________________
श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशक: - २
मित्यर्थ, इत्येवं 'विद्वान्' जानन् कः सकर्ण 'अगारवास' गृहवासमावसेत् ?, गृहपाश वाऽनुव
धनीयादिति, उक्तं च
-
11911
"दाराः परिभवकारा बन्धुजनो बन्धनं विषं विषयाः । कोऽयं जनस्य मोहो ? ये रिपवस्तेषु सुहृदाशा ॥ - पुनरप्युपदेशमधिकृत्याह
महयं पलिगोव जाणिया, जावि य वंदणपूयणा इहं । सुहुमे सल्ले दुरुद्धरे, विउमंता पयहिज्ज संथवं ।।
७५
मू. (१२१)
वृ. 'महान्तं ' संसारिणां दुस्त्यजत्वान्महता वा संरम्भेण परिगोपणं परिगोपः द्रव्यतः पङ्कादिः भावतोऽभिष्वङ्गः तं ज्ञात्वा' स्वरूपतः तद्विपाकतो वा परिच्छिद्य याऽपि च प्रव्रजितस्य सतो राजादिभिः कायादिभिर्वन्दना वस्त्रपात्रादिभिश्च पूजना तां च 'इह' अस्मिन् लोके मौनीन्द्रे वा शासने व्यवस्थितेन कर्मोपशमजं फलमित्येवं परिज्ञायोत्सेको न विधेयः किमिति ?, यतो गर्वात्मकमेवत्सूक्ष्मं शल्यं वर्त्तते, सूक्ष्मत्वाच्च 'दुरुद्धरं' दुःखेनोद्धर्तुं शक्यते, अतः 'विद्वान्' सदसद्विवेकज्ञस्तत्तावत् ‘संस्तवं' परिचयमभिष्वङ्गं 'परिजह्यात्' परित्यजेदिति। नागार्जुनीयास्तुपठन्ति॥ १ ॥ “पलिमंथ महं वियाणिया, जाऽविय वंदनपूयणा इहं ।
,
सुहुमं सल्लं दुरुद्धरं, तंपि जिने एएण पंडिए ।।
अस्य चायमर्थ साधोः स्वाध्यायध्यानपरस्यैकान्तनि स्पृहस्य योऽपि चायं परैः वन्दनापूजनादिकः सत्कारः क्रियते असावपि सदनुष्ठानस्य सद्गतेर्वा महान् पलिमन्थो विघ्नः, आस्तां तावच्छन्दादिष्वभिष्वङ्गः, तमित्येवंपरिज्ञाय तथा सूक्ष्मशल्यं दुरुद्धरंच अतस्तमपि 'जयेद्' अपनयेत् पण्डितः 'एतेन' वक्ष्यमाणेनेति ||
मू. (१२२)
एगे चरे ठाणमासणे, सयणे एगे समाहिए सिया ।
भिक्खू उवहाणवीरिए, वइगुत्ते अज्झत्तसंवुडो ॥
वृ. 'एकः' असहायो द्रव्यत एकल्लविहारी भावतो रागद्वेषरहितश्चरेत्, तथा 'स्थानं' कायोत्सर्गादिकम् एक एव कुर्यात्, तथा आसनेऽपि व्यवस्थितोऽपि रागद्वेषरहित एव तिष्ठेत् एवं शयनेऽप्येकाक्येव 'समाहितः' धर्मादिध्यानयुक्तः 'स्यात्' भवेत्, एतदुक्तं भवति ।
सर्वास्वप्यवस्थासु चरणस्थानासनशयनरूपासु रागद्वेषविरहात् समाहित एव स्यादिति, तथा भिक्षणशीलो भिक्षुः उपधानं तपस्तत्र वीर्यं यस्य स उपधानवीर्य तपस्यनिगूहितबलवीर्यं इत्यर्थः, तथा 'वाग्गुप्तः' सुपर्यालोचिताभिधायी 'अध्यात्मं' मनः तेन संवृतो भिक्षुर्भवेदिति । मू. (१२३) पीहे न यावपंगुणे, दारं सुन्नघरस्स संजए ।
पुट्ठे न उदाहरे वयं, न समुच्छे नो संथरे तणं ॥
वृ. केनचिच्छयनादिनिमित्तेन शून्यगृहमाश्रितो भिक्षुः तस्य गृहस्य द्वारं कपाटादिना न स्थगयेन्नापि तच्चालयेत् यावत् 'न यावपंगुणे' त्ति नोद्घाटयेत्, तत्रस्थोऽन्यत्र वा केनचिद्धर्मादिकं मार्ग वा पृष्टः सन् सावद्यां वाचं 'नोदाहरेत्' न ब्रूयात्, आभिग्रहिको जिनकल्पिकादिर्निरवद्यामपि न ब्रूयात्, तथा 'न समुच्छिन्द्यात्' तृणानि कचवरं च प्रमार्जनेन नापनयेत, नापि शयनार्थी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org