SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-२, अध्ययनं -७, ४४३ घृ. तत्र अमानोनाः प्रतिषेधवाचकाः, तद्यथा-अगौः अघट इत्याद्यकारः प्रायो द्रव्यस्यैव प्रतिषेधवाचीत्यलंदानेन सहास्य प्रयोगाभावः, माकारस्त्वनागतक्रिया निषेधं विधत्ते, तद्यथामाकार्षीस्त्वमकार्यमा मंस्थाः संस्था नो युष्मदधिष्ठितदिगेववीतायेत्यादि, नोकारस्तुदेशनिषेधे सर्वनिषेधेच वर्तते, तद्यथा-नो घटो घटैकदेशो घटैकदेशनिषेधेन, तथा हास्यादयो नोकषायाः कषायमोहनीयैकदेशभूताः, नकारस्तु समस्तद्रव्यक्रियाप्रतिषेधाभिधायी, तद्यथा-न द्रव्यं नकर्म न गुणोऽभावः, तथा नाकार्षन करोमि न करिष्यामीत्यादि, तथाऽन्यैरप्युक्तं । ॥१॥ न याति न च तत्रासीदस्ति पश्चान्नवांशवत्। जहाति पूर्व नाधारमहो व्यसनसंततिः।। किंचान्यत्-“गतंनगम्यते तावदगतं नैव गम्यते।गतागतविनिर्मुक्तं, गम्यामानंतुगम्यते" इत्यादि । तदेवमत्र नकाराः प्रतिषेधविधायकोऽप्युपात्तः, अलंशब्दोऽपि यद्यपि 'अलं पर्याप्ति 'वारणभूषणेष्वपीति त्रिष्वर्थेषुपठ्यते, तथाऽपीह प्रतिषेधवाचकेन ननासाहचर्याप्रतिषेधार्थ एव गृह्यते, तत्र चालंशब्दे नामस्थापनाद्रव्यभावभेदाच्चतुर्विधो निक्षेपो भवति, तत्र नामानं यस्य चेतनस्य अचेतनस्य वाऽलमितिनाम क्रियते, स्थापनालंतुयत्र क्वचिच्चित्रपुस्तकादौ पापनिषेधं कुर्वन्साधुः स्थाप्यते, द्रव्यनिषेधस्तु नोआगमतो ज्ञशरीरमव्यशरीरव्यतिरिक्तो द्रव्यस्य चौराद्याहतस्यैहिकापायभीरुणा यो निषेधः क्रियते स द्रव्यनिषेधः, एवं द्रव्येण द्रव्याद् द्रव्ये वा निषेधः, भावनिषेधं तु स्वत एव नियुक्तिकारोऽलंशब्दस्य संभविनमर्थं दर्शयन्बिभणिषुराहनि. [२०२] पज्जत्तीभावे खलु पढमो बीओ भवे अलंकारे। ततितो उ पडिसेहे उलसद्दी होइ नायव्यो।। वृ.पर्याप्तिभावः-सामर्थ्यतत्रालंशब्दोवर्तते, अलंमल्लोमल्लाय, समर्थइत्यर्थः, लोकोत्तरेऽपि "नालं ते तवा ताणाए वा सरणाए वा" ॥ अन्यैरप्युक्तम् । ॥१॥ "द्रव्यास्तिकरथारूढः पर्याद्यतकार्मुकः। ___ युक्तिसन्नाहवान्वादी, कुवादिभ्यो भवत्यलम् ॥ अयंप्रथमोऽलंब्दार्थोभवति, खलुशब्दोवाक्यालङ्कारे, द्वितीयस्त्वर्थोऽलङ्कारे-अलङ्कारेविषये भवते, संभावनायां लिङ, तद्यथा-अलंकृतं देव! देवेन स्वकुलंजगच्च नाभिसूनुने' त्यादि । तृतीय स्त्वलंशब्दार्थ प्रतिषेधे ज्ञातव्यो भवति, तद्यथा-अलंमेगृहवासेन, तथा 'अलंपापेनकर्मणा उक्तंच॥१॥ "अलं कुतीथैरिह पर्युपासितैरलं वितर्काकुलकाहलैर्मतः । अलंच मे कामगुणैर्निषेवितैर्भयंकरा ये हि परत्र चेह च ॥ -तदिह प्रतिषेधवाचिनाऽलंशब्देनाधिकार इत्येतद्दर्शयितुमाहनि. [२०३] पडिसेहनगारस्सा इस्थिसद्देण चेव अलसद्दो। रायगिहे नयरंमी नालंदा होइ बाहिरिया ॥ वृ सत्यप्यलंशब्दस्यार्थत्रये नकारस्य सान्निध्यात्प्रतिषेधविधाय्येवेह गृह्यते, ततश्च निरुक्तविधानादयमर्थ-नालं ददातीति नालन्दा, बाहिरिकायाः स्त्रियोद्देशकत्वेन वाचकत्वेन च नालन्दशब्दस्य स्त्रीलिंगता, साचसदैहिका-मुष्मिकसुखहेतुत्वेन सुखप्रदा राजगृहनगरबाहिरिका धनकनकसमृद्धत्वेन सत्साध्वाश्रयत्वेन च सर्वकामप्रदेति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy