SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग सूत्रम् १/५/२/३५१ रिणामसुमता तिर्यङ्गनुष्यामरेष्वपि 'चतुरन्तं' चतुर्गतिकम् 'अनन्तम्' अपर्यवसानं तदनुरूपं विपाकं 'स' बुद्धिमान् सर्वमेतदिति पूर्वोक्तया नीत्या 'विदित्वा' ज्ञात्वा 'ध्रुवं संयममाचरन् 'काल' मृत्युकालमाकांक्षेत् । १५४ एतदुक्तं भवति चतुर्गतिकसंसारान्तर्गतानामसुमतां दुःखमेव केवलं यतोऽतो ध्रुवो-मोक्षः संयमो वा तदनुष्ठानरतो यावज्जीवं मृत्युकालं प्रतीक्षेतेति, इति परिसमाप्ती, ब्रवीमीति पूर्ववत् ॥ अध्ययनं -५ उद्देशकः-२ समाप्तः अध्ययनं -५ समाप्तम् मुनि दीपरत्न सागरेण संशोधिता सम्पादिता शीलाङ्काचार्य विरचिता प्रथम श्रुत स्कन्धस्य पंचमअध्ययन टीका परिसमाप्ता अध्ययनं - ६ "वीरस्तुति” वृ. उक्तं पञ्चममध्ययनं साम्प्रतं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः - अत्रानन्तराध्ययने नरकविभक्ति प्रतिपादिता, सा च श्रीमन्महावीरवर्धमानस्वामिनाऽभिहितेत्यतस्तस्यैवानेन गुणकीर्तनद्वारेण चरितं प्रतिपाद्यते शास्तुर्गुरुत्वेन शास्य गरीयस्त्वमितिकृत्वा, इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारो महावीरगुणगणोत्कीर्तनरूपः । निक्षेपस्तु द्विधा ओघनिष्पन्नो नामनिष्पन्नश्च तत्रौधनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तु महावीरस्तवः, तत्र महच्छन्दस्य वीर इत्येतस्य च स्तवस्य च प्रत्येकं निक्षेपो विधेयः, तत्रापि 'यथोद्देशस्तथा निर्देश' इतिकृत्वा पूर्वं महच्छब्दो निरूप्यते, तत्रास्त्ययं महच्छब्दो बहुत्वे, यथामहाजन इति, अस्ति बृहत्त्वे, यथा- महाघोषः, अस्त्यत्यर्थे, यथा- महाभयमिति, अस्ति प्राधान्ये यथा महापुरुष इति, तत्रेह प्राधान्ये वर्तमानो गृहीत इत्येतन्नियुक्तिकारो दर्शयितुमाहपाहन्ने महसद्दो दव्वे खेत्ते य कालभावे य । वीरस्स उ निक्खेवो चउक्कओ होइ नायव्वो । नि. [८३] वृ. तत्र महावीरस्तव इत्यत्र यो महच्छब्दः स प्राधान्ये वर्तमानो गृहीतः, तच्च नामस्थापनाद्रव्य क्षेत्रकालभावभेदात् षोढा प्राधान्यं, नामस्थापने क्षुण्णे, द्रव्यप्राधान्यं ज्ञशरीरभव्यशरीरव्यतिरिक्तं सचित्ताचित्तमिश्रभेदात् त्रिधा, सचित्तमपि द्विपदचतुष्पदापदभेदात् त्रिधैव, तत्र द्विपदेषु तीर्थकरचक्रवर्त्यादिकं चतुष्पदेषु हस्त्यश्वादिकमपदेषु प्रधानं कल्पवृक्षादिकं, यदिवाइहैव ये प्रत्यक्षा रूपरसगन्धस्पर्शैरुत्कृष्टाः पौण्डरीकादयः पदार्था अचित्तेषु वैडूर्यादयो नानाप्रभावा मणयो मिश्रेषु तीर्थकरो विभूषित इति, क्षेत्रतः प्रधाना सिद्धिधर्मचरणाश्रयणान्महाविदेहं चोपभोगाङ्गीकरणेन तु देवकुर्वादिकं क्षेत्रं, कालतः प्रधानं त्वेकान्तसुषमादि, यो वा कालविशेषो धर्मचरणप्रतिपत्तियोग्य इति, भावप्रधानं तु क्षायिको भावः तीर्थकरशरीरापेक्षयौदयिको वा, तह द्वयेनाप्यधिकार इति । वीरस्य द्रव्यक्षेत्रकालभावभेदाञ्चतुर्धानिक्षेपः, तत्र ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यवीरो For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy