________________
श्रुतस्कन्धः - १, अध्ययनं-५, उद्देशकः- १
१४७
रात्रिंदिनं गमयन्ति, तत्र ‘बाला' अज्ञाः 'तालसम्पुटा इव' पवनेरितशुष्कतालपत्रसंचया इव सदा 'स्तनन्ति' दीर्घविस्वरमाक्रन्दन्तस्तिष्ठन्ति तथा प्रद्योतिता' वह्निना ज्वलिताः तथा क्षारेय प्रदिग्धाङ्गाः शोणितं पूर्य मांसं चाहर्निशं गलन्तीति ।। मू. (३२३) जइ ते सुता लोहितपूअपाई, बालागणी तेअगुणा परेणं ।
कुंभी महंताहियपोरसीया, समूसिता लोहियपूयपुन्ना ।। वृ. किञ्च-पुनरपि सुधर्मस्वामी जम्बूस्वामिनमुद्दिश्य भगवद्वचनमाविष्करोति-यदि 'ते' त्वया 'श्रुता' आकर्णिता-लोहितं-रुधिरं पूर्व-रुधिरमेव पक्वं ते द्वे अपि पक्तुं शीलं यस्यां सा लोहितपूयपाचिनी-कुम्भी, तामेव विशिनष्टि-'बालः' अभिनवः प्रत्यग्रोऽग्निस्तेन तेजः-अभितापः
स एव गुणो यस्याः सा बालाग्नितेजोगुणा ‘परेण प्रकर्षेण तप्तेत्यर्थः, पुनरपि तस्या एव विशेषणं महती बृहत्तरा ‘अहियपोरुसीये'तिपुरुषप्रमाणाधिका 'समुच्छ्रिता' उष्ट्रिकाकृतिरूवं व्यवस्थिता लोहितेन पूयेन च पूर्णा, सैवम्भूता कुम्भी समन्ततोऽग्निना प्रज्वलिताऽतीव बीभत्सदर्शनेति । तासु च यक्रियते तद्दर्शयितुमाहयू. (३२४) पक्खिप्प तासुं पययंति बाले, अट्टस्सरे ते कलुणं रसंते।
तण्हाइया ते तउतंबतत्तं, पजिञ्जमाणाऽमृतरं रसंति ।। वृ. 'तासु प्रत्यग्राग्निप्रदीप्तासुलोहितपूयशरीरावयवकल्बिषपूर्णासुदुर्गन्धासुच 'बालान्' नारकास्त्राणरहितान् आर्तस्वरान् करुण-दीनं रसतः प्रक्षिप्य प्रपचन्ति, 'ते च' नारकास्तथा कदीमाना विरसमाक्रन्दन्तस्तृडार्तासलिलंप्रार्थयन्तो मद्यं तेअतीव प्रियमासीदित्येवंस्मरयित्वा तप्तं पाय्यन्ते, तेच तप्तं त्रपुपाय्यमाना आर्ततरं 'रसन्ति रारटन्तीति ।। मू. (३२५) अप्पेण अप्पं इह वंचइत्ता, भवाहमे पुव्वसते सहस्से ।
चिट्ठति तत्था बहुकूरकम्मा, जहा कडं कम्मतहासि भारे ।। वृ. उद्देशकार्थोपसंहारार्थमाह-'अप्पेण' इत्यादि, 'इह' अस्मिन्मनुष्यभव 'आत्मना' परवञ्चन-प्रवृत्तेन स्वत एव परमार्थत आत्मानं वञ्चयित्वा अल्पेन स्तोकेन परोपघातसुखेनात्मानं वञ्चयित्वाबहुशोभवानांमध्ये अधमा भवाधमाः-मत्स्यबन्धलुब्धकादीनां भवास्तान् पूर्वजन्मसु शतसहस्रशः समनुभूयतेषुभवेषु विषयोन्मुखतया सुकृतपराङ्मुखत्वेन चावाप्यमहाघोरातिदारुणं नरकावासं तत्र तस्मिन्मनुष्याः 'क्रूरकर्माणः परस्परतो दुःखमुदीरयन्तःप्रभूतंकालं यावत्तिष्ठन्ति - अत्र कारणमाह 'यथा' पूर्वजन्मसुयाग्भूतेनाध्यवसायेनजघन्यजघन्यतरादिना कृतानि कर्माणि 'तथा' तेनैव प्रकारेण 'से' तस्य नारकजन्तोः 'भारा' वेदनाः प्रादुर्भवन्ति स्वतः परत उभयतो वेति, तथाहि-मांसादाः स्वमांसान्येवाग्निना प्रताप्य भक्ष्यन्ते, तथा मांसरसपायिनो निजयपूरुधिराणि तप्तत्रपूणि च पाय्यन्ते।
- तथामत्स्यघातकलुब्धकादयस्तथैव छिद्यन्तेभिद्यन्तेयावन्मार्यन्त इति, तथाऽनृतभाषिणां तत्स्मारयित्वा जिह्वाश्चेच्छिद्यन्ते, तथा पूर्वजन्मनि परकीयद्रव्यापहारिणामङ्गोपाङ्गान्यपहियन्ते तथा पारदारिकाणां वृषणच्छेदः शाल्मल्युपगृहनादि च ते कार्यन्ते एवं महापरिग्रहारम्भवतां क्रोधमानमायालोभिनांच जन्मांतरस्वकृतक्रोधादिदुष्कृतस्मारणेन ताग्विधमेवदुःखमुत्पाद्यते, इतिकृत्वा सुष्ठूच्यते यथा वृत्तं कर्म ताद्दगभूत एव तेषां तत्कर्मविपाकापादितो भार इति ।।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only