________________
सूत्रकृताङ्ग सूत्रम् २/9/1६४७ विदध्यात्, तथाऽमुना सुचरिततपोनियमब्रह्मचर्यवासेन तथाऽमुना वा यात्रमात्रावृत्तिना धर्मेणानुष्ठितेन इतः' अस्माद्भवाच्युतस्य प्रेत्य जन्मान्तरेस्यामहंदेवः, तत्रस्थस्य चमेवशवर्तिनः कामभोगा भवेयुः अशेषकर्मवियुतो वा सिद्धोऽदुःखः शुभाशुभकर्मप्रकृत्य- पेक्षयेत्येवंभूतोऽहं स्यामागामिनि काल इत्येवमाशंसां न विदध्यादिति, यदिवा विशिष्टतपश्चर-णादिनाऽऽगामिनि काले ममाणिमालधिमेत्यादिकाऽथ्प्रकारा सिद्धिर्भविष्यतीत्यनयाच सिद्धासिद्धोऽहमदुःखोऽशुभो मध्यस्थ इत्येवंरूपामाशंसां न कुर्यात् ।
तदकरणेच कारणमाह-"एत्थवि' इत्यादि, 'अत्रापि विशिष्टतपश्चरणे सत्यपि कुतश्चिनिमित्ताद्दुष्प्रणिधानसद्भावेसति कदाचित्सिद्धि स्यात्कदाचिच्च नैवाशेषकर्मक्षयलक्षणा सिद्धिस्यात, तथा चोक्तम-“जेजत्तिया उहेऊभवस्सते चेवतत्तिया मोक्खे" इत्यादि।यदिवाऽत्राप्यणिमाघष्टगुणकारणेतपश्चरणदी सिद्धिः स्यात्कदाचिच्च न स्यात्-तद्विपर्ययोऽपिवास्यादिति,एवं व्यवस्थिते प्रेक्षापूर्वकारिणां कथमाशंसा कर्तुंयुज्यते इति, सिद्धिश्चाष्टप्रकारेयं-अणिमा १ लधिमा२ महिमा ३ प्राप्ति४प्राकाम्यं ५ ईशत्वं ६ वशित्वंण्यत्रकामावसायित्वमिति ८,तदेवमैहिकार्थमामुष्मिकाथ कीर्तिवर्णश्लोकाद्यर्थचतपोन विधेयमितिस्थितम्।साम्प्रतमनुकूलप्रतिकूलेषु शब्दादिषु विषयेषु रागद्वेषाभावं दर्शयितुमाह-स भिक्षुः सर्वाशंसारहितो वेणुवीणादिषु शब्देषु 'अमूर्च्छितः' अगृद्धोऽनध्युपपन्नः, तथा राजनादिशब्देषुकर्कशेषुअद्विष्टः, एवंरूपरसगन्धस्पर्षेष्वपिवाच्यमिति
पुनरपि सामान्येन क्रोधाद्युपशमं दर्शयितुमाह-विरए कोहाओ' इत्यादि, क्रोधमानमायालोभेभ्यो विरत इत्यादिसुगमं यावदिति से महया आयाणाओ उवसंते उवट्ठिए पडिविरए से भिक्खुति, सभिक्षुर्भवतियोमहतः कर्मोपादानादुपशान्तः सत्संयमेवोपस्थितःसर्वपापेभ्यश्च विरतः प्रतिविरत इति ।। एतदेव च महतः कर्मोपादानाद्विरमणं साक्षाद्दर्शयितुमाह-'जे इमे' इत्यादि, ये केचन त्रसाः स्थावराश्च प्राणिनो भवन्ति, तान् सर्वानपि 'नो' नैव स्वयं सत्साधवः समारमन्ते प्राण्युपमर्दकमारम्भ नारम्भन्त इतियावत्, तथा नान्यः समारम्भयन्ते न चान्यान् समारभमाणान् समनुजानत इत्येवं महतः कर्मोपादानादुपशान्तः प्रतिविरतो भिक्षुर्भवतीति।
साम्प्रतं कामभोगनिवृत्तिमधिकृत्याह-'जेइमे' इत्यादि, ये केचनामी काम्यन्त इति कामा भुज्यन्त इति भोगाः, तेच सचित्ता अचित्ता भवेयुः, तांश्च न स्वतो गृह्णीयाननाप्यन्येन ग्राहयेत् नाप्यपरं गृह्णन्तं समनुजानीयादित्येवं कर्मोपादानाद्विरतो भिक्षुर्भवतीति ।। साम्प्रतं सामान्यतः साम्परायिककर्मोपादाननिषेधमधिकृत्याह-यदपीदं संपर्येति तासु तासु गतिष्वनेन कर्मणेति सांपरायिकं,तच तत्पद्वेषनिहवमात्सर्यान्तरयाशातनोपघातैर्बध्यते, तत्कर्म तत्कारणं वा न कृतकारितानुमतिभिः करोति स भिक्षुरभिधीवत इति ॥ साम्प्रतं भिक्षाविशुद्धिमधिकृत्याह-'से भिक्खू इत्यादिस भिक्षुर्यत्पुनरेवंभूतमाहारजातंजानीयात् 'अस्सिं पढियाए त्ति एतत्प्रतिज्ञया' आहारदान-प्रतिज्ञयायदिवा 'अस्मिन्पर्याये साधुपर्याये व्यवस्थितमेकंसाधुंसाधर्मिकं समुद्दिश्य कश्चिच्छ्रावकः प्रकृतिभद्रको वा साध्वाहारदानार्थं 'प्राणिनः' व्यक्तेन्द्रियान् “भूतानि त्रिकालभावीनि जीवान् आयुष्कवधरणलक्षणान् सत्त्वान् सदासत्त्वोपेतान् समारभ्य' तदुपमर्दकमारम्मं विधाय 'समुद्दिश्य' तत्पीडां सम्यगुद्दिश्य, क्रीतं क्रमेवणद्रव्यविनिमयेन 'पामिच्छति उद्यतकम् 'आच्छेद्य' मित्यन्य-स्मादाच्छिद्य अनिसृष्ट मिति परेणानुत्संकलितम् अभ्याहृतमिति साध्वभिमुखं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org