________________
श्रुतस्कन्धः - २, अध्ययनं - २,
तदिहापि यथा कर्म द्वादशभिः क्रियास्थानैर्बध्यते यथा च त्रयोदशेन मुच्यते तदेतत्पूर्वोक्तमेव बन्धमोक्षयोः प्रतिपादनं क्रियते, अनन्तरसूत्रेण चायं संबन्धः ।
३३१
तद्यथा- भिक्षुणा चरणकरणविदा कर्मक्षपणायोद्यतेन द्वादश क्रीयास्थानानि कर्मबन्धकारणानि सम्यक् परिहर्तव्यानि तद्विपरीतानि च मोक्षसाधनानि आसेवितव्यानि इत्यनेन संबन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्राप्युपक्रमान्ततोऽर्थाधिकारोऽयं, तद्यथा - कर्मणां बन्धोऽनेन प्रतिपाद्यते तद्विमोक्षश्चेति । नामनिष्पन्ने तु निक्षेपे क्रियास्थानमिति द्विपदं नाम, तत्रापि क्रियापदनिक्षेपार्थं प्रस्तावमारचयन्निर्युक्तिकृदाहनि. [१६५ ] किरियाओ भणियाओ किरियाठाणंति तेन अज्झयणं । अहिगारो पुण भणिओ बंधे तह मोक्खमग्गे य ॥ नि. [१६६ ] दव्वे किरिएजणया य पयोगुवायकरणिज्जसमुदाने । इरियावहसंमत्ते सम्मामिच्छा य मिच्छत्ते ॥
नि. [१६७ ]
नामंठवणा दविए खेतेऽद्धा उड्ड उवरती वसही । संजमपग्गहजोहे अचलगणण संधणा भावे ॥
नि. [१६८ ] समुदाणियाणिह तओ संमपउत्ते य भावठाणंमि । किरियाहिं पुरिस पावाइए उ सच्वे परिक्खेज्जा ।।
बृ. तत्र क्रियन्त इति क्रियास्ताश्च कर्मबन्धकारणत्वेनाऽऽवश्यकान्तर्वर्तिनि प्रतिक्रमणाध्ययने 'पडिक्कमामि तेरसहिं किरियाठाणेहिं' ति अस्मिन्सूत्रेभिहिताः । यदिवा इहैव क्रियाः 'भणिता' अभिहितास्तेनेदमध्ययनं क्रियास्थानमित्युच्यते । तच्च क्रियास्थानं क्रियावत्स्वेव भवति नाक्रियावत्सु, क्रियावन्तश्च केचिद्वध्यन्ते केचिन्मुच्यन्तेऽतोऽध्ययनार्थाधिकारः पुनरभिहितो बन्धे तथा मोक्षमार्गे चेति । तत्र नामस्थापने सुगमत्वादनाध्त्य द्रव्यादिकां क्रियां प्रतिपादयितुमाह -
तत्र द्रव्ये द्रव्यविषये या क्रिया एजनता 'एजृकम्पने' जीवस्याजीवस्य वा कम्पनरूपा चलनस्वभावा सा द्रव्यक्रिया, सापि प्रयोगाद्विनसया वा भवेत्, तत्राप्युपयोगपूर्विका वाऽनुपयोगपूर्विका वा अक्षिनिमेषमात्रादिका सा सर्वा द्रव्यक्रियेति । भावक्रिया त्वियं, तद्यथा-प्रयोगक्रिया उपायक्रिया करणीयक्रिया समुदानक्रिया ईर्यापथक्रिया सम्यक्त्वक्रिया सम्यङ्गिध्यात्वक्रिया मिथ्यात्वक्रिया चेति ।
तत्र प्रयोगक्रिया मनोवाक्कायलक्षणा त्रिधा, तत्र स्फुरद्भिर्मनोद्रव्यैरात्मन उपयोगो भवति, एवं वाक्काययोरपि वक्तव्यं, तत्र शब्दे निष्पाद्ये वाक्काययोद्वयोरप्युपयोगः, तथा चोक्तम् । "गिण्हइ यकाइएणं निसिरइ तह वाइएण जोगेण” गमनादिका तु कायक्रियैव १, उपायक्रिया तु घटादिकं द्रव्यं येनोपायेन क्रियते, तद्यथा-मृत्खननमर्दनचक्रारोपणदण्चक्रसलिलकुम्भकारव्यापारैर्यावद्भिरुपायैः क्रियते सा सर्वोपायक्रिया २, करणीयक्रिया तु यद्येन प्रकारेण करणीयं तत्तेनैव क्रियते नान्यथा, तथाहि घटो मृत्पिण्डादिकयैव सामग्र्या क्रियते न पाषाणसिकतादिकयेति ३, समुदानक्रिया तु यत्कर्म प्रयोगगृहीतं समुदायावस्थं सत्प्रकृतिस्थित्यनुभावप्रदेशरूपतया यया व्यवस्थाप्यते सा समुदानक्रिया, सा च मिथ्याध्टेरारभ्य सूक्ष्मसंपरायं यावत् भवति ४, ईर्यापथक्रिया तूपशान्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org