________________
श्रुतस्कन्धः -२, अध्ययनं-५,
४०५
सर्वेषां भव्यानां सिद्धिसद्भावेऽवशिष्टाः संसारे 'अनीशा' अभव्या एव भवेयुरित्येवं चनो वदेत्, युक्ति चोत्तरत्र वक्ष्यति । तथा कर्मात्मको ग्रन्थो येषां विद्यते ते ग्रन्थिकाः, सर्वेऽपि प्राणिनः कर्मग्रन्थोपेता एव भविष्यन्तीत्येवमपि नो वदेत्, इदमुक्तं भवति-सर्वेऽपि प्राणिनः सेत्स्यन्त्येव कर्मावृता वा सर्वेभविष्यन्तीत्येवमेकमपिपक्षमेकान्तिकंनो वदेत् । यदिवा-'ग्रन्थिका' इति ग्रन्थिकसत्त्वा भविष्यन्तीति, ग्रन्थिभेदं कर्तुमसमर्था भविष्यन्तीत्येवं च नो वदेत्, तथा 'शाश्वता' इतिशास्तारः सदा सर्वकालंस्थायिनस्तीर्थकरा भविष्यन्ति ‘नसमुच्छेस्यन्ति' नोच्छेदं यास्यन्तीत्येवं नो वदेदिति। मू. (७०९) एएहिं दोहिं ठाणेहिं, ववहारो न विजइ ।
एएहिं दोहिं ठाणेहिं, अनायारं तु जाणए । वृ.तदेवंदर्शनाचारवादनिषेधं वामात्रेण प्रदश्याधुनायुक्तिदर्शयितुकाम आह-एतयोः' अनन्तरोक्तयोद्धयोः स्थानयोः, तद्यथा-शास्तारः क्षयं यास्यन्तीति शाश्वता वा भविष्यन्तीति, यदिवा सर्वे शास्तारस्तद्दर्शनप्रतिपन्ना वा सेत्स्यन्ति शाश्वता वा भविष्यन्ति, यदिवा सर्वेप्राणिनो ह्यनीद्दशाः-विसद्दशाः सद्दशा वा, तथा ग्रन्थिकसत्त्वास्तद्रहिता वा भविष्यन्तीत्येवमनयोः स्थानयोर्व्यवहरणं व्यवहारस्तदस्तित्वे युक्तेरभावान्न विद्यते, तथाहि-यत्तावदुक्तं सर्वेशास्तारः क्षयं यास्यन्ती'त्येतदयक्तं, क्षयनिबन्धनस्य कर्मणोऽभावात्सिद्धानां क्षयाभावः, अथ भवस्थकेवल्यपेक्षयेदमभिधीयते, तदप्यनुपन्न, यतोऽनाद्यनन्तानांकेवलिनांसद्भावाप्रवाहापेक्षया तदभावाभावः।
यदप्युक्तम्-'अपूर्वस्याभावेसिद्धिगमनसद्भावेनचव्ययसद्भावाद्भव्यशून्यंजगत्स्या' दित्येतदपि सिद्धान्तरपरमार्थावेदिनो वचनं,यतोभव्यराशेराद्धान्ते भविष्यत्कालस्येवानन्त्यमुक्तं, तच्चैवमुपपद्यते यदि क्षयो न भवति, सति च तस्मिन् आनन्त्यं न स्यात्, नापि चावश्यं सर्वस्यापि भव्यस्य सिद्धिगमनेन भाव्यमित्यानन्त्यादभव्यानां तत्सामण्यभावाद्योग्यदलिकप्रतिमावतदनुपपत्तिरिति । तथा नापि शाश्वता एव, भवस्थकेवलिनां शास्तृणां सिद्धिगमनसभावाअवाहापेक्षयाच शाश्वतत्वमतः कथञ्चिच्छाश्वताः कथंचिदशाश्वताइति। तथा सर्वेऽपिप्राणिनो विचित्रकर्मसद्भावान्नानागतिजातिशरीराङ्गोपाङ्गादिसमन्वितत्वादनीशाः-विसशास्तथोपयोगासंख्येयप्रदेशत्वामूर्तत्वादिभिर्धभैः कथञ्चित्सध्शाइति, तथोल्लसितसद्वीर्यतयाकेचिद्भिन्नग्रन्थयोऽपरे च तथाविधपरिणामाभावाद् ग्रन्थिकसत्त्वा एव भवन्तीत्येवं च व्यवस्ते नैकान्तेनैकान्तपक्षो भवतीतिप्रतिषिद्धः, तदेवमेतयोरेव द्वयोःस्थानयोरुक्तनीत्याऽनाचारं विजानीयादिति स्थितम्
अपिच-आगमेअनन्तानन्तास्वप्युत्सर्पिण्यवसर्पिणीषुभव्यानामनन्तभाग एव सिद्धयतीत्ययमर्थः प्रतिपाद्यते, यदा चैवंभूतं तदानन्त्यंतत्कथं तेषांक्षयः?, युक्तिरप्यत्रसंबन्धिशब्दावेतौ, मुक्तिःसंसारं विना भवति, संसारोऽपि न मुक्तिमन्तरेण, ततश्च भव्योच्छेदे संसारस्याप्यभावः स्यादतोऽभिधीयते नानयोर्व्यवहारो युज्यत इति अधुना चारित्राचारमङ्गीकृत्याहमू. (७१०) जे केइ खुद्दगा पाणा, अदुवा संति महालया।
सरिसं तेहिं वेरंति, असरिसंती य नो वदे ॥ घृ.ये केचन क्षुद्रकाः सत्त्वाः-प्राणिन एकेन्द्रियद्वीन्द्रियादयोऽल्पकायावा पञ्चेन्द्रियाअथवा 'महालया' महाकायाः सन्ति' विद्यन्ते तेषांचक्षुद्रकाणामल्पकायानांकुन्थ्वादीनां महानालयःशरीरं येषां ते महालया-हस्त्यादयस्तेषां च व्यापादने सशं वैर मिति वज्रं कर्म विरोधलक्षणं वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org