________________
श्रुतस्कन्धः - २, अध्ययनं - १,
पद्मान्येव 'वराणि' श्रेष्ठानि पौण्डरीकाणि पद्मवरपौण्डरीकाणि, पद्मग्रहणं छत्रव्याघ्रव्यवच्छेदार्थं, पौण्डरीकग्रहणं श्वेत शतपत्रमतिपत्त्यर्थं वरग्रहणमप्रधाननिवृत्त्यर्थं तदेवम्भूतानि बहूनि पद्मवरपौण्डरीकाणि 'बुइय'त्ति उक्तानि प्रतिपादितानि विद्यन्ते इत्यर्थः ।
२९२
'आनुपूर्व्येण' विशिष्टरचनया स्थितामि, तथोच्छ्रितानि पङ्कजले अतिलङ्घयोपरि व्यवस्थि:तानि तथा 'रुचि' दीप्तिस्तां लान्ति - आददति रुचिलानि-सद्दीप्तिमन्ति, तथा शोभनवर्णगन्धरसस्पशवन्ति, तथा प्रासादीयानि - दर्शनीयानि अभिरूपाणि प्रतिरूपाणि । तस्याश्च पुष्करिण्याः सर्वतः पद्मावृतायाः णमिति वाक्यालङ्कारे 'बहुदेशमध्यभागे' निरुपचरितमध्यदेशे एकं महत्पद्मवरपौण्डरीकमुक्तमानुपूर्व्येणव्यवस्थितमुच्छ्रितं रुचिलं वर्णगन्धरसस्पर्शवत् तथा प्रासादीयंदर्शनीयं अमिरूपतरं प्रतिरूप मिति ।
साम्प्रतमेतेवानन्तरोक्तं सूत्रद्वयं 'सव्वावंति च णं ती 'त्यनेन विशिष्टमपरं सूत्रद्वयं द्रष्टव्यम्, अस्यायमर्थः 'सव्वावंति 'त्ति सर्वस्या अपि तस्याः पुष्करिण्याः सर्वप्रदेशेषु यथोक्तविशेषणविशिष्टानि बहूनि पद्मानि तथा सर्वस्याश्च तस्या बहुमध्यदेशभागे यथोक्तविशेषणविशिष्टं महदेकं पौण्डरीकं विद्यत इति, उभयत्रापि चः समच्चये, णमिति वाक्यालङ्कारे इति ।
मू. (६३४) अह पुरिसे पुरित्थिमाओ दिसाओ आगम्य तं पुक्खरिणीं तीसे पुक्खरिणीए तीरे ठिचा पासति तं महं एवं पउमवरपोंडरीयं अनुपुव्वुट्ठियं ऊसियं जाव पडिरूवं । तए णं से पुरिसे एवं वयासी ।
अहमंसि पुरिसे खेयने कुसले पंडिते वियत्ते मेहावी अबाले मग्गत्थे मग्गविऊ मग्गस्स गतिपरक्क मन्नू अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामित्तिकट्टु इति बुया से पुरिसे अभिक्क मेति तं पुक्खरिणी, जावं जावं च णं अभिक्कमेइ तावं तावं च णं महंते उदए महंतेसेए पहीणे तीरं अपत्ते पउमवरपोंडरीयं नो हब्याएनो पाराए, अंतरा पोक्खरिणीए सेयंसि निसण्णे पढमे पुरिसजाए
वृ. 'अथ' अनन्तरमेवम्मूतपुष्करिण्याः पूर्वस्या दिशः कश्चिदेकः पुरुषः समागत्य तां पुष्करिणीं तस्याश्च 'तीरे' तटे स्थित्वा तदेतत्पद्मं प्रासादीयादिप्रतिरूपान्तविशेषणकलापोपेतं स पुरुषः पूर्वदिग्भागव्यवस्थितः 'एव' मिति वक्ष्यमाणनीत्या 'वदेत्' ब्रूयात्- 'अहमंसि' त्ति पुरुषः, किम्भूतः ? - 'कुशलो' हिताहितप्रवृत्तिनिवृत्तिनिपुणः, तथा पापाड्डीमः पण्डितो धर्मज्ञो देशकालज्ञः क्षेत्रज्ञो 'व्यक्तो' बालभावानिष्क्रान्तः परिणतबुद्धिः 'मेघावी' प्लवनोत्प्लवनयोरुपायज्ञः ।
तथा 'अबालो' मध्यमवयाः षोडशवर्षोपरिवर्ती 'मार्गस्यः सद्भिराचीर्णमार्गव्यवस्थितः तथा सन्मार्गज्ञः, तथा मार्गस्य या गतिर्गमनं वर्तते तया यत्पराक्रमणं-विवक्षितदेशगमनं तज्जानातीति परक्रमज्ञः, यदिवा-पराक्रमः - सामर्थ्यः तज्ज्ञोऽहमात्मज्ञ इत्यर्थः, तदेवम्भूतविशेषणकलापोपेर्तोऽहम् 'एतत्' पूर्वोक्तविशेषणकलापोतेतं पद्मवरपौण्डरीकं पुष्करिणीमध्यदेशावस्थितमहमुत्क्षेप्स् वामीतिकृत्वेहागतः 'इति' एतत्पूर्वोक्तं तत् प्रतीत्योक्त्वाऽसौ पुरुषस्तां पुष्करिणीमभिमुखं क्रामेत्-अभिक्रामेत् तदभिमुखं गच्छेत् ।
यावद्या वच्चा सौ तदवतरणाभिप्रायेणाभिमुखं क्रामेत्तावत्तावञ्चा णमिति वाक्यालङ्कारे तस्याः पुष्करिण्या महदगाधमुदकं तथा महांश्च 'सेयः' कर्दमः, ततोऽसौ महाकर्दमोदकाभ्यामाकुलीभूतः प्रहीणः सद्विवेकेन रहितस्त्यक्त्वा तीरं सुबव्यत्ययाद्वा तीराट्प्रहीणः प्रभ्रष्टः अप्राप्तश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org