________________
१५२
सूत्रकृताङ्ग सूत्रम् १/५/२/३४३ स्योपलक्षणार्थत्वात्प्रभूतं कालं हन्यन्त इतियावत् । मू. (३४४) संबाहिया दुक्कडिणो थणंति, अहो य राओ परितप्पमाणा ।
एगंतकूडे नरए महंते, कूडेण तत्था विसमे हताउ ।। वृ.तथा सम्-एकीभावेन बाधिताः पीडिता दुष्कृतं पापं विद्यतेयेषां तेदुष्कृतिनोमहापापः 'अहो' अहनितथा रात्रीच परितप्यमाना' अतिदुःखेनपीड्यमानाः सन्तः करुणं-दीनं 'स्तनन्ति' आक्रन्दन्ति, तथैकान्तेन ‘कूटानि' दुःखोत्पत्तिस्थानानि यस्मिन् स तथा तस्मिन् एवम्भूते नरके 'महति' विस्तीर्णे पतिताः प्राणिनः तेन च कूटेन गलयन्त्रपाशादिना पाषाणसमूहलक्षणेन वा 'तत्र' तस्मिन्विषमे हताःतुशब्दस्यावधारणार्थत्वात् स्तनन्त्येव केवलमिति ।। मू. (३४५) भंजंति णं पुब्वमरी सरोसं, समुग्गरे ते मुसले गहेतुं।।
तेभिन्नदेहा रुहिरं वमंता, ओमुद्धगा धरणितले पडति ॥ वृ. 'णम्' इति वाक्यालङ्कारे पूर्वमरय इवारयोजन्मान्तरवैरिणइवपरमाधार्मिका यदिवाजन्मान्तरापकारिणोनारका अपरे पामङ्गानि सरोषं सकोपंसमुद्रराणिमुसलानि गृहीत्वा भञ्जन्ति' गाढप्रहारैरामर्दयन्ति, तेच नारकास्त्रा णरहिताः शस्त्रप्रहारैर्भिन्नदेहा रुधिरमुद्वमन्तोऽधोमुखा धरणितले पतन्तीति ।। मू. (३४६) अनासिया नाम महासियाला, पागब्भिणो तत्थ सयायकोवा।
खजंति तत्था बहुकूरकम्मा, अदूरगा संकलियाहि बद्धा॥ वृ.किञ्च-महादेहप्रमाणा महान्तः शृगाला नरकपालविकुर्विता 'अनशिता' बुभुक्षिताः, नामशब्दः सम्भावनायां, सम्भाव्यत एतन्नरकेषु, 'अतिप्रगल्भिता' अतिधृष्टा रौद्ररूपा निर्भयाः।
___ 'तत्र' तेषु नरकेषु सम्भवन्ति सदावकोपा' नित्यकुपिताः तैरेवम्भूतैः श्रृगालादिभिस्तत्र व्यवस्थिता जन्मान्तरकृतबहुक्रूरकर्माणःश्रृङ्खलादिभिर्बद्धाअयोमयनिगडनिगडिता 'अदूरगाः' परस्परसमीपवर्तिनो 'भक्ष्यन्ते' खण्डशः खाद्यन्त इति ।। अपिचमू. (३४७) सयाजला नाम नदी भिदुग्गा, पविजलं लोहविलीणतत्ता।
जंस भिदुग्गंसि पवजमाणा, एगायऽताणुक्कमणं करेति ।। ७. सदा-सर्वकालं जलम्-उदकं यस्यां सा तथा सदाजलाभिधाना वा 'नदी' सरिद् 'अभिदुरगा' अतिविषमा प्रकर्षेण विविधमत्युष्णं क्षारपूयरुधिराविलं जलं यस्यां सा प्रविजला यदिवा 'पविजले ति रुधिराविलत्वात् पिच्छिला, विस्तीर्णगम्भीरजला वा अथवा प्रदीप्तजला वा, एतदेव दर्शयति-अग्निना तप्तं सत् 'विलीनं' द्रचतां गतं यल्लोहम्-अयस्तद्वत्तप्ता, अतितापविलीनलोहसशजलेत्यर्थ, यस्यांच सदाजलायांअभिदुर्गायां नद्यांप्रपद्यमाना नारकाः 'एगाय'त्ति एकाकिनोऽत्राणा 'अनुक्रमणं' तस्यां गमनं प्लवनं कुर्वन्तीति ॥ मू. (३४८) एयाइं फासाइंफुसंति बालं, निरंतरं तत्थ चिरद्वितीयं।
न हम्ममाणस्स उ होइ ताणं, एगो सयं पच्चणुहोइ दुक्खं ।। वृ. साम्प्रतमुद्देशकार्थमुपसंहरन् पुनरपि नारकाणां दुःखविशेष दर्शयितुमाह-एते' अनन्तरोद्देशकद्वयाभिहिताः 'स्पर्शा' दुःखविशेषाः परमाधार्मिकजनिताः पस्परापादिताः स्वाभाविका वेति अतिकटवो रूपरसगंधस्पर्शशब्दाः अत्यंतदुःसहा बालमिव 'बालम्' अशरणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org