________________
१४६
सूत्रकृताङ्ग सूत्रम् १/५/१/३१८
वृ. 'णमिति' वाक्यालङ्कारे, 'प्राणैः शरीरेन्द्रियादिभिस्ते 'पापाः पापकर्मणो नरकपाला 'विया - जयन्ति' शरीरावयवानां पाटनादिभिः प्रकारैर्विकर्तनादवयवान् विश्लेषयन्ति, किमर्थमेवं ते कुर्वन्तीत्याह- 'तद्' दुःखकारणं 'भे' युष्माकं 'प्रवक्ष्यामियाथातथ्येन' अवितथं प्रतिपादयामीति दण्डयन्ति पीडामुत्पादयन्तीति दण्डा- दुःखविशेषास्तैरनारकाणामापादितैः 'बाला' निर्विवेका नरकपालाः पूर्वकृतं स्मारयन्ति, तद्यथा तथा हृष्टस्त्वं खादसि समुत्कृत्योत्कृत्य प्राणिनां मांसं तथा पिबसि तद्रसं मद्यं च गच्छसि परदारान्, साम्प्रतं तद्विपाकापादितेन कर्मणाऽभितप्यमानः किमेवं रारटीषीत्येवं सर्वै पुराकृतैः 'दण्डैः' दुःखविशेषः स्मारयन्तस्ताद्दशभूतमेव दुःखविशेषमुत्पादयन्तो नरकपालाः पीडयन्तीति ।।
मू. (३१९)
ते हम्ममाणा नरगे पडंति, पुन्ने दुरुवस्स महाभितावे । ते तत्थ चिट्ठति दुरुवभक्खी, तुट्टंति कम्मोवगया किमीहिं ॥
वृ. किञ्च - 'ते' वराका नारका 'हन्यमानाः ' ताड्यमाना नरकपालेभ्यो नष्टा अन्यस्मिन् धोरतरे 'नरके' नरकैकदेशे 'पतन्ति' गच्छन्ति, किम्भूते नरके ? - 'पूर्णे' भृते दुष्टं रूपं यस्य तद्दूरूपंविष्ठासृग्मांसादिकल्मलं तस्य भृते तथा 'महाभितापे' अतिसन्तापोपेते 'ते' नारकाः स्वकर्मावबद्धाः 'तत्र' एवम्भूते नरके 'दूरूपभक्षिणः' अशुच्यादिभक्षकाः प्रभूतं कालं यावत्तिष्ठन्ति, तथा 'कृमिभिः ' नरकपालापादितैः परस्परकृतैश्च 'स्वकर्मोपगताः' स्वकर्मढौकिताः 'तुद्यन्ते' व्यथ्यन्ते इति तथा चागमः “छट्टीसत्तमासु णं पुढवीसु नेरइया पहू महंताई लोहिकुंथुरूवाइं विउव्वित्ता अन्नमन्नस्स कार्य समतुरंगेमाणा समतुरंगेमाणा अनुघायमाणा अनुधायमाणा चिह्नंति” । किञ्चान्यत्मू. (३२०) सया कसिणं पुण घम्मठाणं, गाढोवणीयं अतिदुक्खधम्मं । अंदूसु पक्खिप्प विहत्तु देहं, वेहेण सीसं सेऽभितावयंति ॥
वृ. 'सदा' सर्वकालं 'कुत्स्नं' संपूर्णं पुनः तत्र नरके 'धर्मप्रधानं' उष्णप्रधानं स्थिति-स्थानं नारकाणां भवति, तत्र हि प्रलयातिरिक्ताग्निना वातादीनामत्यन्तोष्णरूपत्वात्, तच दै:निधत्तनिकाचितावस्यैः कर्मभिर्नारकाणाम् 'उपनीतं' ढौकितं, पुनरपि विशिनष्टि अतीव दुःखम्असातावेदनीयं । धर्म-स्वभावो यस्य तत्तथा तस्मिंश्चैवंविधे स्थाने स्थितोऽसुमान् 'अन्दुषु' निगडेषु देहं विहत्य प्रक्षिप्य च तथा शिरश्च 'से' तस्य नारकस्य 'वेधेन' रन्ध्रोत्पादनेनाभितापयन्ति कीलकैश्च सर्वाण्यप्यङ्गानि वितत्य चर्मवत् कीलयन्ति इति ॥
मू. (३२१) छिंदंति बालस्स खुरेण नक्क, उड्डेवि छिंदंति दुवेवे कण्णे । जिन्भं विणिक्करस विहत्थिमित्तं, तिक्खाहिं सूलाहिऽभितावयंति ॥
वृ. अपिच-ते परमाधार्मिकाः पूर्वदुश्चरितानि स्मरयित्वा 'बालस्य' अज्ञस्य निर्विवेकस्य प्रायशः सर्वदा वेदनासमुद्घातोपगतस्य क्षुरप्रेण नासिकां छिन्दन्ति तथैौष्ठावपि द्वावपि कर्णौ छिन्दन्ति तथा मद्यमांसरसाभिलिप्सोर्मृषाभाषिणो जिह्वां वितस्तिमात्रामाक्षिप्य तीक्ष्णाभिः शूलाभिः 'अभितापयन्ति' अपनयन्ति इति तथा
मू. (३२२) ते तिप्पमाणां तलसंपुडंव, राइदियं तत्थ धांति बाला । गलंति ते सोणिअपूथमंसं,
यंग ।।
वृ. 'ते' छिन्ननासिकोष्ठजिह्वाः सन्तः शोणित
Jain Education International
नाः
For Private & Personal Use Only
यत्र यस्मिन् प्रदेशे
www.jainelibrary.org