SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-२, अध्ययनं-१, ३२५ वक्ष्यमाणैःप्रकारैरुत्पद्यतेतथाऽन्येषामपीति, तद्यथा-दण्डेनास्थ्ना मुष्टिना लेलुना' लोष्ठेन 'कपालेन' कपरण 'आकोट्यमानस्य' संकोच्यमानस्य हन्यमानस्यः कशादिभिः तय॑मानस्याङ्गुल्यादिभिः ताड्यमानस्य कुड्यादावभिधातादिना परिताप्यमानस्याग्न्यादौ अन्येन वा प्रकारेण परिक्लाम्यमानस्य तथा 'अपद्राव्यमानस्य' मार्यमाणस्य यावल्लोमोत्खननमात्रमपिहिंसाकरंदुःखं भयं च यन्मयि क्रियते तत्सर्वमहं संवेदयामीत्येवं जानीहि, तथा सर्वे प्राणा जीवा भूतानि सत्त्वा इत्येते एकार्थिकाः कथञ्चिद्भेदं वाऽऽश्रित्य व्याख्येयाः, तत्रैतेषां दण्डादिनाऽऽकुट्यमानानां यावलोमोत्खन- नमात्रमपि दुःखं प्रतिसंवेदयतामेतच्च हिंसाकरं दुःखं भयं चोत्पननं ते सर्वेऽपि प्राणिनः प्रतिसंवेदयन्ति-साक्षादनुभवन्तीति, एवमात्मोपमया पीड्यमानानां जन्तूनां यतो दुःखमुत्पद्यतेऽतः सर्वेऽपि प्राणिनोनहन्तव्यान व्यापादयितव्या 'नाज्ञापयितव्या' बलात्कारेण व्यापारे न प्रयोक्तव्यः तथा न परिग्राह्या न परितापयितव्या नापद्रावयितव्याः। __ सोऽहं ब्रवीमि, एतत् न स्वमनीषिकया किंतु सर्वतीर्थकराज्ञयेति दर्शयति-'जे अतीए' इत्यादि, ये केचन तीर्थकृत ऋषभादयोऽतीतायेचविदेहेषु वर्तमानाः सीमन्धरादयोये चागामिन्यामुत्सर्पिण्यां भविष्यन्ति पद्मनाभादयः अर्हन्तः' अमरासुरनरेश्वराणांपूजार्हा भगवन्त-ऐश्वर्यादिगुणकलापोतेताः सर्वेऽप्येवं ते व्यक्तवाचा 'आख्यान्ति' प्रतिपादयन्ति एवं सदेवमनुजायां पर्षदिभाषन्ते, स्वत एव, नयथा बौद्धानांबोधिसत्त्वप्रभावात् कुड्यादिदेशनत इति, एवं प्रकर्षण ज्ञापयन्ति हेतूदाहरणादिभिः, एवंप्ररूपयन्ति नामादिभिर्यथा सर्वेप्राणान हन्तव्या इत्यादि, 'एष धर्म' प्राणिरक्षणलक्षणः प्राग्व्यावर्णितस्वरूपो 'ध्रुवः' अवश्यंभावी 'नित्यः' क्षान्त्यादिरूपेण इत्येवं च 'अभिसमेत्य' केवलज्ञानेनावलोक्य 'लोकं चतुर्दशरज्ज्वात्मकं 'खेदज्ञैः' तीर्थकृभिः 'प्रवेदितः' कथित इत्येवंसर्वं ज्ञात्वास भिक्षुर्विदितवेद्यो विरतः प्राणातिपाताधावत्परिग्रहादिति, एतदेव दर्शयितुमाह 'नो दंत' इत्यादि, इहपूर्वोक्तमहाव्रतपालनार्थमनेनोत्तरगुणाःप्रतिपाद्यन्ते,तत्रअपरिग्रहोनिष्किञ्चनः सन् साधु! 'दन्तप्रक्षालनेन' कदम्बादिकाष्ठेन दन्तान् प्रक्षालयेत् तथा नो 'अञ्जनं' सौवीरादिकं विभूषार्थमक्ष्णोर्दद्यात्तथा नो वमनविरेचनादिकाः क्रियाः कुर्यात्तथा नो शरीरस्य स्वीयवस्त्राणां वाधूपनं कुर्यात् नापिकासाद्यपनयनार्थतंधूमं योगवर्तिनिष्पादितमापिबेदिति । साम्प्रतं मूलगुणोत्तरगुणप्रस्तावमुपसंजिघृक्षुराह स मूलोत्तरगुणव्यवस्थितो भिक्षुर्नास्य क्रियासावद्या विद्यते इत्यक्रियः, संवृतात्मकतया सांपरायिककर्माबन्धक इत्यर्थः, कुत एवंभूतः यतः प्राणिनामलूषकः-अहिंसकोऽनुपमर्दक इत्यर्थः, तथा न विद्यतेक्रोधोअस्येत्यक्रोधः, एवममानोऽमायोऽलोभः कषायोपशमाञ्चोपशान्तः-शीतीभूतस्तदुपशमाच्च परिनिर्वृत इव परिनिर्वृतः एवं तावदैहिकेभ्यः कामभोगेभ्यो विरतः पारलौकिकेभ्योऽपि विरत इति दर्शयति। 'नोआसंसं' इत्यादि, नो नैवाशंसांपुरस्कृत्यममानेन विशिष्टतपसाजन्मान्तरे कामभोगावाप्तिभविष्यतीत्येवंभूतामाशंसांनपुरस्कुर्यादिति, एतदेवदर्शयितुमाह-'इमेण में इत्यादि, अस्मिन्नेव जन्मन्यमुना विशिष्टतपश्चरणफलेन हटेनामर्षीषध्यादिना तथ पारलौकिकेन च श्रुतेनाकधम्मिल्लब्रह्मदत्तादीनां विशिष्टतपश्चरणफलेन्, तथा 'मएण वत्ति ‘मन ज्ञाने' जातिस्मरणादिना ज्ञानेन, तथाऽऽचायदिः सकाशाद्विज्ञातेन-अवगतेन ममापि विशिष्टं भविष्यतीत्येवं नाशंसां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy