________________
३३२
सूत्रकृताङ्ग सूत्रम् २/२/- /६४७ / नि. [१६८] मोहादारभ्य सयोगिकेवलिनं यावदिति ५, सम्यक्त्वक्रिया तु सम्यग्दर्शनयोग्याः कर्मप्रकृतीः सप्तसप्ततिसंख्या यया बध्नाति साऽभिधीयते ६, सम्यङ्घिथ्यात्वक्रिया तु तद्योग्या प्रकृतीश्चतुःसप्ततिसंख्या यया क्रियया बन्धाति साऽभिधीयते ७, मिथ्यात्वक्रिया तु सर्वाप्रकृतीर्विंशत्युत्तरशतसंख्यास्तीर्थकराहारकशरीरतदङ्गोपाङ्गत्रिकरहिता यया बन्धाति सा मिथ्यात्वक्रियेत्वा मिधीयते ८ ।
साम्प्रतं स्थाननिक्षेपार्थमाह- इयं च गाथाऽऽचारप्रथमश्रुतस्कन्धे द्वितीयाध्ययने लोकविजयाख्ये ' जे गुणे से मूलट्ठाणे' इत्यत्र स्थानशब्दस्य सूत्रस्पर्शिकनिर्युक्त्यां प्रबन्धेन व्याख्यातेति नेह प्रतन्यते । इह पुनर्या क्रियया येन च स्थानेनाधिकारस्तद्दर्शयितुमाह-क्रियाणां मध्ये समुदानिका क्रिया या व्याख्याता, तस्याश्च कषायानुगतत्वात् बहवो भेदा यतस्ततस्तासां सामुदानिकानां क्रियाणामिह प्रकरणे 'तउ'त्ति अधिकारी व्यापारः, सम्यकप्रयुक्ते च भावस्थाने, तच्चेह विरतिरूपं संयमस्थानं प्रशस्तभावसंधनारूपं च गृह्यते, सम्यकप्रयुक्तभावस्थानग्रहणसामर्थ्यादर्यापथिकी क्रियापि गृह्यते, सामुदानिकाक्रियाग्रहणाञ्चाप्रशस्तभावस्थानान्यपि गृहीतानि, आभिश्च पूर्वोक्ताभिः क्रियाभिः पूर्वोक्तान् पुरुषान् तद्वारायातान्प्रावादुकांश्च परीक्षेत सर्वानपीति ।
यथा चैवं तथा स्वत एव सूत्रकारः 'तंजहा से एगइया मणुस्सा भवंती' त्यादिना तथा प्राचादुकपरीक्षायामपि 'नायओ उवगरणं च विप्पजहाय भिक्खायरियाए समुट्ठिया' इत्यादिना वक्ष्यतीति । गतो निर्युक्त्यनुगमः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुञ्चारयितव्यं, तच्छेदम्मू. (६४८) सुयं मे आउसंतेणं भगवया एवमक्खायं इह खलु किरियाठाणे नामज्झयणे पन्नत्ते, तस्से णं अयमट्टेइह खलु संजूहेणं दुवे ठाणे एवमाहिज्जति, तंजहा-धम्मे चेव अधम्मे चेव उवसंते चैव अनुवसंते चैव ॥
तत्थ णं जे से पढमस्स ठाणस्स अहम्मपक्खस्स विभंगे तस्स णं अथमट्टे पन्नत्ते, इह खलु पाईणं वा ६ संतेगतिया मणुस्सा भवंति, तंजहा - आरिया वेगे अनारिया वेगे उच्चागोया वेगे नीयागोया वेगे कायमंता वेगे हस्समंता वेगे सुवण्णावेगे दुव्वण्णा वेगे सुरूवा वेगे दुरूवा वेगे ॥ तेसिं च णं इमं एतारूवं दंडसमादाणं संपेहाए तंजहा- नेरइएसु वा तिरिक्खजोगिएसु वा मणुस्सेसु वा देवेसु वा जे यावन्ने तहप्पगारा पाणा विन्नू वेयणं वेयंति ।
तेसिं पियणं इमाई तेरस किरियाठाणाइं भवतीतिमक्खायं, तंजहा- अट्ठादंडे १ अणट्ठादंडे २ हिंसादंडे ३ अकम्हादंडे ४ दिठ्ठीविपरियासियादंडे ५ मोसवत्तिए ६ अदिन्नादाणवत्तिए ७ अज्झत्यवत्तिए ८ मानवत्तिए ९ मित्तदोसवत्तिए १० मायावत्तिए ११ लोभवत्तिए १२ इरियावहिए
वृ. सुधर्मस्वामी जम्बूस्वामिनमुद्दिश्येदमाह, तद्यथा श्रुतं मयाऽऽयुष्मता भगवतैवमाख्यातम्-इह खलु क्रियास्थानं नामाध्ययनं भवति, तस्य चायमर्थ इह खलु 'संजूहेणं' ति 'सामान्येन' संक्षेपेण समासतो द्वे स्थाने भवतः, य एते क्रियावन्तस्ते सर्वेऽप्यनयोः स्थानयोरेवमाख्यायन्ते, तद्यथा धर्मे चैवाधर्मे चैव, इदमुक्तं भवति-धर्मस्थानमधर्मस्थानं च, यदिवा-धर्मादनपेत्तं धर्म्यं विपरीतमधर्म्यं, कारणशुद्धा च कार्यशुद्धिर्भवतीत्याह-उपशान्तं यत्तद्धर्मस्थानम्, अनुपशान्तं चाधर्मस्थानं, तत्रोपशान्ते-उपशमप्रधाने धर्मस्थाने धर्म्यस्थाने वा केचन महासत्त्वाः समासन्नोत्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org