________________
श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशकः - २
ये विरताः, पंचम्यर्थे वा सप्तमी, येभ्यो वा विरताः सम्यकसंयमरूपेणोत्थिताः समुत्थितास्ते 'काश्यपस्य' ऋषभस्वामिनोवर्धमानस्वामिनो वा सम्बन्धी योधर्मस्तदनुचारिणः,तीर्थकरप्रणीतधर्मानुष्ठायिनो भवन्तीत्यर्थः । मू. (१३६) जे एयचरंति आहियं, नाएणं महया महेसिणा।
ते उट्टिय ते समुड़िया, अन्नोत्रं सारंति धम्मओ।। वृ.किञ्च-ये मनुष्या 'एन' प्रागुक्तं धर्म-ग्रामधर्मविरतिलक्षणं चरन्ति' कुर्वन्ति आख्यातं 'ज्ञातेन' ज्ञातपुत्रे 'महये ति महाविषयस्य ज्ञानस्यानन्यभूतत्वात् महान् तेन, तथाऽनुकूलप्रतिकूलोपसर्गसहिष्णुत्वात् ‘महर्षिणा' श्रीमद्वर्धमानस्वामिना आख्यातं धर्मं ये चरन्ति तेएव संयोत्थानेन-कुतीर्थिकपरिहारेणोस्थिताः तथा निवादिपरिहारेणतएव सम्यक्-कुमादिशनापरित्यागेन उत्थिताः समुत्थिता इति, नान्ये कुप्रावचनिका जमालिप्रभृतयश्चेति भावः, त एव च यथोक्तधर्मानुष्ठायिनः 'अन्योऽन्यं परस्परं धर्मतो' धर्ममाश्रित्यधर्मतोवाभ्रश्यन्तं 'सारयन्ति' ८ दयन्ति-पुनरपि सद्धर्मे प्रवर्तयन्तीति किञ्च-- मू. (१३७) मा पेह पुरा पणामए, अभिकंखे उवहिं धुणित्तए।
जे दूमण तेहिं नो नया, ते जाणंति समाहिमाहियं ।। वृ.दुर्गतिंसंसारं वा प्रणामयन्ति-प्रहीकुर्वन्ति प्राणिनां प्रणामकाः-शब्दादयो विषयास्तान् 'पुरा' पूर्वं भूक्तान् ‘मा प्रेक्षस्व' मा स्मर, तेषां स्मरणमपि यस्मान्महतेऽनर्थाव, अनागतांश्च नोदीक्षेत-नाऽऽकाङक्षेदिति, तथा अभिकाङक्षेत्' अभिलषेद् अनारतं चिन्तयेदनुरूपमनुष्ठानं कुर्यात, किमर्थमिति दर्शयति । उपधीयते-ढौक्यतेदुर्गतिंप्रत्यात्मायेनासावुपधि-माया अष्टप्रकारं वा कर्म तद् ‘हननाय' अपनयनायाभिकाङक्षेदिति सम्बन्धः, दुष्टधर्म प्रत्युपनताः कुमार्गानुष्ठायिनस्तीर्थिकाः, यदिवा-दूमण'त्तिदुष्टमनःकारिणउपतापकारिणो वा शब्दादयोविषयास्तेषु ये महासत्त्वाः 'न नता' नाहीभूताः तदाचारानुष्ठायिनोन भवन्ति 'ते' सन्मार्गानुष्ठायिनो 'जानन्ति' विदन्ति 'समाधि' रागद्वेषपरित्यागरूपं धर्मध्यानं च 'आहितम्' आत्मनि व्यवस्थितम्, आसमन्ताद्धितंवा त एव जानन्ति नान्य इति भावः । मू. (१३८) नो काहिए होज्ज संजए, पासणिए न य संपसाए।
नचा धम्म अनुतरं, कयकिरिए नयावि मामए। वृ. तथा 'संयतः' प्रव्रजितः कथया चरति काथिकः गोचरादौ न भवेत्, यदिवा-विरुद्धां पैशून्यापादनी स्त्र्यादिकथां वा न कुर्यात्, तथा 'प्रश्नेन राजादिकिंवृत्तरूपेण दर्पणादिप्रश्ननिमित्तरूपेण वाचरतीतिप्राश्निकोन भवेत्, नापिच 'संप्रसारकः' देववृष्ठयर्थकाण्डादिसूचककथा विस्तारको भवेदिति, किं कृत्वेति दर्शयति-'ज्ञात्वा' अवबुद्धय नास्योत्तरो विद्यत इत्यनुत्तरस्तं श्रुतचारित्राख्यं धर्म सम्यग्, तस्य हि धर्मस्यैतदेव फलं यदुत-विकथानिमित्तपरिहारेण सम्यक्रियावान् स्यादिति, तद्दर्शयति-कृता-स्वभ्यस्ता क्रीया-संयमानुष्ठानरूपा येन स कृतक्रियस्तथाभूतश्च नचापि ‘मामको' ममेदमहमस्यस्वामीत्येवंपरिग्रहाग्रही भवेदिति किञ्चमू. (१३९) छन्नं च पसंस नो करे, न य उक्कोस पगास माहणे।
तेसिं सुविवेगमाहिए, पणया जेहिं सुजोसिअंधुयं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org