________________
-
श्रुतस्कन्धः - १, अध्ययनं ५, उद्देशक :- २
१५३
‘स्पृशन्ति' दुःखयन्ति निरन्तरम्' अविश्रामं 'अच्छिनिमीलय' मित्यादिपूर्ववत् 'तत्र' तेषु नरकेषु चिरं प्रभूतं कालं स्थितिर्यस्य बालस्यासौ चिरस्थितिकस्तं, तथाहि
रत्नप्रभायामुत्कृष्टा स्थिति सागरोपमं, तथा द्वितीयायां शर्करप्रभायां त्रीणि, तथा वालुकायं सप्त, पङ्कायां दश, धूमप्रभायां सप्तदश तमः प्रभायां द्वाविंशतिर्महातमः प्रभायां सप्तमपृथिव्यां त्रयस्त्रिंशत्सागरोपमाणि उत्कृष्टा स्थितिरिति, तत्र च गतस्य कर्मवशापादितोत्कृष्टस्थितिकस्य परैर्हन्य- मानस्य स्वकृतकर्मफलभूजो न किञ्चित्त्राणं भवति, तथाहि
किल सीतेन्द्रेण लक्ष्मणस्य नरकदुःखनुभवतस्तत्राणोद्यतेनापि न त्राणं कृतमिति श्रुति, तदेवमेकः - असहायो यदर्थं तत्पापं समर्जितं तै रहितस्तत्कर्मविपाकजं दुःखमनुभवति, न कश्चिद्दुखसंविभागं गृह्णातीत्यर्थः, तथा चोक्तम्:
119 11
-
--
“मया परिजनस्यार्थे कृतं कर्म सुदारुणम् । एकाकी तेन दह्येऽहं गतास्ते फलभोगिनः ॥ -इत्यादि । किञ्चान्यत्
भू. (३४९) जंजारिसं पुव्वमकासि कम्मं, तमेव आगच्छति संपराए । एतदुक्कं भवमज्जणित्ता, वेदंति दुक्खी तमनंतदुक्खं ॥
वृ. 'यत्' कर्म 'याद्दशं' यदनुभावं याद्दकस्थितिकं वा कर्म 'पूर्वं' जन्मान्तरे 'अकार्षीत्' कृतवांस्तत्ताद्दगेव जघन्यमध्यमोत्कृष्टस्थित्यनुभावभेदं 'सम्पराये' संसारे तथा तेनैव प्रकारेणानुगच्छति, एतदुक्तं भवति- तीव्रमन्दमध्यमैर्वन्धाध्यवसायस्थानैर्याध्शैर्यद्बद्धं तत्ताध्गेव तीव्रमन्दमध्यमेव विपाकम्-उदयमागच्छतीति ।
एकान्तेन अवश्यं सुखलेशरहितं दुःखमेव यस्मिन्नरकादिके भवे स तथा तमेकान्तदुःखं 'भवमर्जयित्वा' नरकभवोपादानभूतानि कर्माण्युपादायैकान्तदुःखिनस्तत्-पूर्वनिर्दिष्टं दुःखम्असातवेदनीयरूपमनन्तम्-अनन्योपशमनीयमप्रतिकारं 'वेदयन्ति' अनुभवन्तीति ॥
मू. (३५०) एताणि सोञ्चा नरगाणि धीरे, न हिंसए किंचण सव्वलोए । एतदिट्ठी अपरिग्गहे उ, बुज्झिज्ज लोयस्स वसं न गच्छे ॥
वृ. पुनरप्युपसंहारव्याजेनोपदेशमाह- 'एतान' पूर्वोक्तान्नरकान् तास्थ्यात्तद्यपदेश इतिकृत्वा नरकदुःखविशेषान् ‘श्रुत्वा' निशम्य धीः- बुद्धिस्तया राजत इति धीरो-बुद्धिमान् प्राज्ञः, एतत्कुर्यादिति दर्शयति-सर्वस्मिन्नपि-त्रसस्थावरभेदभिन्ने 'लोके' प्राणिगणेन कमपि प्राणिनं 'हिंस्यात्' न व्यापादयेत्
तथैकान्तेन निश्चला जीवादितत्त्वेषु दृष्टिः सम्यदर्शनं यस्य स एकान्तदृष्टिः निष्प्रकम्पसम्यक्त्व इत्यर्थः-, तथा न विद्यते परि-समन्तात्सुखार्थं गृह्यत इति परिग्रहो यस्यासौ अपरिग्रहः, तुशब्दादाद्यन्तोपादानाद्वा मृषावादादत्तादानमैथुनवर्जनमपि द्रष्टव्यं, तथा 'लोकम्' अशुभकर्मकारिणं तद्विपाकफलभुजं वा यदिवा कषायलोकं तत्स्वरूपतो 'बुध्येत' जानीयात्, न तु तस्य लोकस्य वशं गच्छेदिति ॥
Jain Education International
मू. (३५१ ) एवं तिरिक्खे मणुयासुरेसुं, चतुरन्तऽनंतं तयणुव्विवागं ।
स सव्वमेयं इति वेदइत्ता, कंखेज कालं धुयमायरेज ॥ - तिबेमि ।
वृ. एतदनन्तरोक्तं दुःखविशेषमन्यत्राप्यतिदिशन्नाह-'एवम्' इत्यादि, एवमशुभकर्मका
For Private & Personal Use Only
www.jainelibrary.org