________________
१५०
सूत्रकृताङ्ग सूत्रम् १/५/२/३३४ वृ.किञ्च-सम्यगुच्छ्रितं-चितिकाकृति, नामशब्दः सम्भावनायां, सम्भाव्यन्ते एवंविधानि नरकेषु यातनास्थानानि, विधूमस्य-अग्नेः स्थानं विधूमस्थानं यत्प्राप्य सोकवितप्ताः 'करुणं' दीनं 'स्तनन्ति' आक्रन्दन्तीति, तथाअधःशिरः कृत्वा देहंच विकत्यार्योवत् शस्त्रैः' तच्छेदनादिभिः 'समोसवेति'त्ति खण्डशः खण्डयन्ति अपि चमू. (३३५) समूसिया तत्थ विसूणियंगा, पक्खीहिं खजंति अओमुहेहिं ।
संजीवणी नामचिरद्वितीया, जंसी पया हम्मइ पावचेया॥ वृ. 'तत्र' नरके स्तम्भादौ ऊर्ध्वबाहवोऽधः शिरसो वा श्वपाकैर्बस्तवल्लम्बिताः सन्तः 'विसूणियंग'त्ति उत्कृत्ताङ्गा अपगतत्वचः पक्षिभिः 'अयोमुखैः वज्रचञ्चभिकाकगृध्रादिभिर्भक्ष्यन्ते, तदेवं ते नारका नरकपालापादितैः परस्परकृतैः स्वाभाविकै छिन्ना भिन्नाः कथिता मूर्छिताः सन्तो वेदनासमुद्घातगता अपि सन्तो न नियन्ते अतो व्यपदिश्यते सञ्जीवनीवत् सञ्जीवनीजीवितदात्री नरकभूमिः।
नतत्रगतःखण्डशश्छिन्नोऽपि म्रियते स्वायुषि सतीति, साच चिरस्थितिकोत्कृष्टतस्त्रयस्त्रिंशत् यावत्सागरोपमाणि, यस्यां च प्राप्ताः प्रजायन्त इति प्रजाः-प्राणिनः पापचेतसो हन्यन्ते मुद्गरादिभिः, नरकानुभावाच्च मूमूर्षवोऽप्यत्यन्तपिष्ठाअपिन नियन्ते, अपितुपारदवन्मिलन्तीति मू. (३३६) तिक्खाहिं सूलाहि निवाययंति, वसोगयं सावययं व लद्धं ।
ते सूलविद्धा कलुणं धणंति, एगंतदुक्खंदुहओ गिलाणा॥ वृ, अपिच-पूर्वदुष्कृतकारिणं तीक्ष्णाभिरयोयमयीभिः शूलाभिः नरकपाला नारकम तिपातयन्ति, किमिव ?-वशमुपगतं श्वापदमिव कालपृष्ठसूकरादिकं स्वातन्त्रयेण लब्ध्वा कदर्थयन्ति, ते नारकाः शूलादिभिर्विद्धा अपि न म्रियन्ते, केवलं 'करुणं' दीनं स्तनन्ति, न च तेषांकश्चित्राणायालंतथैकान्तेन उभयतः' अन्तर्बहिश्च ग्लाना' अपगतप्रभोदाः सदादुःखमनुभवन्तीति तथामू. (३३७) सयाजलं नाम निहं महंतं, जंसी जलंतो अगणी अकट्ठो।
चिट्ठति बद्धा बहुकूरकम्मा, अरहस्सरा केइ चिरद्वितीया ।। वृ. 'सदा सर्वकालं 'ज्वलत्' देदीप्यमानमुष्णरूपत्वात् स्थानमस्ति, निहन्यन्ते प्राणिनः कर्मवशगा यस्मिन् तन्निहम्-आघात-स्थानं तच्च ‘महद् विस्तीर्णं यत्राकाष्ठोऽग्निवलन्नास्ते, तत्रैवम्भूते स्थाने भवान्तरे बहुक्रूरकृतकर्माणस्तद्विपाकापादितेन पापेन बद्धास्तिष्ठन्तीति, किम्भूताः?-'अरहस्वरा' बृहदाक्रन्दशब्दाः 'चिरस्थितिकाः' प्रभूतकालस्थितय इति । मू. (३३८) चिया महंतीउ समारभित्ता, छुब्भंति ते तं कलुणं रसंत।
आवकृती तत्थ असाहुकम्मा, सप्पी जहा पडियं जोइमज्झे । वृ. तथा-महतीश्चिताः समारभ्य नरकपालाः 'तं' नारकं विरसं 'करुणं' दीनमारसन्तं तत्र क्षिपन्ति, सचासाधुकर्मा 'तत्र' तस्यां चितायां गतः सन् ‘आवर्तते' विलीयते, यथा-'सर्पि' घृतंज्योतिर्मध्ये पतितं द्रवीभवत्येवमसावपि विलीयते, न च तथापि भवानुभावात्प्राणैर्विमुच्यते अयमपरो नरकयातनाप्रकार इत्याह-- मू. (३३९) सदा कसिणं पुण धम्मठाणं, गाढोवणीयं अइदुक्खधम्म ।
हत्येहिं पाएहि य बंधिऊणं, सत्तुव्व इंडेहिं समारभंति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org