________________
१४८
सूत्रकृताङ्ग सूत्रम् १/५/१/३२६ मू. (३२६) समजिणित्ता कलुसं अणजा, इटेहि कतेहि य विष्पहूणा।
ते दुब्मिगंधे कसिणे य फासे, कम्मोवगा कुणिमे आवसंति ।। तिबेमि
वृ. किश्चान्यत्-अनार्या अनार्यकर्मकारित्वाद्धिंसानृतस्तेयादिभिराश्रवद्वारैः 'कलुष' पापं 'समय॑' अशुभकर्मोपचयं कृत्वा 'ते' क्रूरकर्माणो 'दुरभिगन्धे' नरके आवसन्तीति संटङ्कः, किम्भूताः?-'इष्टैः' शब्दादिभिर्विषयैः ‘कमनीयैः' कान्तैर्विविधप्रकर्षेण हीना विप्रमुक्ता नरके वसन्ति, यदिवा । यदर्थं कलुषं समर्जयन्ति तैर्मातापुत्रकलत्रादिभि कान्तैश्च विषयैर्विप्रभुक्ता एकाकिनस्ते 'दुरभिगन्धे कुथितकलेवरातिशायिनि नरके ‘कृत्स्ने' संपूर्णेऽत्यन्ताशुभस्पर्श एकान्तोद्वेजनी- येऽशुभकर्मोपगताः 'कुणिमे'त्ति मांसपेशीरुधिरपूयान्त्रफिप्फिसकश्मलाकुले सर्वामध्याधमेबीभत्सदर्शने हाहारवाक्रन्देन कष्टंमा तावदित्यादिशब्दबधिरितदिगन्तराले परमाधमे नरकावासेआ-समन्तादुत्कृष्टतस्त्रयस्त्रिंशत्सगरोपमाणियावद्यस्यांवा नरकपृथिव्यांयावदायुस्तावद् 'वसन्ति' तिष्ठन्ति, इति परिसमाप्तयर्थे, ब्रवीमीति पूर्ववत् ।
अध्ययनं-५ उद्देशकः-१ समाप्त
- अध्ययनं-५ उद्देशकः-२:वृ. उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके यैः कर्मभिर्जन्तवो नरकेषूत्पद्यन्ते याध्गवस्थाश्च भवन्त्येतत्प्रतिपादितम्, इहापि विशिष्टतरंतदेवप्रतिपाद्यते, इत्यनेन संबन्धेनायातस्यास्योद्देशकस्य सूत्रानुगमेअस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्मू. (३२७) अहावरं सासयदुक्खधर्म, तंभे पवक्खामि जहातहेणं।
बाला जहा दुक्कडकम्मकारी, वेदंति कम्माइंपुरेकडाइं।। वृ. 'अथ' इत्यानन्तर्ये 'अपरम्' इत्युक्तादन्यद्वक्ष्यामीत्युत्तरेण सम्बन्धः, शश्वद्भवतीति शाश्वतं-यावदायुस्तच्च तहखंच शाश्वतदुःखं तद्धर्म-स्वभावो यस्मिन् यस्य वा नरकस्य स तथा तम्, एवम्भूतं नित्यदुःखस्वभावमक्षिनिमेषमपि कालमविद्यमानसुखलेशं ‘याथातथ्येन यथा व्यवस्थितं तथैव कथयामि, नात्रोपचारोऽर्थवादो वा विद्यत इत्यर्थः। _ 'बालाः' परमार्थमजानाना विषयसुखलिप्सवः साम्प्रतक्षिणः कर्मविपाकमनपेक्षमाणा 'यथा' येन प्रकारेण दुष्टं कृतं दुष्कृतं तदेव कर्म-अनुष्ठानं तेन वा दुष्कृतेन कर्म-ज्ञानावरणादिकं तद्रुष्कृतकर्मतत्कर्तुंशीलं येषांतेदुष्कृतकर्मकारिणःत एवम्भूताः 'पुराकृतानि जन्मान्तरार्जितानि कर्माणि यथा वेदयन्ति तथा कथयिष्यामीति। मू. (३२८) हत्थेहि पाएहि य बंधिऊणं, उदरं विकत्तंति खुरासिएहिं ।
गिण्हित्तु बालस्स विहत्तु देहं, वद्धं थिरं पिट्टतो उद्धरंति ॥ दृ.यथाप्रतिज्ञातमाह-परमाधार्मिकास्तथाविधकर्मोदयात्क्रीडायमानाःताचारकान्हस्तेषु पादेषु बद्धोदरं 'क्षुरप्रासिभिः' नानाविधैरायुधविशेषैः 'विकर्तयन्ति' विदारयन्ति, तथा परस्य बालस्येवाकिञ्चित्करत्वाद्वालस्य लकुटादिभिर्विविधं 'हतं' पीडितं देहं गृहीत्वा वर्ध' चर्मशकलं 'स्थिरं' बलवत् 'पृष्ठतः' पृष्ठिदेशे 'उद्धरन्ति' विकर्तयन्त्येवमग्रतः पार्श्वतश्चेति अपि च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org