राज्य तच्छिष्यत्वेनोपनिन्य इति मू. ( ७९२) बुद्धस्स आणाए इमं समाहिं, अस्सि सुठिया तिविहेण ताई ।
तरिजं समुद्दे व महाभवोघं, आयाणवं धम्ममुदाहरेजा ॥ - तिबेमि ।
वृ. साम्प्रतं समस्ताध्ययनार्थोपसंहारार्थमाह- 'बुद्धस्से' त्यादि, 'बुद्धः' अवगततत्त्वः सर्वज्ञो वीरवर्द्धमानस्वामी तस्याज्ञया तदागमेन इमं 'समाधि' सद्धर्मावाप्तिलक्षणं अवाप्यास्मिंश्च समाधौ सुष्ठु स्थित्वा मनोवाक्कायैः सुप्रणिहितेन्द्रियो न मिथ्याद्दष्टिमनुमन्यते, केवलं तदावणजुगुप्सां त्रिविधेनापि करणेन विधत्ते, स एवंभूत आत्मनः परेषां च त्रायी त्राणशीलस्तायी वा गमनशीलो मोक्षं प्रति, स एवंभूतस्तरीतुम् अतिलक्ष्य समुद्रमिव दुस्तरं महाभवौधं मोक्षार्थमादीयत इत्यादानं - सम्यग्दर्शनज्ञानचारित्ररूपं तद्विद्यते यस्यासावादानवान्-साधुः, सच सम्यग्दर्शनेन सता परतीर्थिकतपः समृध्यादिदर्शनेन मौनीन्द्राद्दर्शनान्न प्रच्यवते, सम्यगज्ञानेन तु यथावस्थितवस्तुप्ररूपणतः समस्तप्रावादुकवादनिराकरणेनापरेषां यथावस्थितमोक्षमार्गमा विर्भावयतीति, सम्यकचारित्रेण तु समस्तभूतग्रामहितैषितया निरुद्धाश्रवद्वारः सन्तपोविशेषाच्चानेकभवोपार्जितं कर्म निर्जरयति स्वतोऽन्येषां चैवंप्रकारमेव धर्ममुदाहरेद् व्यागृणीयात् आविर्भावयेदित्यर्थ । इति परिसमाप्तयर्थे ब्रवीमीति नयाश्च प्राग्वदेव वाच्याः, वक्ष्यन्ते चोत्तरत्र -
अध्ययनं -६ समाप्तम्
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्य विरचिता द्वीतीयश्रुतस्कन्धस्य षष्ठमध्ययनटीका परिसमाप्ता । अध्ययनं ७ नालन्दीयं
वृ. व्याख्यातं षष्ठमध्ययनम् अधुना सप्तममारभ्यते, अस्य चायमभिसंबन्धः - इह प्राग्व्याख्यातेनाखिलेनापि सूत्रकृताङ्गेन स्वसमयपरसमयप्ररूपणाद्वारेण प्रायः साधूनामाचारोऽभिहितोऽनेन तु श्रावकगतो विधिरुच्यते, यदिवाऽनन्तराध्ययने परवादनिराकरणं कृत्वा साध्वाचारस्य य उपदेष्टा स उदाहरणद्वारेण प्रदर्शितः, इह तु श्रावकधर्मस्य य उपदेष्टा स उदाहरणद्वारेणैव प्रदर्श्यते, यदिवाऽनन्तराध्ययने परतीर्थिकैः सह वाद इह तु स्वयूथ्यैरिति ।
अनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपवर्णितव्यानि उपक्रमादीनि, तत्रापि नामनिष्पन्ने निक्षेपे नालन्दीयाभिधानमिदमध्ययनम्, इदं चैवं व्युत्पाद्यते -प्रतिषेधवाचिनो नकारस्य तदर्थस्यैवालंशब्दस्य 'डुदाञ् दाने' इत्येतस्य धातोर्मीनेन नालं ददातीति नालंदा, इदमुक्तं भवति-प्रतिषेधप्रतिषेधेन धात्वर्थस्यैव प्राकृतस्य गमनात्सदाऽर्थिभ्यो यताऽभिलषितं ददातीति नालन्दा - राजगृहनगरबाहिरिका तस्यां भवं नालन्दीयमिदमध्ययनं अनेन चाभिधानेन समस्तोऽप्युपोद्घात उपक्रमरूप आवेदितो भवति, तत्स्वरूपं च पर्यन्ते स्वत एव नियुक्तिकारः 'पासावचिज्ज्ञे' इत्यादिगाथया निवेदयिष्यतीति ।
"
साम्प्रतं संभविनमलंशब्दस्य निक्षेपं नदी परित्यज्य कर्तुमाहनि. [२०१] नामअलं ठवणअलं दव्वअलं चेव होइ भावअलं । एसो अलसद्दमिउ निक्खेवो चउविहो होइ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org