________________
७४
धर्मं प्रकाशयेत्, छान्दसत्वात् वर्त्तमाने भूतनिर्देश इति ॥
मू. (११८)
सूत्रकृताङ्ग सूत्रम् १/२/२/११७
बहवे पाणा पुढो सिया, पत्तेयं समयं समीहिया । जो मोनपदं उवट्ठितै, विरतिं तत्थ अकासि पंडिए ।
वृ. स बहुजननमने धर्मे व्यवस्थितो याध्क् धर्म प्रकाशयति तद्दर्शयितुमाह-यदिवोपदेशान्तरमेवाधिकृत्याह- 'बहवे ' इत्यादि, 'बहवः ' अनन्ताः 'प्राणाः दशविधप्राणभाकत्वात्तदभेदोपचारात् प्राणिनः 'पृथग्' इति पृथिव्यादिभेदेन सूक्ष्मबादरपर्याप्तकापर्याप्तनरकगत्यादिभेदेन वा संसारमाश्रिताः तेषां च पृथगाश्रितानामपि प्रत्येकं समतां - दुःखद्वेषित्वं सुखप्रियत्वं च 'समीक्ष्य' दृष्ट्वा । यदिवा- 'समतां' माध्यस्थ्यमुपेक्ष्ययो 'मौनीन्द्रपदमुपस्थितः संयममाश्रितः स साधुः ‘तत्र’ अनेकभेदभिन्नप्राणिगणे दुःखद्विषि सुखाभिलाषिणि सति तदुपधाते कर्तव्ये विरतिम् अकार्षीत् कुर्याद्धेति, पापाङ्गीनः पापानुष्ठानात् दवीयान् पण्डित इति ।। अपिचमू. (११९) धम्मस्स य पारए मुनी, आरंभस्स य अंतए ठिए । सोयंति य णं ममाइणो, नो लब्भंति नियं परिग्गहं ॥
वृ. धर्मस्य श्रुतचारित्रभेदभिन्नस्य पारं गच्छतीति पारगः-सिद्धान्तपारगामी सम्यक्चा - रित्रानुष्ठायी वेति, चारित्रमधिकृत्याह 'आरम्भस्य' सावद्यानुष्ठानरूपस्य ‘अन्ते' पर्यन्ते तदभावरूपे स्थितो मुनिर्भवति, ये पुनर्नैवं भवन्ति ते अकृतधर्माः मररणे दुःखे वा समुत्थिते आत्मानं शोचन्ति, णमिति वाक्यालङ्कारे, यदिवेष्टमरणादौ अर्थनाशे वा 'ममाइणो'त्ति ममेदमहमस्य स्वामी - त्येवमध्यसायिनः शोचन्ति शोचमाना अप्येते 'निजम्' आत्मीयं ।
परि-समन्तान् गृह्यते - आत्मसान्क्रियत इति परिग्रहः- हिरण्यादिरिष्टस्वजनादिर्वा तं नष्टं मृतं वा 'न लभन्ते' न प्राप्नुवन्तीति, यदिवा धर्मस्य पारगं मुनिमारम्भस्यान्ते व्यवस्थितमेनमागत्य 'स्वजनाः' मातापित्रादयः शोचन्ति 'ममत्वयुक्ताः' स्नेहालवः, न च ते लभन्ते निजमप्यात्मीयपरिग्रहबुद्धया गृहीतमिति ॥ पू. (१२०)
इहलोग दुहावहं विऊ, परलोगे य दुहं दुहावहं । विद्वंसणधम्ममेव तं इति विज्जं कोऽगारमावसे ॥ वृ. अत्रान्तरे 'नागार्जुनीयास्तु' पठन्ति -
॥१॥
“सोऊण तयं उचट्ठियं, केइ गिही विग्घेण उट्टिया । धम्मंमि अनुत्तरे मुनी, तंपि जिणिज्ज इमेण पंडिए ।
एतदेवाह - 'इह' अस्मिन्नेव लोके हिरण्यस्वजनादिकं दुःखमावहति 'विउत्ति विद्या:जानीहि, तथाहि
119 11
'अर्थानामर्जने दुःखमर्जितानां च रक्षणे ।
आये दुःखं व्यये दुःखं, धिगर्थ दुःखभाजनम् ।। (तथाहि)
॥ १ ॥ 'रेवापयः किसलयानि च सल्लकीनां, विन्ध्योपकण्ठविपिनं स्वकुलं च हित्वा । किं ताम्यसि द्विप ! गतोऽसि वशं करिण्याः, स्नेहो निबन्धनमर्थपरम्परायाः ॥ परलोके च हिरण्यस्वजनादिममत्वापादितकर्मजं दुःखं भवति, तदप्यपरं दुःखमावहति, तदुपादानकर्मोपादानादिति भावः, तथैतदुपार्जितमपि 'विध्वंसनधर्मं' विशरारुस्वभावं गत्वर
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International