________________
८०
सूत्रकृताङ्ग सूत्रम् १/२/२/१३९
वृ. “छन्नंति माया तस्याः स्वाभिप्रायप्रच्छादनरूपत्वात् तां न कुर्यात्, चशब्द उत्तरापेक्षया समुच्चयार्थः, तथा प्रशस्यते - सर्वैरप्यविगानेनाद्रियत इति प्रशस्यो-लोभस्तं च न कुर्यात्, तथाजात्यादिभिर्मदस्थानैर्लघुप्रकृतिं पुरुषमुत्कर्षयतीत्युकर्षको मानस्तमपि न कुर्यादिति सम्बन्धः, तथाऽन्तर्व्यवस्थितोऽपि मुखदृष्टिभ्रूभङ्गविकारैः प्रकाशीभवतीति प्रकाशः क्रोधस्तं च 'माहणे' ति साधुर्न कुर्यात् ।
'तेषां' कषायाणां यैर्महात्मभि: 'विवेकः' परित्यागः 'आहितो' जनितस्त एव धर्मं प्रति प्रणता इति, यदिवा तेषामेव सत्पुरुषाणां सुष्ठु विवेकः परिज्ञानरूप आहितः प्रथितः प्रसिद्धिं गतः त एव च धर्मं प्रति प्रणताः 'यैः' महासत्त्वैः सुष्ठु 'जुष्टं' सेवितं धूयतेऽष्टप्रकारं कर्म तद्भूतंसंयमानुष्ठानं, यदिवा-यैः सदनुष्ठायिभिः 'सुजोसिअं' ति सुष्ठु क्षिप्तं धूननार्हत्वात् 'धूतं' कर्मेति ।। मू. (१४०) अनि सहिए सुसंवुड़े, धम्मट्टी उवहाणवीरिए । विहरेज्ज समाहिइंदिए, अत्तहिअं खु दुहेण लब्भइ ॥
वृ. अपि च-स्निह्यत इति स्निहः न स्निहः अस्निहः सर्वत्र ममत्वरहित इत्यर्थः, यदिवापरीषहोपसगैर्निहन्यथते इति निहः ननिहोऽ निहः - उपसर्गैरपराजित इत्यर्थ, पाठान्तरं वा 'अणहे' ति नास्याघमस्तीत्यनघो, निरवद्यानुष्ठायीत्यर्थः सह हितेन वर्तत इति सहितः सहितो युक्तो वा ज्ञानादिभिः, स्वहितः - आत्महितो वा सदनुष्ठानप्रवृत्तेः, तामेव दर्शयति-सुष्ठु 'संवृत' इन्द्रियनोइन्द्रियैविनोतसिकारहित इत्यर्थः, तथा धर्मः श्रुतचारित्राख्यः तेनार्थः प्रयोजनं स एव वाऽर्थ तस्यैव सद्भिरर्यमाणत्वात् धर्मार्थः स यस्यास्तीति स धर्मार्थी तथा उपधानं तपस्तत्र वीर्यवान् स एवम्भूतो 'विहरेत्' संयमानुष्ठानं कुर्यात् 'समाहितेन्द्रियः संयतेन्द्रियः, कुत एवं ? -यत आत्महितं दुःखेनासुमता संसारे पर्यटता अकृतधर्मानुष्ठानेन 'लभ्यते' अवाप्यत इति, तथाहि - “न पुनरिदमतिदुर्लभमगाधसंसारजलधिविघ्नष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥
॥ १ ॥
तथाहि - युगसमिलादिष्टान्तनीत्या मनुष्यभव एव तावत् दुर्लभः, तत्राप्यार्यक्षेत्रादिकं दुरापमिति, अत आत्महितं दुःखेनावाप्यत इति मन्तव्यम्, अपिच
॥१॥
भूतेषु जङ्गमत्वं तस्मिन् पञ्चेन्द्रियत्वमुत्कृष्टम् । तस्मादपि मानुष्यं मानुष्येऽप्यार्यदेशश्च ॥ देशे कुलं प्रधानं कुले प्रधाने च जातिरुत्कृष्टा । जाती रूपसमृद्धी रूपे च बलं विशिष्टतमम् ॥ भवति बले चायुष्कं प्रकृष्टमायुष्कतोऽपि विज्ञानम् । विज्ञाने सम्यकत्वं सम्यकत्वे शीलसंप्राप्ति ।। एतत्पूर्वश्चायं समासतो मोक्षसाधनोपायः । तंत्र च बहु सम्प्राप्तं भवद्भिरल्पं च संप्राप्यम् ॥ तत्कुरुतोद्यममधुना मदुक्तमार्गे समाधिमाधाय । त्यक्त्वा सङ्गमनार्यं कार्यं सद्भिः सदा श्रेयः ॥ इति ॥ एतच्च प्राणिभिर्न कदाचिदवाप्तपूर्वमित्येतद्दर्शयितुमाह
॥२॥
॥३॥
॥४॥
॥ ५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org