________________
श्रुतस्कन्धः - २, अध्ययनं - ७,
४४५
प्रयोजनं प्रयोगः- प्रायोगिकत्वं तैरायोगप्रयोगः संप्रयुक्तः समन्वितः तथेतश्चेतश्च विक्षिप्तप्रचुरभक्तपानो बहुदास्यादिपरिवृतो बहुजनस्यापरिभूतश्चासीत् । तदियता विशेषणकदम्बकेनैहिकगुणा विष्करणेन द्रव्यसंपदभिहिता ।। अधुनाऽऽमुष्मिकगुणाविभविन भावसंपदभिधीयते
णमिति वाक्यालङ्कारे, स लेपाख्यो गृहपति श्रमणान् साधूनुपास्ते- प्रत्यहं सेवत इति श्रमणोपासकः, तदनेन विशेषणेन तस्य जीवादिपदार्थाविर्भावक श्रुतज्ञानसंपदावेदिता भवति, एतदेव दर्शयति अभिगतजीवाजीवेत्यादिना ग्रन्थेन यावदसहायोऽपि देवासुरादिभिर्देवगणैरनतिक्रमणीयः - अनतिलङ्घनीयो धर्मादप्रच्यावनीय इतियावत्, तदियता विशेषणकलापेन तस्य सम्यगज्ञानित्वमावेदितं भवति । साम्प्रतं तस्य विशिष्टसम्यग्दर्शनित्वं प्रतिपादयितुमाह'निग्गंथे' इत्यादि, 'निर्ग्रन्थे' आर्हते प्रवचने निर्गता शङ्खा देशसर्वरूपा यस्य स निशङ्कः, 'तदेव सत्यं निशङ्कं यजिनैः प्रवेदित' मित्येवं कृताध्यवसायः, तथा निर्गता काङ्क्षा अन्यान्यदर्शनग्रहणरूपा यस्यासी निराकाङ्क्ष, तथा निर्गता विचिकित्सा-चित्तविप्लुतिर्विद्वज्जुगुपसा वा यस्यासौ निर्विचिकित्सो, यत एवमतो लब्धः - उपलब्धोऽर्थः परमार्थरूपो येन स लब्धार्थो ज्ञाततत्त्व इत्यर्थः ।
तथा गृहीतः स्वीकृतोऽर्थो - मोक्षमार्गरूपो येन स गृहीतार्थः, तथा - विशेषतः पृष्टोऽर्थो येन स पृष्टार्थी, यतएवमतो विनिश्चितार्थः ततोऽभिगतः पृष्टनिर्वचनतः प्रतीतोऽर्थो येन सोऽभिगतार्थः, तथाऽस्थिमिञ्जा- अस्थिमध्यं यावत् स धर्मे प्रेमानुरागेण रक्तः अत्यन्तं सम्यक्त्ववासितान्तश्चेता इतियावत्, एतदेवाविर्भावयन्नाह अयमाउसो' इत्यादि, केनचिद्धर्मसर्वस्वं पृष्टः सन्नेतदाचष्टे, तद्यथा-भो आयुष्मन्निदं नैर्ग्रन्थं मौनीन्द्र प्रवचनमर्थः सद्भूतार्थः तथाप्ररूपणतया, तथेदमेवाह-अयमेव परमार्थः कषतापच्छेदैरस्यैव शुद्धत्वेन निर्घटितत्वात् शेषस्तु सर्वोऽपि लौकिकतीर्थिकपरिकल्पितोऽनर्थः, तदनेन विशेषणकदम्बकेन सम्यक्त्वगुणाविष्करणं कृतं भवति । साम्प्रतं तस्यैव सम्यग्दर्शनज्ञानाभ्यां कृतो यो गुणस्तदाविष्करणायाह- 'उस्सिय' इत्यादि, उच्छृतंप्रख्यातं स्फटिकवत्रिर्मलं यशो यस्यासावुच्छ्रितस्पटिकः, प्रख्यातनिर्मलयशा इत्यर्थः ।
तथाऽप्रावृतम् - अस्थगितं द्वारं-गृहमुखं यस्य सोऽप्रावृतद्वारः, इदमुक्तं भवति-गृहं प्रविश्य परतीर्थिकोऽपि यद्यत्कथयति तदसौ कथयतु न तस्य परिजनोऽप्यन्यथा भावयितुं - सम्यक्त्वाख्यावयितुं शक्यत इतियावत्, तथा राज्ञां वल्लभान्तःपुरद्वारेषु प्रवेष्णुं शीलं यस्य स तथा, इदमुक्तं भवति-प्रतिषिद्धान्यजनप्रवेशान्यपि यानि स्थानानि भाण्डागारान्तः पुरादीनि तेष्वप्यसौ प्रख्यात श्रावकाख्यघगुणत्वेनास्खलितप्रवेशः, तथा चतुर्दश्यष्टम्यादिषु तिथिषूपदिष्टासुमहाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्रख्यातासु तथा पौर्णमासीषु च तिसृष्वपि चतुर्मासकतिथिष्वित्यर्थः एवंभूतेषु पौषधमनुपालयन् संपूर्ण श्रावकधर्ममनुचरति, तदनेन विशेषणकलापेन विशिष्टं देशचारित्रमावेदितं भवति ।
साम्प्रतं तस्यैवोत्तरगुणख्यापनेन दानधर्ममधिकृत्याह- 'समणे निग्गंथे' इत्यादि, सुगमं यावत् 'पडिला भेमाणे' त्ति, साम्प्रतं तस्यैव शीलतपोभावनात्मकं धर्ममावेदयन्नाह 'बहूहि' मित्यादि, बहुभिः शीलव्रतगुणविरमणप्रत्याख्यानपौषधोपवासैस्तथा यथापरिगृहीतैश्च तपः कर्मभिरात्मानं भावयन्, एवं चानन्तरोक्तया नीत्या विहरति-धर्ममाचरंस्तिष्ठत चः समुच्चये णमिति वाक्यालङ्कारे मू. (७९५) तस्स णं लेवस्स गाहावइस्स नालंदाए बाहिरिया उत्तरपुरच्छिमे दिसिभाए एत्थ णं सेसदविया नामं उदगसाला होत्था, अनेगखंभसयसन्निविडा पासादीया जाव पडिरूवा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org