________________
७६
सूत्रकृताङ्ग सूत्रम् १/२/२/१२३ कश्चिदाभिग्राहिकः 'तृणदिकं संस्तरेत्' तृणैरपि संस्तारकं न कुर्यात्, किं पुनः कम्बलादिना?, अन्यो वा शुषिरतृणं न संस्तरेदिति । मू. (१२४) जत्थऽत्थमिए अनाउले, समविसमाईमुनीऽहियासए।
चरगा अदुवावि भेरवा, अदुवा तत्थ सरीसिवा सिया।। वृ. तथा भिक्षुर्यत्रैवास्तमुपैति सविता तत्रैव कायोत्सर्गादिना तिष्ठतीति यत्रास्तमितः, तथाऽनाकुलः समुद्रवन्नक्रादिभिः परीषहोपसर्गरक्षुभ्यन् ‘समविषमाणि' शयनासनादीन्यनुकूलप्रतिकूलानि मुनि' यथावस्थितसंसारस्वभाववेत्ता सम्यग्-अरक्तद्विष्टतयाऽधिसहेत, तत्र च शून्यगृहादौ व्यवस्थितस्य चरन्तीति चरका-दंशमशकादयः अथवापि 'भैरवा' भयानकारक्षःशिवादयः अथवा तत्र सरीसृपाः 'स्यु' भवेयुः, तत्कृतांश्च परीषहान् सम्यक् अधिषहेतेति । साम्प्रतं त्रिविधोपसर्गाधिसहनमधिकृत्याहमू. (१२५) तिरिया मणुया य दिव्वगा, उपसग्गा तिविहाऽहियासिया।
लोमादीयं न हारिसे सुन्नागारगओ महामुनी ।। वृ. 'तैरश्चाः' सिंहव्याघ्रादिकृताः तथा ‘मानुषा' अनुकूलप्रतिकूलाः सत्कारपुरस्कारदण्डकशाताइनादिजनिताः, तथा 'दिव्वगा'इति व्यन्तरादिना हास्यप्रद्वेषादिजनिताः, एवं त्रिविधानप्युपसर्गान् 'अधिसहेत' नोपसगैर्विकारं गच्छेत, तदेव दर्शयति-'लोभादिकमपि न हर्षेत्' भयेन रोमोद्गममपि न कुर्यात्, यदिवा-एवमुपसर्गास्त्रिविधा अपि 'अहियासिय'त्ति अधिसोढा भवन्ति यदिरोमोद्गमादिकमपिनकुर्यात्, आदिग्रहणात् दृष्टिमुखविकारादिपरिग्रहः, शून्यागारगतः, शून्यगृहव्यवस्थितस्य चोपलक्षणार्थत्वात् पितृवनादिस्थितो वा ‘महामुनिः' जिनकल्पिकादिरिति। मू. (१२६) नो अभिकंखेज जीवियं, नोऽविय पूयणपत्थएसिया।
अब्भत्थभुर्विति भेरवा, सुन्नागारगयस्स भिक्खुणो। वृ. किञ्च-स तैभैरवैरुपसर्गेरुदीर्णैस्तोतुद्यमानोऽपि जीवितं न अभिकाङक्षेत, जीवितनिरपेक्षेणोपसर्गसोढव्य इतिभावः, न चोपसर्गसहनद्वारेण 'पूजानार्थकः' प्रकर्षामिलाषी ‘स्यात्' भवेत्, एवं च जीवितपूजानिरपेक्षेणासकृत् सम्यक् सह्यमाणा भैरवा-भयानकाः शिवापिशाचादयोऽभ्यस्तभावं स्वात्मतां उप-सामीप्येन यान्ति-गच्छन्ति, तत्सहनाच्च भिक्षोः शून्यागारगतस्य नीराजितवारणस्येव शीतोष्णादिजनिता उपसर्गा सुसहा एव भवन्तीति भावः ।
--पुनरप्युपदेशान्तरमाहमू. (१२७) उवनीयतरस्स ताइणो, भयमाणस्स विविक्कमासणं।
सामाइमाहु तस्स जं, जो अप्पाण भए न दंसए । वृ. उप-सामीप्येन नीतः-प्रापितो ज्ञानादावात्मा येन स तथा अतिशयेनोपनीत उपनीततरस्तस्य, तथा 'तायिनः' परात्मोपकारिणः त्रायिणो वा-सम्यक्पालकस्य, तथा 'भजमानस्य' सेवमानस्य 'विविक्तं' स्त्रीपशुपण्डकविवर्जितम् आस्यते-स्थीयते यस्मिन्निति तदासनं-वसत्यादि, तस्यैवम्भूतस्य मुनेः “सामाचिकं' समभावरूपं सामायिकादिचारित्रमाहुः सर्वज्ञाः, 'यद्' यस्मात् ततश्चारित्रिणा प्राग्व्यवस्थितस्वभावेन भाव्यं, यश्चात्मानं 'भये' परिषहोपसर्गजनिते 'न दर्शयेत्' तदीरुन भवेत् तस्य सामायिकमाहुरिति सम्बन्धनीयं ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org