________________
श्रुतस्कन्धः - १, अध्ययनं-१, उद्देशकः - ४
५७
-अध्ययनं-१ उद्देशक:-४:उक्तस्तृतीयोद्देशकः, अधुनाचतुर्थसमारभ्यते, अस्य चायमभिसंबन्धः-अनन्तरोद्देशके ऽध्ययनार्थत्वात्स्वपरसमयवक्तव्यतोक्तेहापि सैवाभिधीयते, अथवाऽनन्तरोद्देशकेतीथिकानां कुत्सिताचारत्वमुक्तमिहापि तदेवाभिधीयते, तदनेन सम्बन्धेनाऽऽयातस्यास्योद्देशकस्योपक्रमादीनि चत्वार्यनुयोगद्वाराण्यभिधाय सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्मू. (७६) एते जिया भो! न सरणं, बाला पंडियमानिनो।
हिचा णं पुवसंजोगं, सिया किचोवएसगा। वृ. अस्य चानन्तरसूत्रेण सहायं सम्बन्धस्तद्यथा, अनन्तरसूत्रेऽभिहितं-'तीर्थिका असुरस्थानेषु किल्बिषा जायन्त' इति, किमिति ? यत एते जिताः परीषहोपसगैं, परम्परसूत्रसंबन्धस्त्वयम्-आदाविदमभिहितं 'बुध्येत त्रोटयेच्च' ततश्चैतदपिबुध्येत-यथैते पञ्चभूतादिवादिनो गोशालकमतानुसारिणश्च जिताः परीषहोपसर्गे कामक्रोधलोभमानमोहमदाख्येनारिषड्वर्गेण चेति, एवमन्यैरपि सूत्रैः संबन्ध उत्प्रेक्ष्यः । तदेवं कृतसम्बन्धस्यास्य सूत्रस्येदानीं व्याख्या प्रतन्यते
'एत' इति पञ्चभूतैकात्मतज्जीवतच्छरीरादिवादिनः कृतवादिनश्च गोशालकमतानुसारिणस्त्रैराशिकाश्च 'जिता' अभिभूता रागद्वेषादिभिः शब्दादिविषयैश्च तथा प्रबलमहामोहोत्थाज्ञानेन च भो' इति विनेयामन्त्रणम् एवं त्वं गृहाणयथैते तीथिका असम्यगुपदेशप्रवृत्तत्वान्न कस्यचिच्छरणं भवितुमर्हन्तिन किच्चित्त्रातुंसमर्था इत्यर्थ, किमित्येवं?,यतस्ते बालाइव बालाः, यथाशिशवः सदसद्विवेकवैकल्पाद्यत्किञ्चनकारिणोभाषिणश्च,तथैतेऽपिस्वयमज्ञाःसन्तःपरानपि मोहयन्ति, एवम्भूता अपि च सन्तः पण्डितमानिन इति, कचित्पाठो 'जत्थ बालेऽवसीयइत्ति 'यत्र' अज्ञाने 'बालः' अज्ञो लग्नः सन्नवसीदति, तत्र ते व्यवस्थिताः यतस्तेन कस्यचित्राणायेति। यच्च तैर्विरूपमाचरितं तदुत्तरार्द्धन दर्शयति -
___हित्वा' त्यक्त्वा,णमिति वाक्यालङ्कारे, पूर्वसंयोगो-धनधान्यस्वजनादिभि संयोगस्तं त्यक्त्वा किल वयंनिसङ्गाः प्रव्रजिता इत्युत्थाय पुनः सिताःबद्धाः परिग्रहारम्भेष्वासक्तास्ते गृहस्थाः तेषां कृत्यं करणीयं पचनपाचनकण्डनपेषणादिको भूतोपमर्दकारी व्यापारस्तस्योपदेशस्तंगच्छन्तीति कृत्योपदेशगाः कृत्योपदेशका वा, यदिवा-'सिया' इति आर्षत्वाद्बहुवचनेन व्याख्यायते 'स्यु' भवेयुः कृत्यं-कर्तव्यंसावद्यानुष्ठानंतप्रधानाः कृत्या-गृहस्थास्तेषामुपदेशः-संरम्भसमारम्भारम्भरूपः स विद्यते येषां ते कृत्योपदेशिकाः, प्रव्रजिता अपि सन्तः कर्तव्यैर्गृहस्थेभ्यो न भिद्यन्ते, गृहस्था इव तेऽपि सर्वावस्थाः पञ्चसूनाव्यापारोपेता इत्यथः- . मू. (७७) तंच भिक्खू परिन्नाय, वियं तेसुन मुच्छए।
___ अनुक्कस्से अप्पलीणे, मझेण मुनि जावए । वृ. एवम्भूतेषु च तीर्थिकेषु सत्सु भिक्षुणा यत्कर्तव्यं तद्दर्शयितुमाह-'त' पाखण्डिकलोकमसदुपदेशदानाभिरतं परिज्ञाय' सम्यवगम्ययथैते मिथ्यात्वोपहतान्तरात्मानः सद्विवेकशून्या नात्मने हितायालं नान्यस्मै इत्येवं पर्यालोच्यभावभिक्षु संयतो विद्वान् विदितवेद्यः ते 'न मूर्छयेत्' न गायं विदध्यात्, न तैः सह संपर्कमपि कुर्यादित्यर्थः ।
किं पुनः कर्तव्यमिति पश्चार्द्धन दर्शयति-'अनुत्कर्षवानिति' अष्टमदस्थाना- नामन्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org