________________
श्रुतस्कन्धः - २, अध्ययनं-१,
३२९
-
परिनिर्वृताः अशेषकर्मक्षयं कृतवन्तः, इति ब्रवीमीति पूर्ववत् ।
साम्प्रतमध्ययनोपसंहारार्थमाह-एव मितिपूर्वोक्तविशेषणकलापविशिष्टः स भिक्षुपुनरपि सामान्यतो विशिष्यते-धर्मश्रुतचारित्राख्यस्तेनार्थीधर्मार्थी, यथावस्थितं परमार्थतो धर्मसर्वोपाधिविशुद्धं जानातीति, धर्मवित्, तथा नियागः-संयमो विमोक्षो वा कारणे कार्योपचारं कृत्वा तं प्रतिपन्नो नियागप्रतिपन्नः, स चैवंभूतः पञ्चमपुरुषजातः, तं चाश्रित्य तत्यथेदं प्राक् प्रदर्शितं तत्सर्वमुक्तं, सच प्राप्तो वा स्यात्पद्मवरपौण्डरीकम्-अनुग्राह्यं पुरुषविशेषं चक्रवर्त्यादिकं, तत्प्राप्तिश्च परमार्थतः केवलज्ञानावाप्तौ सत्यां भवति, साक्षाद्यथाऽवस्थितवस्तुस्वरूपपरिच्छित्तेः, अप्राप्तो वा स्यात् मतिश्रुतावधिमन:पर्यायज्ञानैर्व्यस्तैः समस्तैर्वा समन्वितः, सचैवंभूतः प्राग्व्यावर्णितगुणकलापोपेतो भिक्षु परिसमन्तात् ज्ञातं कर्म स्वरूपतो विपाकतस्तदुपादानतश्च येन स परिज्ञातकर्मा, तथा परिज्ञातः सङ्गः-सम्बन्धः सबाह्याभ्यन्तरो येन स तथा, परिज्ञातो निसारतया गृहवासो येन स तथा, उपशान्त इन्द्रियनोइन्द्रियोपशमात्, तथा समितः पञ्चभिः समितिभिः, तथा सहहितेन वर्तत इति सहितो ज्ञानादिभिर्वा सहितः-समन्वितः, 'सदा' सर्वकालं 'यतः' संयतःप्राग्व्यावर्णितनियमकलापोपेतः,सएवंगुणकलापान्वितएतद्वचनीयः, तद्यथा श्राम्यतीति श्रमणः सममना वा, तथा मा प्राणिनो जहि-व्यापादयेत्येवं प्रवृत्तिः ।
उपदेशो यस्य स माहनः स ब्रह्मचारी वा ब्राह्मणः, क्षान्तः स क्षमोपेतो, दान्त इन्द्रियनोइन्द्रियदमनेन, तथा तिसृभिर्गुप्तिभिगुप्तः, तथामुक्त इवमुक्तः, तथा विशिष्टतपश्चरणोपेतोमहर्षिः,, तथा मनुतेजगतस्त्रिकालवस्थामिति मुनिः, तथा कृतमस्यास्तीतिकृती पुण्यवान् परमार्थपण्डितो वा, तथा विद्वान्सद्विद्योपेतः,तथा भिक्षुर्निरवद्याहारतया भिक्षणशीलः, तथाऽन्तप्रान्ताहारत्वेन रूक्षः, तथा संसारतीरभूतो मोक्षस्तदर्थी, तथा चर्यत इति चरण-मूलगुणाः क्रियत इति करणम्उत्तरगुणास्तेषां पारं-तीरंपर्यन्तगमनं तद्वेत्तीति चरणकरणपारविदिति। इतिशब्दः परिसमाप्ती । ब्रवीमीति तीर्थकरवचनादार्यः सुधर्मस्वामी जम्बूस्वामिनमुद्दिश्य एवं भणति-यथाऽहं न स्वमनीषिकया ब्रवीमीति ।। साम्प्रतं समस्ताध्ययनोपात्तदृष्टान्तदान्तिकयोस्तात्पर्यार्थ गाथाभिर्नियुक्तिकृद्दर्शयितुमाहनि. [१५८] उवमा य पुंडरीए तस्सेवय उवचएण निजुत्ती।
___ अधिगारो पुण भणिओ जिणोवदेसेण सिद्धित्ति । वृ.इह 'उपमा' दृष्टान्तः ‘पौण्डरीकेण' श्वेतशतपत्रेण कृतः, तस्येहाभ्यर्हितत्वात्, तस्यैव चोपचयेन सर्वावयवनिष्पत्तिर्यावद्विशिष्टो पायेनोद्धरणं, दान्तिकाधिकारस्तु पुनरत्र भणितःअभिहितश्चक्रवत्यदिभव्यस्य जिनोपदेशेन सिद्धिरिति, तस्यैव पूज्यमानत्वादिति । नि. [१५९] सुरमणुयतिरियनिरओवंगे मणुया पहूचरित्तम्मि।
अविय महाजणनेयत्ति चक्कवष्टिमि अधिगारो॥ वृ. पूज्यत्वमेव दर्शयितुमाह-'सुरमणुय' इत्यादि, सुरादिषु चतुर्गतिकेषु जन्तुषु मध्ये मनुजाश्चरित्रस्य-सर्वसंवररूपस्य प्रभवः-शक्ता वर्तन्ते, न शेषाः सुरादयः, तेष्वपि मनुजेषु महाजननेतारश्चक्रवदियो वर्तन्ते, तेषु प्रबोधितेषु प्रधानानुगामित्वात् इतर जनः सुप्रतिबोध एव भवतीत्यतोऽत्र चक्रवर्त्यादिना पौण्डरीककल्पेनाधिकार इति । पुनरप्यन्यथा मनुजप्राधान्यं दर्शयितुमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org