________________
-
श्रुतस्कन्धः - २, अध्ययनं-६,
४२३ यच्चतत्रावलितेनतन्तुना बद्धस्यमम प्रतिमोचनमिति स्नेहतन्तवो हिजन्तूनांदुरुच्छेदाभवन्तीति भावः ।गतमाककथानकम, नामनिष्पन्ननिक्षेपश्च । तदनन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचारयितव्यं, तच्चेदम्मू. (७३८) पुराकडं अद्द! इमं सुणेह, मेगंतयारी समणे पुरासी।
से भिक्खुणो उवणेत्ता अनेगे, आइक्खतिहि पुढो वित्थरे। वृ. यथा गोशालकेन सार्द्धवादोऽभूदाईककुमारस्य तथाऽनेनाध्ययनेनोपदिश्यते, तंच राजपुत्रकमार्द्रककुमारं प्रत्येकबुद्धं भगवत्समीपमागच्छन्तं गोशालकोऽब्रवीत्-यथा हे आर्द्रक! यदहं ब्रवीमितच्छृणु-'पुरा' पूर्वंयदनेन भवत्तीर्थकृता कृतं, तच्चेदमितिदर्शयति-एकान्तेजनरहितेप्रदेशे चरितुंशीलमस्येत्येकान्तचारी, तथा श्राम्यतीतिश्रमणः पुराऽऽसीत्तपश्चरणोधुक्तः, साम्प्रतं तूप्रैस्तपश्चरणविशेषैनिभर्सितो मां विहाय देवादिमध्यगतोऽसौ धर्मं किल कथयति, तथा 'वहून' भिक्षून 'उपनीय' प्रभूतशिष्यपरिकरं कृत्वा भवद्विधानांचमुग्धजनानामिदानी पृथक्पृथग्विस्तरेणाचष्टे धर्ममिति शेषः। मू. (७३९)साऽऽजीविया पट्टविताऽथिरेणं, सभागओ गणओ भिक्खुमन्झे
आइक्खमाणो बहुजन्नमत्थं, न संधयाती अवरेण पुब्बं । वृ. पुनरपि गोशालक एव 'साजीविए' त्याद्याह, येयं बहुजनमध्यगतेन धर्मदेशना युष्मद्गुरुणाऽऽरब्धाऽऽजीविकाप्रकर्षेण स्थापिता प्रस्थापिता, एकाकी विहरल्लोकिकैः परिभूयत इतिमत्वा लोकपङ्किनिमित्तं महान् परिकरः कृतः, तथा चोच्यते। ॥१॥ "छत्रं छात्रं पात्रं वस्त्रं यष्टिं च चर्चयति भिक्षुः।
वेषेण परिकरेण च कियताऽपि विना न भिक्षापि ॥ तदनेन दम्भप्रधानेन जीविकार्थमिदरभारब्धं । किंभूतेन ? अस्थिरेण, पूर्वं ह्ययं मया सार्द्धमेकाक्यन्तप्रान्ताशनेन शून्यारामदेवकुलादौ वृत्तिं कल्पितवात्, न च तथाभूतमनुष्ठानं सिकताकवलवनिरास्वादं यावजीवं कर्तुमलम् अतो मां विहायायं बहून् शिष्यान्प्रतार्यैवंभूतेन स्फटाटोपेन विहरतीत्यतः कर्तव्ये 'अस्थिरः' चपलः, पूर्वचर्यापरित्यागेनापरकल्पसमाश्रयात्, एतदेव दर्शयति ।
सभायां गतः' सदेवमनुजपर्षदिव्यवस्थितो गणओ'त्तिगणशो बहुशोऽनेकश इतियावत् भिक्षूणांमध्ये 'गतो' व्यवस्थित आचक्षाणो बहुजनेभ्योहितःअर्थोबहुजन्योऽर्थस्तमर्थंबहुजनहितं कथयन् विहरति, एतच्चास्यानुष्ठानं पूर्वापरेण न संधत्ते, तथाहि-यदि साम्प्रतीयं वृत्तं प्राकारत्रयसिंहासनाशोकवृक्षभामण्डलचामरादिकंमोक्षाङ्गमभविष्यत्ततो याप्राक्तन्येकचर्याक्लेशबहुलाऽनेन कृतासा क्लेशाय केवलमस्येति, यदि सा कर्मनिर्जरणहेतुका परमार्थभूताततः साम्प्रतावस्था परप्रतारकत्वाद्दम्भकल्पेत्यतः पूर्वोत्तरयोरनुष्टानयोः-मौनव्रतिकधर्मदेशनारूपयोः परस्परतोविरोध इति । मू. (७४०) पुट्विं च इण्हि च अनागतं वा एगंतमेव पडिसंधयाति ।
एगंतमेवं अदुवा विइण्हि, दोऽवण्णमन्नं न समेति जम्हा। वृ.अपिच-यद्येकान्तचारित्वमेव शोभनं पूर्वमाश्रितत्वात् ततः सर्वदाऽन्यनिरपेक्षैस्तदेव कर्तव्यम्, अथा चेदं साम्प्रतं महापरिवारवृतं साधुं मन्यसे ततस्तदेवादावप्याचरणीयमासीद, अपिच द्वे अप्येते छायातपवदत्यन्तविरोधिनी वृत्ते नैकत्र समवायं गच्छतः, तथा यदि मौनेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org