________________
१५६
सूत्रकृताङ्ग सूत्रम् १/६/-/३५२ साचेयम्-अनन्तरोक्ता बहुविधांनरकविभक्तिश्रुत्वासंसारादुद्विग्नमनसः केनेयंप्रतिपादितेत्येतत् सुधर्मस्वामिनम् 'अप्राक्षुः' पृष्टवन्तः ‘णम्' इतिवाक्यालङ्कारे यदिवाजम्बूस्वामीसुधर्मस्वामिनमेवाहयथा केनैवंभूतो धर्म संसारोत्तारणसमर्थः प्रतिपादित इत्येतद्बहवो मां पृष्टवन्तः, तद्यथा - ___'श्रमणा' निर्ग्रन्थादयः तथा 'ब्राह्मणा' ब्रह्मचर्याद्यनुष्ठाननिरताः, तथा 'अगारिणः' क्षत्रियादयो ये च शाक्यादयः परतीर्थिकास्ते सर्वेऽपि पृष्टवन्तः, किं तदिति दर्शयति- स को योऽसावेनं धर्मदुर्गतिप्रसृतजन्तुधारकमेकान्तहितम् 'आह' उक्तवान् ‘अनीशम्' अनन्यसशम् अतुलमित्यर्थः, तथा-साध्वी चासौ समीक्षा च साधुसमीक्षायथावस्थिततत्त्वपरिच्छित्तिस्तया, यदिवा-साधुसमीक्षया-समतयोक्तवानिति । मू. (३५३) कहं च नाणं कह दंसणं से, सीलं कहं नायसुतस्स आसी? ।
जाणासिणं भिक्खु जहातहेणं, अहासुतं बूहि जहा निसंतं॥ वृ.तथा तस्यैव ज्ञानादिगुणावगतये प्रश्नमाह-'कथं' केन प्रकारेण भगवान् ज्ञानमवाप्तवान् ?, किम्भूतं वा तस्य भगवतो ज्ञान-विशेषाववोधकं ?, किम्भूतं च ‘से' तस्य 'दर्शन' सामान्यार्थप-रिच्छेदकं? 'शीलंच' यमनियमरूपंकीद्दक् ? ज्ञाता:-क्षत्रियास्तेषां पुत्रो' भगवान् वीरवर्धमा- नस्वामी तस्य ‘आसीद्' अभूदिति । यदेतन्मया पृष्टं तत् 'भिक्षो !' सुधर्मस्वामिन् याथातथ्येन त्वं 'जानीषे' सम्यगवगच्छसि 'णम्' इति वाक्यालङ्कारे तदेतत्सर्व यथाश्रुतं त्वया श्रुत्वा च यथा 'निशान्त' मित्यवधारितं यथा दृष्टं तथा सवं ब्रूहि' आचक्ष्वेति ।
स एवं पृष्टःसुधर्मस्वामी श्रीमन्महावीरवर्धमानस्वामिगुणान् कथयितुमाहमू. (३५४) खेयनए से कुसलासुपने अनंतनाणी य अनंतदंसी।
जसंसिणो चक्खुपहे ठियस्स जाणाहि धम्मं च धिइंच पेहि ॥ ७. सः- भगवान् चतुस्विंदतिशयसमेतः खेदं-संसारान्तर्वर्तिनां प्राणिना कर्मविपाकजं दुःखजानातीति खेदज्ञो दुःखापनोदनसमर्थोपदेशदानात्, यदिवा क्षेत्रज्ञो यथावस्थितात्मस्वरूपपरिज्ञानादात्मज्ञ इति, अथवा क्षेत्रम्-आकाशं तज्जानातीति क्षेत्रज्ञोलोकालोकस्वरूपपरिज्ञातेत्यर्थः, तथा भावकुशान्-अष्टविधकर्मरूपान् लुनाति-छिनत्तीति कुशलः प्राणिनां कर्मोच्छितये निपुण इत्यर्थ :। आशु-शीघ्रं प्रज्ञा यस्यासावाशुप्रज्ञः, सर्वत्र सदोपयोगाद्, न छद्मस्थ इव विचिन्त्य जाना-तीतिभावः, महर्षिरिति क्वचित्पाठः, महांश्चासावृषिश्चमहर्षिअतयन्तोग्रतपश्चरणानुष्ठायित्वादतुल-परीषहोपसर्गसहनाश्चेति, तथा अनन्तम्-अविनाश्यनन्तपदार्थपरिच्छेदकं वा ज्ञानविशेषग्राहकं यस्यासावनन्तज्ञानी, एवं सामान्यार्थपरिच्छेदकत्वेनानन्तदर्शी ।
तदेवम्भूतस्यभगवतो यशो नृसुरासुरातिशाय्यतुलं विद्यते यस्य स यशस्वी तस्य,लोकस्य 'चक्षुपथे लोचनमार्गे भवस्थकेवल्यवस्थायां स्थितस्य, लोकानां सूक्ष्मव्यवहितपदार्थाविर्भावनेन चक्षुर्भूतस्य वा 'जानिहि' अवगच्छ 'धर्म' संसारोद्धरणस्वभावं, तत्प्रणीतांवा प्रेक्षस्व' सम्यक्कुशाग्रीय-या बुद्धया पर्यालोचयेति, यदिवा-तैरेव श्रमणादिभिः सुधर्मस्वाम्यभिहितो यथा त्वं तस्य भगवतो यशस्विनश्चक्षुष्पथे व्यवस्थितस्य धर्मं धृतिं च जानीषे ततोऽस्माकं पेहि'त्ति कथयेति मू. (३५५) उड्ढे अहेयं तिरियं दिसास, तसा यजेथावर जे य पाणा।
से निचहि समिक्ख पन्ने, दीवे व धम्मं समियं उदाहु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org