________________
३३०
सूत्रकृताङ्ग सूत्रम् २/१/-/६४७/ नि. [१६०] नि. [१६०] अविय हुभारियकम्मा नियगा उक्क स्सनिरयठितिगामी।
तेऽवि हु जिणोवदेसेण तेणेव भवेण सिझंति ।। वृ. 'अविय' इत्यादि,गुरुकर्माणोऽपिमनुजा आसंकलितनरकायुषोऽपि नरकगमनयोग्या अपि तेऽप्येवंभूताजिनोपदेशात्तेनैव भवेन समस्तकर्मक्षयात् सिद्धिगामिनो भवन्तीति । तदेवं दृष्टान्तदान्तिकयोस्तात्पर्यार्थं प्रदर्य दृष्टान्तभूतपौण्डरीकाऽऽधारायाः पुष्करिण्या दुरवगाहित्वं सूत्रालापकोपात्तं नियुक्तिकृद्दर्शयितुमाह -- नि. [१६१] जलमालकद्दमालं बहुविहवल्लिगहणं च पुक्खरिणि ।
जंघाहि व बाहाहि व नावाहि व तं दुरवगाहं।। वृ. 'जलमाले त्यादि, जलमालाम्-अत्यर्थप्रचुरजलांतथाकर्दममालाम्-अप्रतिष्ठिततलतया प्रभूततरपङ्का तथा बहुविधवल्लिगहनां च पुष्करिणीं जाभ्यां वा बाहुभ्यां वा नावा वा दुस्तरां पुष्करिणी, दृष्ट्वेति क्रियाध्याहारः, किंचान्यत् - नि. [१६२] पउमं उल्लंघेत्तु ओयरमाणस्स होइ वावती।
किं नत्स्थि से उवाओ जेणुल्लंघेज्ज अविवन्नो । वृ. 'पउमं' इत्यादि, तन्मध्ये पद्मवरपौण्डरीकंगृहीत्वा समुत्तरतोऽवश्य यापत्ति प्राणानां भवेत्, किंतत्र कश्चिदुपायः स नास्ति? येनोपायेन गृहीतकमलः सन्तांपुष्करिणीमुल्लङ्घयेदविपन्न इति। तदुल्लङ्घनोपायं दर्शयितुमाह - नि. [१६३] विजा व देवकम्म अहवा आगासिया विउव्वणया ।
पउमं उल्लंघेत्तुं न एस इणमो जिणक्खाओ ।। वृ 'विद्या वे' त्यादि, विद्या वा काचिप्रज्ञप्त्यादिका देवताकर्म वाऽथवाऽऽकाशगमनलब्धिर्वा कस्यचिद्भवेत् तेनासावविपन्नो गृहीतपौण्डरीकः सन्नुल्लङ्घयेत्तां पुष्करिणीम्, एष च जिनैरुपायः समाख्यात इति । सर्वोपसंहारार्थमाह - नि. [१६४] सुद्धप्पओगविजा सिद्धा उ जिणस्स जाणणा विज्जा ।
भवियजणपोंडरीया उ जाए सिद्धिगतिमुवेति ॥ वृ. 'सुद्धप्पे' त्यादि, शुद्धप्रयोगविद्या सिद्धा जिनस्यैव विज्ञानरूपा विद्या नान्यस्य कस्यचिद्यया विद्यया तीर्थकरदर्शितया भव्यजनपौण्डरीकाः सिद्धिमुपगच्छन्तीति । गतोऽनुगमः, साम्प्रतं नयाः, तेच पूर्ववद्रष्टव्या इति ।।
अध्ययनं-१ समाप्तम् मुनि दीपरत्न सागरेण संशोधिता सम्पादिता द्वीतीय श्रुतस्कन्धस्य
प्रथममध्ययनटीका परिसमाप्ता।
(अध्ययनं-२ क्रियास्थान) वृ. व्याख्यातं प्रथमाध्ययनं, साम्प्रतं द्वितीयमारभ्यते, अस्यचायमभिसंबन्धः, इहानन्तराध्ययने पुष्करिणीपीण्डरीकदृष्टान्तेन तीर्थकाः सम्यङमोक्षोपायाभावात्कर्मणां बन्धकाः प्रतिपादिताः, सत्साधवश्च सम्यग्दर्शनादिमोक्षमार्गप्रवृत्तत्वान्मोचकाः सदुपदेशदानतोऽपरेषामपीति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org