________________
७८
सूत्रकृताङ्ग सूत्रम् १/२/२/१३२ वृ, उपदेशान्तरमाह-'छन्दः' अभिप्रायस्तेन तेन स्वकीयाभिप्रायेण कुगतिगमनैकहेतुना 'इमाः प्रजाः' अयं लोकस्तासु गतिषु प्रलीयते, तथाहि-छागादिवधमपि स्वाभिप्रायग्रहग्रस्ता धर्मसाधनमित्येवं प्रगल्भमाना विदधति, अन्ये तु संघादिकमुद्दिश्य दासीदासधनधान्यादिपरिग्रहं कुर्वन्ति, तथाऽन्ये मायाप्रधानैः कुकुटैरसकृदुप्रोक्षणश्रोत्रस्पर्शनादिभिर्मुग्धजनं प्रतारयन्ति, ॥१॥ (तथाहि) 'कुक्कुटसाध्यो लोको नाकुक्कुटतः प्रवर्तते किञ्चित् ।
तस्माल्लोकस्यार्थे पितरमपि सकुक्कुटं कुर्यात् ॥ तथेयंप्रजा बहुमाया कपटप्रधाना, किमिति?-यतो मोहः-अज्ञानं तेन 'प्रावृता' आच्छादिता सदसद्विवेकविकलेत्यर्थ, तदेतदवगम्य 'माहणे'त्तिसाधुः 'विकटेन' प्रकटेनामायेन कर्मणा मोक्षे संयमे वा प्रकर्षेण लीयते-प्रलीयते, शोभनभावयुक्तो भवतीति भावः, तथा शीतं च उष्णं च शीतोष्णंशीतोष्णा वा-अनुकूलप्रतिकूलपरीषहास्तान् वाचा कायेन मनसा च करणत्रयेणापि सम्यगधिसहेत इति । अपिचमू. (१३३) कुजए अपराजिए जहा, अक्खेहिं कुसलेहिं दीवयं ।
कडमेव गहाय नो कलिं, नो तीयं नो चेव दावरं ।। वृ. कुत्सितोजयोऽस्येति कुजयो-द्यूतकारः,महतोऽपिधूतजयस्य सद्भिर्निन्दितत्वादनहेतुत्वाच्च कुत्सितमिति, तमेव विशिनष्टिअपराजितो दीव्यन् कुशलत्वादन्येन नजीयते अक्षैः वा-पाशकैः दीव्यन्-क्रीडस्तत्पातज्ञः कुशलो-निपुणः, यथाअसौद्यूतकारोऽक्षैः-पाशकैः कपर्दकैर्वा रममाणः ‘कडमेव'त्ति चतुष्कमेव गृहीत्वा तल्लब्धजयत्वात् तेनैव दीव्यति, ततोऽसौ तल्लब्धजयः सन्न कलिं' एककं नापि 'वैतं' त्रिकंच नापि द्वापरं द्विकं गृह्णातीति। मू. (१३४) एवं लोगंमि ताइणा, बुइए जे धम्मे अनुत्तरे।
तंगिण्ह हियंति उत्तम, कडमिव सेसऽ वहाय पंडिए । वृ. दान्तिकमाह-यथा धूतकारः प्राप्तजयत्वात् सर्वोत्तमं दीव्यंश्चतुष्कमेव गृह्णाति एवमस्मिन् 'लोके मनुष्यलोके तायिनात्रायिणावा-सर्वज्ञेनोक्तोयोऽयं 'धर्म' क्षान्त्यादिलक्षणः श्रुतचारित्राख्योवानास्योत्तरः-अधिकोऽस्तीत्यनुत्तरः तमेकान्तहितमितिकृत्वा सर्वोत्तमंच गृहाण' विस्रोतसिकार-हितः स्वीकुरु, पुनरपि निगमनार्थं तमेव दृष्टान्तं दर्शयति-यथा कश्चित्तकारः ‘कृतं' कृतयुगं चतुष्कमित्यर्थ, 'शेषम्' एककादि 'अपहाय' त्यक्त्वा दीव्यन् गृह्णाति, एवं पण्डितोऽपि-साधुरपिसेषं-गृहस्थकुप्रावचनिकपार्श्वस्थादिभावमपहाय सम्पूर्ण महान्तं सर्वोत्तम धर्मं गृह्णीयादिति भावः ॥ पुनरप्युपदेशान्तरमाहमू. (१३५) उत्तर मणुयाण आहिया, गामधम्माइइ मे अनुस्सुयं ।
जंसी विरता समुट्ठिया, कासवस्स अनुधम्मचारिणो । वृ.उत्तराः-प्रधानाः दुर्जयत्वात्, केषाम् ? -उपदेशार्हत्वान्मनुष्याणाम् अन्यथा सर्वेषामेवेति, के ते?-'ग्रामधर्मा' शब्दादिविषया मैथुनरूपा वेति, एवं ग्रामधर्मा उत्तरत्वेन सर्वज्ञैराख्याताः, मयैतदनु-पश्चाच्छ्रुतं, एतच्च सर्वमेव प्रागुक्तं यच्च वक्ष्यमाणं तन्नामेयेनाऽऽदितीर्थकृता पुत्रानुद्दिश्याभिहितं सत् पाश्चात्यगणधराः सुधर्मस्वामिप्रभृतयःस्वशिष्येभ्यः प्रतिपादयन्ति अतो मयैतदनुश्रुतमित्यनब्दय, यस्मिन्निति-कर्मणिल्यब्लोपेपञ्चमी सप्तमी वेतियान् ग्रामधर्मानाश्रित्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org