________________
श्रुतस्कन्धः - २, अध्ययनं-७,
४४७
पवयणं पवयमाणा गाहावई समणोवासगं उवसंपन्न एवं पञ्चक्खाति-नन्नत्य अभिओएणं गाहावइचोरग्रहणविमोक्खणयाए तसेहिं पाणेहिं निहाय दंडं, एवं ण्हं पञ्चक्खंताणंदुप्पचक्खायं भवइ, एवंण्हं पच्चक्खावेमाणाणंदुपचक्खावियव्वंभवइ, एवं ते परं पञ्चक्खावेमाणा अतियरंति सयं पतिण्णं, कस्स णं तं हेउं ?, संसारिया खलु पाणा थावरावि पाणा तसत्ताए पञ्चायंति, तसावि पाणा थावरत्ताए पञ्चायंति, थावरकायाओ विप्पमुघमाणा तसकायंसि उववझंति, तसकायाओ विप्पमुच्चमाणा थावरकायंसि उववजंति ष तेसिं च णं थावरकायंसि उववण्णाणं ठाणमेयं धत्तं।
वृ. तद्यथा-भो गौतम ! अस्तीत्ययं विभक्तिप्रतिरूपको निपात इति बह्वर्थवृत्तिर्गृहीतः, ततश्चायमर्थ-'सन्ति' विद्यन्ते कुमारपुत्रा नाम निर्ग्रन्था युष्मदीयं प्रवचनं प्रवदन्तः, तद्यथागृहपतिश्रमणोपासकमुपसंपन्नं-नियमायोस्थितमेवं प्रत्याख्यापयन्ति' प्रत्याख्यानं कारयन्ति, तद्यथास्थूलेषुप्राणिषुदण्डयतीतिदण्ड:-प्राण्युपमर्दस्तं निहाय' परित्यज्य,प्राणातिपातनिवृत्तिं कुर्वन्ति, तामेवापवदति-नान्यत्रेति, स्वमनीषिकाया अन्यत्र राजाधभियोगेन यः प्राण्युपघातो न तत्र निवृत्तिरिति। तत्र किल स्थूलप्राणिविशेषणात्तदन्येषामनुमतिप्रत्ययदोषः स्यादित्याशशावानाह'गाहावई'इत्यादि। __अस्यचार्युमुत्तरत्राविर्भावयिष्यामः । येनाभिप्रायेणोदकश्चोदितवांस्तमाविष्कुर्वन्नाह-एवं ण्ह'मित्यादि, एहमिति वाक्यालङ्गारे, अवधारणे वा, एवमेव त्रसप्राणिविशेषणत्वेनापरत्रसभूतविशेषणरहितत्वेनप्रत्याख्यानं गृह्णतां श्रावकाणां दुष्प्रत्याख्यानं भवति, प्रत्याख्यानभासद्भावात्, तथैवमेव प्रत्याख्यापयतामपि साधूनांदुष्टं प्रत्याख्यानदानं भवति, किमित्यत आह-एवं तेश्रावकाः प्रत्याख्यानं गृह्णन्तः साधवश्च परंप्रत्याख्यापयन्तः स्वां प्रतिज्ञामतिचरन्ति-अतिलमयन्ति
___ 'कस्स णं हेउंति प्राकृतशैल्या कस्माद्धेतोरित्यर्थः । तत्र प्रतिज्ञाभङ्गकारणमाह'संसारिया' इत्यादि, संसारो विद्यते येषां ते सांसारिकाः, खलुरलङ्कारे, 'प्राणाः' जन्तवः स्थावराः 'प्राणिनः' पृथिव्यप्तेजोवायुवनस्पतयः सन्तोऽपि तथाविधकर्मोदयात्रसतयाःत्रसत्वेन द्वीन्द्रियादिभावेन प्रत्यायान्ति-उत्पद्यन्ते, तथा वसा अपि स्थावरतयेति, एवं च परस्परगमने व्यवस्थिते सत्यवश्यंभावी प्रतिज्ञाविलोपः, तथाहि-नागरिको मया न हन्तव्य इत्येवंभूता येन प्रतिज्ञा गृहीता स यदा बहिरारामादी व्यवस्थितं नागरिकं व्यापादयेत् किमेतावता तस्य न भवेप्रतिज्ञाविलोपः।
एवमत्रापियेनत्रसवधनिवृत्तिः कृतासयदातमेवत्रसंप्राणिनस्थावरकायस्थितंव्यापादयेत् किंतस्य न भवेप्रतिज्ञाविलोपः?, भवत्येवेत्यर्थः। एवमपित्रसस्थावरकायेसमुत्पन्नानां त्रसानां यदि तथाभूतं किञ्चिदसाधारणं लिङ्गं स्यात् ततस्ते त्रसाः स्थावरत्वेनाप्युत्पन्नाः शक्यन्ते परिहतु, नच तदस्तीत्येतद्दर्शयितुमाह-'थावरकायाओ' इत्यादि, स्थावरकायात्सकाशाद्विविधम्-अनेकैः प्रकारैः प्रकर्षेणमुच्यमानाः स्थावरकायायुषातयोग्येश्चापरैः कर्मभिःसर्वात्मनात्रसकायेसमुत्पद्यन्ते, तथा त्रसकायादपि सर्वात्मना विमुच्यमानास्तत्कर्मभिः स्थावरकाये समुत्पद्यन्ते, तत्र चोत्पन्नानां तथाभूतत्रसलिङ्गाभावाप्रतिज्ञालोप इत्येतत्सूत्रेणैव दर्शयितुमाह-'तेसिं च णमित्यादि, 'तेषां च' त्रसानां स्थावरकाये समुत्पन्नानां गृहीतत्रसप्राणातिपातविरतेः श्रावकस्याप्यारम्भप्रवृत्तत्वेनैतत्स्थावराख्यं धात्यं स्थानं भवति, तस्मादनिवृत्तत्वात्तस्येति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org