SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं-५, उद्देशकः - २ १५१ वृ. 'सदा' सर्वकालं ‘कृत्स्नं' सम्पूर्णं पुनरपरं 'धर्मस्थानं' उष्णस्थानं दैनिधत्तनिकाचितावस्थैः कर्मभिः 'उपनीतं' ढौकितमतीव दुःखस्वपो धर्म-स्वभावो यस्मिंस्तदतिदुःखधर्म तदेवम्मूते यातनास्थाने तमत्राणं नारकं हस्तेषुपादेषुच बद्धवा तत्र प्रक्षिपन्ति, तथा तदवस्थमेव शत्रुमिव दण्डैः 'समारभन्ते' ताडयन्ति इति ।। मू. (३४०) भंजंति बालस्स वहेण पुट्ठी, सीसंपि भिदंति अओघणेहिं । ते भिन्नदेहा फलगंव तच्छा, तत्ताहिं आराहिं नियोजयंति ।। वृ. किञ्च-'बालस्य वराकस्य नारकस्य व्यथयतीति व्यथो-लकुटादिप्रहारस्तेन पृष्ठं 'भञ्जयन्ति' मोटयन्ति, तथा शिरोऽप्ययोमयेन घनेन भिन्दन्ति' चूर्णयन्ति, अपिशब्दादन्यान्यप्यङ्गोपाङ्गानि द्रुधणधातैश्चूर्णयन्ति। 'ते' नारका 'भिन्नदेहाः' चूर्णिताङ्गोपाङ्गाः फलकमिवोभाभ्या पाश्र्वाभ्यांक्रकचादिना 'अवतष्टाः' तनूकृताः सन्तस्तप्ताभिराराभिःप्रतुद्यमानास्तप्तत्रपुपानादिके कर्मणि 'विनियोज्यन्ते' व्यापार्यन्त इति किञ्चमू. (३४१) अभिमुंजिया रुद्द असाहुकम्मा, उसुचोइया हस्थिवहं वहति । एगंदुरुहित्तु दुवे ततो वा, आरुस्स विझंति ककाणओ से ।। वृ. रौद्रकर्मण्यपरनारकहननादिके 'अभियुज्य' व्यापार्य यदिवा-जन्मान्तरकृतं 'रौद्रं' सत्त्वोपघातकार्यम् अभियुज्य' स्मारयित्वा असाधूनि-अशोभनानिजन्मान्तरकृतानि कर्माणिअनुष्ठानानि येषांतेतथा तान् ‘इषुचोदितान्' शराभिघातप्रेरितान्हस्तिवाहं वाहयन्ति नरकपालाः, यथा हस्ती चाह्यते समारुह्य एवं तमपि वाहयन्ति, यदिवा यथा हस्ती महान्तं भारं वहत्येवं तमपि नारकं वाहयन्ति, उपलक्षणार्थत्वादस्योष्ट्रवाह वाहयन्तीत्याधप्यायोज्यं, कतं वाहयन्तीतिदर्शयति-तस्य नारकस्योपर्येकं द्वौ त्रीन्वा ‘समारुह्य' समारोप्यततस्तंवाहयन्ति, अतिभारारोपणेनावहन्तम् आरुष्य' क्रोधं कृत्वाप्रतोदादिना'विध्यन्ति' तुदन्ति, से' तस्य नारकस्य ‘ककाणओ'त्ति मर्माणि विध्यन्तीत्यर्थः।। मू. (३४२) बाला बला भूमिमनुक्क मंता, पविजलं कंटइलं महंतं। विवद्धतप्पेहिं विवन्नचित्ते, समीरिया कोट्टबलिं करिति ।। वृ.अपिच-बालाइव बालाः परतन्त्राः,पिच्छिलांरुधिरादिना तथा कण्टकाकुलां भूमिमनुक्रामन्तोमन्दगतयोबलाटोर्यन्ते, तथाअन्यान् विषण्णचित्तान्' मूर्छितांस्तर्पकाकारान विविधम्' अनेकधा बद्धा ते नरकपालाः ‘समीरिताः। ___ पापेन कर्मणा चोदितास्तान्नारकान् 'कुट्टयित्वा' खण्डशः कृत्वा 'बलिं करिति'त्ति नगरबलिवदितश्चेतश्च क्षिपन्तीत्यर्थ, यदिवा कोट्टबलिं कुर्वन्तीति ।। किञ्चमू. (३४३) वेतालिए नाम महाभितावे, एगायते पव्वयमंतलिक्खे। हम्मति तत्था बहुकूरकम्मा, परंसहस्साण मुत्तगाणं ।। वृ. नामशब्दः सम्भावनायां, सम्भाव्यते एतन्नरकेषु यथाऽन्तरिक्षे 'महाभितापे' महादुःखैककार्ये एकशिलाघटितो दीर्घ 'वेयालिए'त्ति वैक्रियः परमाधार्मिकनिष्पादितः पर्वतः तत्र तमोरूपत्वान्नर-काणामतो हस्तस्पर्शिकया समारुहन्तो नारका 'हन्यन्ते' पीड्यन्ते, बहूनि क्रूराणिजन्मान्तरोपात्तानिकर्माणि येषां ते तथा, सहसंख्यानांमुहूर्तानां परं-प्रकृष्टं कालं, सहशब्द For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy