________________
सूत्रकृताङ्ग सूत्रम् १/१/३/७३ प्रागपि यावदद्यापि सिद्धिप्राप्तिन भवति तावदिहैव जन्मन्यस्मदीयदर्शनोक्तानुष्ठानानुभावादष्टगुणैश्यसद्भावो भवतीति दर्शयति-आत्मवशे वर्तितुं शीलमस्येति वशवर्तीवशेन्द्रिय इत्युक्तं भवति, न ह्यसौ सांसारिकैः स्वभवैरभिम्यते, सर्वे कामा-अभिलाषा अर्पिताःसंपत्रा यस्य स सर्वाकामसमर्पितो, यान् यान् कामान् कामयते ते तेऽस्य सर्वे सिध्यन्तीतियात्, तथाहि-सिद्धेरारादष्टगुणैश्वर्यलक्षणा सिद्धिर्भवति तद्यथा-अणिमालघिमामहिमाप्राकाम्यमीशित्वं वशित्वंप्रतिघातित्वंयत्रकामावसायित्वमिति। तदेवमिहैवास्मदुक्तानुष्ठायिनोऽष्टगुणैश्वर्यलक्षणा सिद्धिर्भवत्यमुत्र चावशेषद्वन्द्वोपरम-लक्षणा सिद्धिर्भवतीति दर्शयितुमाहमू. (७४) सिद्धा य ते अरोगा य, इहमेगेसिमाहियं ।
सिद्धिमेव पुरो काउं, सासए गढिआ नरा ।। वृ.येह्यस्मदुक्तमनुष्ठानं सम्यगनुतिष्ठन्ति तेऽस्मिन् जन्मन्यष्टगुणैश्वर्यरूपांसिद्धिमासाद्य पुनर्विशिष्टसमाधियोगेन शरीरत्यागंकृत्वा सिद्धाश्च' अशेषद्वन्द्वरहिताअरोगाभवन्ति, अरोगग्रहणं चोपलक्षणम्, अनेकशारीरमानसद्वन्द्वैर्न स्पृश्यन्ते, शरीरमनसोरभावादिति, एवम् ‘इह' अस्मिन् लोके सिद्धिविचारे वा ‘एकेषां' शैवादीनामिदम् ‘आख्यातं' भाषितं, ते च शैवादयः 'सिद्धिमेवपुरस्कृत्य' मुक्तिमेवाङ्गीकृत्य ‘स्वकीये आशये' स्वदर्शनाभ्युपगमे ‘ग्रथिताः' संबद्धा अध्युपपन्नास्तदनुकूलायुक्तीः प्रतिपादयन्ति, नराइव नराः-प्राकृतपुरुषाःशास्त्रावबोधविकलाः स्वाभिप्रेतार्थसाधनाय युक्ति प्रतिपादयन्ति, एवं तेऽपि पण्डितंमन्याः परमार्थमजानानाः स्वाग्रहप्रसाधिका युक्तिरुद्घोषयन्तीति, तथा चोक्तम् - ॥१॥ आग्रही बत निनीषति युक्ति, तत्र यत्र मतिरस्य निविष्टा ।
पक्षपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशम् ।। मू. (७५) असंवुडा आदीयं, भमिहिंति पुणो पुणो।
कप्पकालमुवजंति, ठाणा आसुरकिब्बिसिया ।। तिबेमि।वृ. साम्प्रतमेतेषामनर्थप्रदर्शनपुरःसरं दूषणाभिधित्सयाऽऽह ते हि पाखण्डिका मोक्षाभिसन्धिना समुत्थिताअपि असंवृता' इन्द्रियनोइन्द्रियैरसंयताः, इहाप्पस्माकंलाभ इन्द्रिया०नुरोधेन सर्वविष-योपभोगादू, अमुत्रमुक्त्यवाप्तेः, तदेवं मुग्धजनं प्रतारयन्तोऽनादिसंसारकान्तारं 'भ्रमिष्यन्ति' पर्यटिष्यन्ति स्वदुश्चरितोपात्तकर्मपाशावशापि ताः पौनःपुन्येन नरकादियातनास्थानेषूत्पद्यन्ते, तथाहि --
नेन्द्रियैरनियमितैरशेषद्वन्द्वप्रच्युतिलक्षणासिद्धिरवाप्यते, याऽप्यणिमाघष्टगुणलक्षणैहिकी सिद्धिरभिधीयतेसाऽपि मुग्धजनप्रतारणाय दम्भकल्पैवेति, ताऽपिचतेषांबालतपोऽनुष्ठानादिना स्वर्गावाप्ति साऽप्येवंप्राया भवतीति दर्शयति-'कल्पकालं' प्रभूतकालम् ‘उत्पद्यन्ते' संभवन्ति आसुराः- असुरस्थानोत्पन्ना नागकुमारादयः, तत्रापि न प्रधानाः, किं तर्हि ? - 'किल्बिषिकाः' अधमाः प्रेष्यभूता अल्पर्धयोऽल्पभोगाः स्वल्पायुःसामर्थ्याधुपेताश्च भवन्तीति । इति उद्देशकपरिसमाप्तयर्थे, ब्रवीमीति पूर्ववत् ।
अध्ययनं-१ उद्देशकः-३ समाप्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org