________________
श्रुतस्कन्धः - १, अध्ययनं २, उद्देशक:- २
-
मू. (१२८)
उसिणोदगत्तभोइणो, धम्मट्ठियस्स मुनिस्सहीमतो | संसग्गि असाहुराइहिं, असमाहीउ तहागयस्सवि ।।
वृ. किञ्च - मुनेः 'उष्णोदकतप्तभोजिनः' त्रिदण्डोद्वृत्तोष्णोदकभोजनः, यदिवा-उष्णं सत्र शीतीकुर्यादिति तप्तग्रहणं, तथा श्रुतचारित्राख्ये धमें स्थितस्य 'हीमतो' त्ति ही: - असंयमं प्रति लज्जा तद्वतोऽसंयमजुगुप्सावत इत्यर्थः, तस्यैवम्भूतस्य मुने राजादिभिः सार्द्धयः यः 'संसर्ग' सम्बन्धोऽ- सावसाधुः अनर्थोदयहेतुत्वात् ' तथागतस्यापि यथोक्तानुष्ठायिनोऽपि राजादिसंसर्गवशाद् 'असमा-धिरेव' अपध्यानमेव स्यात्, न कदाचित् स्वाध्यायादिकं भवेदिति परिहार्यदोषप्रदर्शनेन अधुनोपदेशाभिधित्सयाऽऽह
मू. (१२९) अहिगरणकडस्स भिक्खुणो, वयमाणस्स पसज्झ दारुणं । अट्टे परिहायती बहु, अहिगरणं न करेज्ज पंडिए ।
वृ. अधिकरणं-कलहस्तत्करोति तच्छीलश्चेत्यधिकरणकरः तस्यैवम्भूतस्य भिक्षोः तथाऽधिकरणकरीं दारुणां वा भयानकां वा 'प्रसह्य' प्रकटमेव वाचं ब्रुवतः सतः 'अर्थो' मोक्षः तत्कारणभूतो वा संयमः स बहु 'परिहीयते ' ध्वंसमुपयाति, इदमुक्तं भवति- बहुना कालेन यदर्जितं विप्रकृष्टेन तपसा महत्पुन्यं तत्कलहं कुर्वतः परोपधातिनीं च वाचं ब्रुवतः तत्क्षणमेव ध्वंसमुपयाति, ॥१॥ (तथाहि ) जं अज्जियं समीखल्लएहिं तवनियमबंभ मइएहिं । माहुतयं कलहंता छड्डेअह सागप्तेहिं ।
७७
इत्येवं मत्वा मनागप्यधिकरणं न कुर्यात् 'पण्डित' सदसदिववेकीति ।। मू. (१३०) सीओदग पडि दुगुछिणो, अपडिन्नस्स लवावसप्पिणो । सामाइयमाहु तस्स जं, जो गिहिमत्तेऽसनं न भुंजती ॥
वृ. तथा शीतोदकम् अप्रासुकोदकं तत्प्रतिजुगुप्सकस्या प्रासुकोदकपरिहारिणः साधोः न विद्यते प्रतिज्ञा निदानरूपा यस्य सोऽप्रतिज्ञोऽनिदान इत्यर्थः लवं कर्म तस्मात अवसप्पिणोत्तिअवसर्पिणः यदनुष्ठानं कर्मबन्धोपादानभूतं तत्परिहारिण इत्यर्थः तस्यैवम्भूतस्य साधोर्यस्मात् यत् 'सामायिक' समभावलक्षणमाहुः सर्वज्ञाः यश्च साधुः 'गृहमात्रे' गृहस्थभाजने कांस्य पात्रादौ न भुङ्क्ते तस्य च सामायिकमाहुरिति सम्बन्धनीयमिति । किञ्च
भू. (१३१)
न य संखयमाहु जीवियं, तहविय बालजणो पगब्भइ ।
बाले पापेहिं मिज्जती, इति संखाय मुनी न मज्जती ॥
वृ. 'नच' नैव 'जीवितम्' आयुष्कं कालपर्यायेण त्रुटितं सत् पुनः 'संखय' मिति संस्कर्त्तुतन्तुवत्संधातुं शक्यते इत्येवमाहुस्तद्विदः, तथाऽपि एवमपि व्यवस्थिते 'बालः' अज्ञो जनः 'प्रगल्भते' पापं कुर्वन् धृष्टो भवति, असदनुष्ठानरतोऽपि न लज्जत इति, स चैवम्भूतो बालस्तैरसदनुष्ठानापादितैः 'पापैः कर्मभिः 'भीयते' तद्युक्त इत्येवं परिच्छिद्यते, भ्रियते वा येन धान्यादिना प्रस्थकवदिति, एवं 'संख्याय' ज्ञात्वा 'मुनि' यथावस्थितपदार्थानां वेत्ता न माद्यतीति' तेष्वसदनुष्ठानेष्वहं शोभनः कर्त्तेत्येवं प्रगल्भमानो मदं न करोति ।
भू. (१३२)
छंदेण पले इमा पया, बहुमाया मोहेण पाउडा । वियडेण पलिंति महणे, सीउण्हं वयसाऽ हियासए ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org