SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३२८ सूत्रकृताङ्ग सूत्रम् २/9/-१६४७ प्रवर्तते सा तथा तया-संयमयात्रामत्रया वृत्तिर्यस्य तत्तथा, तदपि बिलप्रवेशपन्नगभूतेनात्मनाऽऽहारमाहरेत्, एतदुक्तं भवति-यथाऽहिर्बिलं प्रविशन् तूर्णं प्रविशति एवं साधुनाऽप्याहारस्तत्स्वादमनास्वादयता शीघ्रं प्रवेशयितव्य इति, यदिवा सर्पणेवाहारो लब्ध्वाऽस्वादमभ्यवहार्यतइति।तदेव चाहारजातंदयितुमाह-'अत्रं भक्तम् अत्रकाले सूत्रार्थपौरुष्युत्तरकालं भिक्षाकाले प्राप्ते, पुरःपश्चात्कर्मपरिहृतं भवति यथोक्तभिक्षाटनेन, ग्रहणकालावाप्तं मैक्षं परिभोगकाले मुञ्जीत, तथा पानकं पानकाले, नातितृषितो मुभीत नाप्यतिबुभुक्षितः पानकं पिबेदिति, तथा वस्त्रं वस्त्रकाले गृह्णीयाद्, उपभोगंवा कुर्यात्, तथा लयनं गुहादिकमाश्रयस्तस्य वर्षास्ववश्यमुपादानम् अन्यदा त्वनियमः, तथा शय्यतेऽस्मिन्निति शयनं-संस्तारकः सचशयनकाले, तत्राप्यगीतार्थानां प्रहरद्वयंनिद्राविमोक्षो गीतार्थानां प्रहरमेकमिति। सभिक्षुराहारोपधिशयनस्वाध्यायध्यानादीनां मात्रांजानातीतितद्विधिज्ञः सन्अन्यतरां दिशमनुदिशं वा 'प्रतिपन्नः' समाश्रितो धर्ममाख्यापयेत्-प्रतिपादयेत् यद्येन विधेयं तद्यथायोगं विभजेद्धर्मफलानिचकीर्तयेद्-आविर्भावयेत्,तच्च धर्मकथनंपरहितार्थप्रवृत्तेनसाधुना सम्पगुपस्थितेषु शिष्येषु अनुपस्थितेषुवा-कौतुकादिप्रवृत्तेषु 'शुश्रूषमाणेषु' श्रोतुं प्रवृत्तेषु स्वपरहिताय 'प्रवेदयेद्' आवेदयेप्रकथयेदितियावत् । श्रोतुमुपस्थितेषु यत्कथयेत्तद्दर्शयितुमाह-'संतिविरई इत्यादि शान्ति-उपशमः क्रोधजयस्तप्रधाना प्राणातिपातादिभ्यो विरतिः शान्तिविरतिः, यदिवा शान्ति-अशेषक्लेशोपशमरूपा तस्यै-तदर्थं विरतिः शान्तिविरतिस्तां कथयेत, तथा उपशमम्' इन्द्रियनोइन्द्रियोपशमरूपं रागद्वेषाभावजनितं तथा निर्वृति निर्वाणमशेषद्वन्द्वोपरमरूपं तथा 'सोयवियंति शौचं तदपि भावशौचं सर्वोपाधिविशुद्धताव्रतामालिन्यं 'अनवियंति आर्जवम्अमायित्वंतथा मार्दवं-मृदुभावः सर्वत्र प्रश्रयवत्त्वं विनयनम्रतेतियावत्,तथा लाघवियंतिकर्मणां लाघवापादनं कर्मगुरोर्वाऽऽत्मनः कर्मापनयनतो लघ्ववस्थासंजननं, सामप्रतमुपसंहारद्वारेण सर्वशुभानुष्ठानानां मूलकारणमाह-अतिपतनम्-अतिपातः प्राण्युपमर्दनं तद्विद्यते यस्यासावतिपातिकस्तप्रतिषेधानतिपातिकस्तं सर्वेषां प्राणिनां भूतानां यावत्सत्त्वानां धर्ममनुविविच्यानुविचिन्त्य वा 'कीर्तयेत्' कथयेत्, इदमुक्तं भवति-सर्वप्राणिनां रक्षाभूतं धर्म कथयेदिति । साम्प्रतं धर्मकीर्तनं यथा निरुपधि भवति तथा दर्शयितुमाह-स भिक्षु परकृतपरनिष्ठिताहारभोजीयथाक्रियाकालानुष्ठायी शुश्रूषतसुधर्मंकीर्तयेत् नात्रस्य हेतोर्ममायमीश्वरोधर्मकथाप्रवणो विशिष्टमाहारजातंदास्यतीत्येतन्निमित्तंन धर्ममाचक्षीत,तथा पानवस्त्रलयनशयननिमत्तं न धर्ममाचक्षीत, अन्येषां वा विरूपरूपाणाम् उच्चावचानां कार्याणां कामभोगानां वा निमित्तं न धर्ममाचक्षीत तथा ग्लानिमनुपगच्छन् धर्ममाचक्षीत, कर्मनिर्जरायाश्चान्यत्र न धर्म कथयेद्, अपरप्रयोजननिरपेक्ष एवधर्मकथयेदिति॥धर्मकथाश्रवणफलदर्शनद्वारेणोपसंजिघृक्षुराह-इह खलु तस्से'त्यादि, 'इह' अस्मिन् जगति खलु वाक्यालङ्कारे 'तस्य' भिक्षोर्गुणवतः 'अन्तिके' समीपे पूर्वोक्तविशेषणविशिष्टं धर्म श्रुत्वा "निशम्य' अवगम्य सम्यगुत्थानेनोत्थाय 'वीराः' कर्मविदारणसहिष्णवो ये चैवंभूतास्ते “एवं' पूर्वोक्तविशेषणविशिष्टानुष्ठानतया सस्मिन्नपि मोक्षकारणे सम्यग्दर्शनादिके उप-सामीप्येन गताः सर्वोपगताः, तथैव सर्वेभ्यः पापस्थानेभ्य उपरताः सर्वोपरता तथात एवसर्वोपशान्ताजितकषायतया शीतलीभूताः तथातएव सर्वात्मतयासर्वसामर्थेन सदनुष्ठाने उद्यम कृतवन्तोयेचवंभूतास्तेऽ-शेषकर्मक्षयंकृत्वा परि-समन्तानिवृताः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy