________________
२९४
सूत्रकृताङ्ग सूत्रम् २/१/-/६३३ तहिं तहिं बहवे पउमवरपोंडरीया बुइया, अनुपुव्वुट्ठिवा, तीसे णं पुक्खरिणीए तत्थ तत्थ देसे देसे तहिं तहिं बहवे पउमवरपोंडरीया बुइया, अनुपुब्बुट्टिया ऊसिया रुइला वण्णमंता गंधमंता रसमंता फासमंता पासादिया दरिसणिया अभिरूवा पडिरूवा ।
तीसे णं क्खरिणी बहुमज्झदेसभाए एगे महं पउमवरपोंडरीए वुइए, अनुपुव्वुट्ठिए उस्सिते रुइले वनमंते गंधमंते रसमंते फासमंते पासादीए जाव पडिरूवे । सव्वावंति च णं तीसे पुक्खरिणीए तत्थ तत्थ देसे देसे तहिं तहिं बहवे पउमवरपोंडरीया बुइया अनुपुव्युट्ठिया ऊसिया रुइला जाव पडिरूवा, सव्यावंति च णं तीसे णं पुक्खरिणीए बहुमज्झदेसभाए एवं महं पउमवरपोंडरीए बुइए अनुपुव्वुट्ठिए जाव पडिरूवे ।
वृ. अस्य चानन्तरसूत्रेण सह सम्बन्धो वाच्यः, स चायं - 'से एवमेव जाणह जमहं भयंतारो' त्ति तदेवदेव जानीत भयस्य त्रातारः !, तद्यथा श्रुतं मयाऽऽ युष्मता भगवतैवमाख्यातम्, आदिसूत्रेण च सह सम्बन्धोऽयं, तद्यथा-यद्भगवताऽऽख्यातं मया च श्रुतं तद्बुध्येतेत्यादिकं, किं तद्भगवताऽऽख्यातमित्याह- 'इह' प्रवचने सूत्रकृद्दितीयश्रुतस्कन्धे वा खलुशब्दो वाक्या लङ्कारे पौण्डरीकाभिधानमध्ययनं पौण्डरीकेण-सितशतपत्रेणान्त्रोपमा भविष्यतीतिकृत्वा, अतोऽस्याध्ययनस्य पौण्डरीकमिति नाम कृतं, तस्य चायमर्थः, णमिति वाक्यालङ्कारे, 'प्रज्ञप्तः' प्ररूपितः, 'सेजह' त्ति तद्यथार्थः स च वाक्योपन्यासार्थः, नामशब्दः सम्भावनायां, सम्भाव्यते पुष्करिणीध्ान्तः, पुष्कराणिपद्मानि तानि विद्यन्ते यस्यामसौ पुष्करिणी 'स्याद्' भवेदेवम्भूता, तद्यथा 'बहु' प्रचुरमगाधमुदकं यस्यां सा बहूदका, तथ बहुः प्रचुरः सीयन्ते - अवबध्यन्ते यस्मिन्नसौ सेयः - कर्दमः स यस्यां सा बहुसेवाप्रचुरकर्दमा बहुश्वेतपद्मसद्भावात् स्वच्छोदकसंभवाच्च बहुश्वेता वा, तथा 'बहुपुष्कला' बहुसंपूर्णा प्रचुरोदकभृतेत्यर्थः । तथा लब्धः प्राप्तः पुष्करिणीशब्दान्वर्धतयाऽर्थो यया सा लब्धार्था, अथवाऽऽस्थानमास्था-प्रतिष्ठा सा लब्धा यया सा लब्धास्था, तथा पौण्डरीकाणि- श्वेतशतपत्राणि विद्यन्ते यस्यां सा पौण्डरीकिणी, प्रचुरार्थे मत्वर्थीयोत्पत्तेर्बहुपद्मेत्यर्थः ।
तथा प्रसादः प्रसन्नता निर्मलजलता सा विद्यते यस्याः सा प्रसादिका प्रासादा वादेवकुलसन्निवेशास्ते विद्यन्ते यस्यां समन्ततः सा प्रासादिका, दर्शनीया शोभना सत्संनिवेशतो वा द्रष्टव्या दर्शनयोग्या, तथाऽऽभिमुख्येन सदाऽवस्थितानि रूपाणि- राजहंसचक्रवाकसारसादीनिगजमहिषमृगयूथादीनि वा जलान्तर्गतानि करिमकरादीनि वा यस्यां साऽभिरूपेति, तथा प्रतिरूपाणि प्रतिबिम्बानि विद्यन्ते यस्यां सा प्रतिरूपा, एतदुक्तं भवति-स्वच्छत्वात्तस्याः सर्वत्र प्रतिबिम्बानि समुपलभ्यन्ते, तदतिशयरूपतया वा लोकेन तत्प्रतिबम्बानि क्रियन्ते सा प्रतिरूपेति, यदिवा- 'पासादीया दरिसणीया अभिरुवा पडिरूव' त्ति पर्याया इत्येते चत्वारोऽप्यतिशयरमणीयत्वख्यापनार्थमुपात्ताः ।
तस्याश्च पुष्करिण्याः णमिति वाक्यालङ्कारे 'तत्र तत्रे' त्यनेन वीप्सापदेन पौण्डरीकैर्व्यापकत्वमाह, 'देशे देशे' इत्यनेन त्वेकैकप्रदेशे प्राचुर्यमाह, 'तस्मिंस्तस्मिन्नि' त्यनेन तु नास्त्येवासौ पुष्करिण्याः प्रदेशो यत्र तानि न सन्तीति, यदिवा- 'देशे देशे' इत्येतत्प्रत्येकमभिसम्बध्यते 'तत्र तत्रे'ति, कोऽर्थ ? -देशे देशे तस्मिंस्तस्मिन्निति च, कोऽर्थ : ?, देशैकदेश इति यदिवा-अत्यादरख्यापनायैकार्थान्येवैतानि त्रीण्यपि पदानि तेषु च पुष्करिण्याः सर्वप्रदेशेषु बहूनि प्रचुराणि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International