________________
श्रुतस्कन्धः - १, अध्ययनं -१, उद्देशकः - ३ मू. (७१) इह संवुडे मुनी जाए, पच्छा होइ अपावए।
वियडंबु जहा भुजो, नीरयं सरयं तहा।। वृ. किंच-'इह' अस्मिन् मनुष्यभवे प्राप्तः सन्प्रव्रज्यामभ्युपेत्य संवृतात्मा-यमनियमरतो जातः सन्पश्चादपापो भवति-अपगताशेषकर्मकलङ्को भवतीति भावः, ततः स्वशासनं प्रज्चाल्य मुक्त्वस्थो भवति, पुनरपि स्वशासनपूजादर्शनान्निकारोपलब्धेश्च रागद्वेषोदयात्कलुषितान्तरात्मा विकटाम्बुवद्-उदकवन्नीरजस्कं सद्वातोद्धतरेणुनिवहसंपृक्तं सरजस्कं-मलिनं भूयो यथा भवति तथाऽयमप्यात्माऽनन्तेन कालेन संसारोद्वेगाच्छुद्धाचारावस्थो भूत्वा ततो मोक्षावाप्तौ सत्यामकर्मावस्थो भवति, पुनः शासनपूजानिकारदर्शनाद्रागद्वेषोदयात्सकर्मा भवतीति, एवं त्रैराशिकानां राशित्रयावस्थो भवत्यात्मेत्याख्यातम्, उक्तं च -
"दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठम् । मुक्तः स्वयं कृतभवश्च परार्थशूरस्वत्वच्छासनप्रतिहतेष्विह मोहराज्यम् इति
-अधुनैतद्दूषयितुमाहमू. (७२) एतानुवीति मेघावी, बंभचेरेण ते वसे ।
पुढो पावाउया सवे, अक्खायारो सयं सयं ।। वृ. 'एतान्' पूर्वोक्तान् वादिनोऽनुचिन्त्य 'मेघावी' प्रज्ञावान् मर्यादाव्यवस्थितो वा एतदवधारयेत् यथा-ते राशित्रयवादिनो देवोप्तादिलोकवादिनश्च ‘ब्रह्मचर्ये' तदुपलक्षिते वा संयमानुष्ठाने 'वसेयुः' अवतिष्ठेरन्निति, तथाहि-तेषामयमभ्युपगमो यथा स्वदर्शनपूजानिकारदर्शनात्कर्मबन्धोभवति, एवं चावश्यंतद्दर्शनस्य पूजयातिरस्कारेण वोभयेन वाभाव्यं, तत्संभवाच्च कर्मोपचयस्तदुपचयाच्च शुद्धयभावः शुद्धयभावाच्च मोक्षाभावः, न च मुक्तानामपगताशेषकर्मकलङ्कानां कृतकृत्यानामपगताशेषयथावस्थितवस्तुतत्त्वानां समस्तुतिनिन्दानामपगतात्पात्मीयपरिग्रहाणां रागद्वेषानुषङ्गः, तदभावाच्च कुतः पुनः कर्मबन्धः । तद्वशाच्च संसारावतरणमित्यर्थ, अतस्ते यद्यपि कथञ्चिद् द्रव्यब्रह्मचर्ये व्यवस्थितास्तथापि सम्यगज्ञानाभावान्न ते सम्यगनुष्ठानभाज इति स्थितम् । अपिच-सर्वेऽप्येते प्रावादुकाः 'स्वकं स्वकम्' आत्मीयमात्मीयं दर्शनं स्वदर्शनानुरावादाख्यातारः-शोभनत्वेन प्रख्यापयितार इति, न च तत्र विदितवेद्येनास्था विधेयेति ॥ मू. (७३) सए सए उवट्ठाणे, सिद्धिमेव न अन्नहा!
____ अहो इहेव वसवत्ती, सव्वकामसमप्पिए ।। वृ. पुनरन्यथा कृतवादिमतमुपदर्शयितुमाह-ते कृतवादिनः शैवेकदण्डिप्रभृतयः स्वकीये स्वकीये उपतिष्ठन्त्यस्मिन्नित्युपस्थान-स्वीयमनुष्ठानं दीक्षागुरुचरणशुश्रूषादि तस्मिन्नेव सिद्धिम्' अशेषसांसारिकप्रपञ्चरहितस्वभावामभिहितवन्तो नान्यथा' नान्येन प्रकारेण सिद्धिरवाप्यत इति, तथाहि-शैव दीक्षात एव मोक्ष इत्येवं व्यवस्थिताः, एकदण्डिकास्तु पञ्चविंशतितत्त्वपरिज्ञानान्मुक्तिरित्यभिहितवन्तः, तथाऽन्येऽपि वेदन्तिका ध्यानाध्ययनसमाधिमार्गानुष्ठानासिद्धिमुक्तवन्त इत्येवमन्येऽपियथास्वंदर्शनान्मोक्षमार्गप्रतिपादयन्तीति, अशेषद्वन्दोपरम्लक्षणायाः सिद्धिप्राप्तेरधस्तात्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org