________________
श्रुतस्कन्धः - १, अध्ययनं ६, उद्देशक:
-
१५५
द्रव्यार्थं सङ्ग्रामादावद्भुतकर्मकारितया शूरो यदिवा-यत्किञ्चित् वीर्यवद् द्रव्यं तत् द्रव्यवीरे अन्तर्भवति, तद्यथा तीर्थकृदनन्तबलवीर्यो लोकमलोके कन्दुकवत् प्रक्षेप्तुमलं तथा मन्दरं दण्डं कृत्वा रत्नप्रभां पृथिवीं छत्रवद्बिभृयात्, तथा चक्रवर्तिनोऽपि बलं 'दोसोला बत्तीसा', इत्यादि, तथा विषादीनां मोहनादिसामर्थ्यमिति, क्षेत्रवीरस्तु यो यस्मिन् क्षेत्रेऽद्भुतकर्मकारी वीरो वा यत्र व्यावर्ण्यते, एवं कालेऽप्यायोज्यं, भाववीरो यस्य क्रोधमानमायालोभैः परीषहादिभिश्चात्मा न जित:, तथा चोक्तम्
॥ १ ॥
॥२॥
-
"कोहं माणं च मायं च, लोभं पंचेंद्रियाणि य । दुज्जयं चेव अप्पाणं, सव्वमप्पे जिए जियं ॥ जो सहस्सं सहस्साणं, संगामे दुज्जए जिणे । एक्कं जिणेज अप्पाणं, एस से परमो जओ ॥ एक्को परिभमउ जए वियडं जिनकेसरी सलीलाए । कंदम्पदाढो भयणो विड्डारिओ जेणं ।।
॥ ३ ॥
तदेवं वर्धमानस्वाम्येव परीषहोपसर्गैरनुकूलप्रतिकूलैरपराजितोऽद्भुतकर्मकारित्वेन गुणनिष्पन्नत्वान् भावतो महावीर इति भण्यते, यदिवा द्रव्यवीरो व्यतिरिक्त एकभविकादि, क्षेत्रवीरो यत्र तिष्ठत्यसौ व्यावर्ण्यते वा, कालतोऽप्येवमेव, भाववीरो नोआगमतो वीरनामगोत्राणि कर्माण्यनुभवन्, स च चीरवर्धमानस्वाम्येवेति । स्तवनिक्षेपार्थमाह
नि. [८४]
थुइनिक्खेवो चउहा आगंतुअभूसणेहिं दव्वथुती ।
भावे संताण गुणाण कित्तणा जे जहिं भणिया ॥
वृ.' स्तुतेः' स्तवस्य नामादिश्चतुर्धा निक्षेपः, तत्र नामस्थापने पूर्ववत्, द्रव्यस्तवस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तो यः कटककेयूरकूचन्दनादिभिः सचित्ताचित्तद्रव्यैः क्रियत इति, भावस्तवस्तु 'सद्भूतानां' विद्यमानानां गुणानां ये यत्र भवन्ति तत्कीर्तनमिति । साम्प्रतं आद्यसूत्रसंस्पर्शद्वारेण सकलाध्ययनसम्बन्धप्रतिपादिकां गाथां नियुक्तिकृदाह-
नि. [८५] पुच्छर जंबुनामो अज्र सुहम्मा तओ कहेसी य ।
एव महप्पा वीरो जयमाह तहा जएज्जाहि ।।
वृ. जम्बूस्वामी आर्यसुधर्मस्वामिनं श्रीमन्महावीरवर्धमानस्वामिगुणान् पृष्टवान्, अतोऽसावपि भगवान् सुधर्मस्वाम्येवंगुणविशिष्टो महावीर इति कथितवान्, एवं चासौ भगवान् संसारस्य 'जयम्' अभिभवमाह, ततो यूयमपि यथा भगवान् संसारंजितवान् तथैव यलं विधत्तेति ॥ साम्प्रतं निक्षेपानन्तरं सूत्रानुगमेऽ स्खलितादिगुणोपेतं सूत्रमुञ्चारयितव्यं, तचेदम्मू. (३५२) पुच्छिस्सु णं समणा माहणा य, अगारिणो या परितित्थिआ य । से केइ नेगंतहियं धम्ममाहु, अनेलिसं साहु समिक्खयाए ।।
वृ. अस्य चानन्तरसूत्रेण सहायं सम्बन्धः, तद्यथा तीर्थकरोपदिष्टेन मार्गेण ध्रुवमाचरन् मृत्युकालमुपेक्षेतेत्युक्तं, तत्र किम्भूतोऽसौ तीर्थकृत् येनोपदिष्टो मार्ग इत्येतत् पृष्टवन्तः 'श्रमणा' यतय इत्यादि, परम्परसूत्रसम्बन्धस्तु बुद्धयेत यदुक्तं प्रागिति, एतच्च यदुत्तरत्र प्रश्नप्रतिवचनं वक्ष्यते तच्च बुद्धेतेति, अनेन सम्बन्धेनाऽऽयातस्यास्य सूत्रस्य संहितादिक्रमेण व्याख्या प्रतन्यते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org