________________
श्रुतस्कन्धः - २, अध्ययनं-१,
३२७
ग्रामादेरानीतम् ‘आहृत्य" उपेत्य साध्वर्थंकृतमुद्देशिकमित्येवंभूतमाहारजातं साधवेदत्तं स्यात्, तञ्चाकामेन तेन परिगृहीतं स्यात्, तदेवं दोषदुष्टंच ज्ञात्वा स्वयं न मुञ्जीत नाप्यपरेण भोजयेत्न च भुआनमपरं समनुजानीयादित्येवं दुष्टाहारदोषानिवृत्तो भिक्षुर्भवतीति।
अथपुनरेवंजानीयादित्यादि, तद्यथा-विद्यते तेषांगृहस्थानामेवंभूतो वक्ष्यमः 'पराक्रमः' सामर्थ्यमाहारनिर्वर्तनं प्रत्यारम्भस्तेनच यदाहारजातंनिवर्तितं यस्यचार्थाय' यत्कृतेतत् चेतित'मिति दत्तं निष्पादितं 'स्याद् भवेत्, यत्कृतेच तनिष्पादितं तत्स्वनामग्राहमाह, तद्यथा-आत्मनः स्वनिमित्तमेवाहारदिपाकनिर्वर्तनं कृतमिति, तथा पुत्राद्यर्थं यावदादेशाय-आदिश्यते यस्मिन्नागते संभ्रमेण परिजनस्तदासनदानादिव्यापारे स आदेशः-प्राघूर्णकस्तदर्थं वा पृथक्प्रहेणार्थ विशिष्टाहारनिर्वर्तनं क्रियते । तथा श्यामा -रात्रिस्तस्यामशनमाशः श्यामाश्स्तदर्थं, प्रातरशनं प्रातराशः - प्रत्यूषस्ये व भोजनं तदर्थं सन्निधिसंनिचयो विशिष्टाहार संग्रहस्य संचयः क्रियते।
अनेन चैतप्रतिपादितं भवति-बालवृद्धग्लानादिनिमित्तं प्रत्यूषादिसमयेष्वपि भिक्षटनं क्रियते, तस्य चायमभहितः संभवः, स च 'संनिधिसंचय' इहैकेषां मानवानां भोजनार्थं भवति, तत्र भिक्षुरुद्यतविहारी परकृतपनिष्ठितमुद्गमोत्पादनैषणाशुद्धमाहारमाहरेत्, अत्र च परकृतपरनिष्ठिते चत्वारो भङ्गाः, तद्यथा-तस्य कृतं तस्यैवच निष्ठितं, तस्य कृतमन्यस्यनिष्ठितम्, अन्यस्य कृतं तस्यैव निठितम्, अन्यस्य कृतमन्यस्य निष्ठितमित्ययं चतुर्थो भङ्गः सूत्रेणोपात्तः, अयं च शुद्धो द्वितीयश्च अन्यस्य निष्ठितत्वात्, तत्राधाकर्मोद्देशिकादय उद्गमदोषाः षोडश तथोत्पादनादोषा धात्रीदूत्या- दिकाः षोडशैव तथैषणादोषाः शङ्किातादयो दश, एवमेभिद्विचत्वारिंशद्दोष रहितत्वाच्छुद्धं ।
तथा शस्त्रम्-अग्न्यादिकं तेनातीतं प्रासुकीकृतं शस्त्रपरिणामित'मिति शस्त्रेण स्वकायपरकायादिना निर्जीवीकृतं वर्णगन्धसादिभिश्च परिणमितं, हिंसां प्राप्तं हिंसितं विरूपं हिंसितं विहिंसितं-नसम्यक् निर्जीवीकृतमित्यर्थःतप्रतिषेधादविहिसितं, निर्जीवमित्यर्थः, तदप्येषितम्अन्वेषितं भिक्षाचर्याविधिना प्राप्तं, वैषिक मिति केवलसाधुवेषावाप्तं न पुनर्जात्याद्याजीवनतो निमित्तादिना वोत्पादितं, तदपि 'सामुदानिकं समुदान-भिक्षासमूहस्तत्र भवं सामुदानिकम्, एतदुक्तं भवति-मधुकरवृत्त्याऽवाप्तं सर्वत्र स्तोकं स्तोकं गृहीतमित्यर्थः । तथा प्रज्ञस्येदं प्राज्ञंगीतार्थेनोपात्तमशनम्-आहारजातं, तदपिवेदनावैय्यावृत्त्यादिके कारणेसति, तत्रापिप्रमाणयुक्तं नातिमात्र, प्रमाणं चेदम् - ॥१॥ “अद्धमसणस्स सव्वंजणस्स कुजा दवस्स दो भाए।
वाउपवियारणहा छब्भागं ऊणयं कुज्जा ॥ इति। एतदपिनवर्णवलाद्यर्थ किंतुयावन्मात्रेणाहारेणदेहः क्रियासु प्रवर्तते, तत्र दृष्टान्तद्वयमाह-तद्यथा-अक्षस्योपालनम्-अभ्यङ्गो व्रणस्य च लेपनं-प्रलेपस्तदुपमयाआहारमाहरेत्, तथा चोक्तम्॥१॥ “अमंगेण वसगडं न तरइ विगई विणा उ जो साहू।
सो रागदोसरहिओ मत्ताए विहीइ तं सेवे॥ एतदेवदर्शयति-संयमयात्रायां मात्रा संयमयात्रामात्रा यावत्याऽऽहारमात्रया संयमयात्रा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org