________________
४२२
सूत्रकृताङ्ग सूत्रम् २/६/-/७३८/नि. [२००] रक्षयितुमारेभे, आर्द्रककुमारोऽप्यश्ववाहनिकया विनिर्गतः प्रधानाश्वेन प्रपलायितः ।
ततश्चप्रव्रज्या गृह्णन् देवतया सोपसर्गभवतोऽद्यापीति मणित्वा निवारितोऽप्यसावार्द्रको राज्यं तावन्न करोति कोऽन्यो मां विहाय प्रव्रज्यां ग्रहीष्यतीत्यभिसंधाय तां देवतामवगणय्य प्रव्रजितः।विहरनन्यदाऽन्यतरप्रतिमाप्रतिपन्नः कायोत्सर्गव्यवस्थितोवसन्तपुरेतया देवलोकच्युतया श्रेष्ठिदुहित्राऽपरदारिकामध्यगतयारमन्त्यै मम भर्तेत्येवमुक्ते सत्यनन्तरमेव तत्सन्निहितदेवतयाऽर्द्धत्रयोदशकोटिपरिमाणाशोभनं वृतमनयेति भणित्वाहिरण्यवृष्टिर्मुक्ता,तांच हिरण्यवृष्टिं राजागृह्णन्देवतया सद्युत्थानतो विधृतोऽभिहितंचतयायथा-एतद्धिरण्यजातमस्यादारिकायाः नान्यस्य कस्यचिदित्यतस्तपित्रा सर्वं संगोपितम्।
आर्द्रककुमारोऽप्यनुकूलोपसर्गइतिमत्वाऽऽश्वेवान्यत्र गतः, गच्छतिच कालेदारिकाया वरकाः समागच्छन्ति, पृष्टौ च पितरौ तया-किमेषामागमनप्रयोजनं ?, कथितं च ताभ्यां यथैते तववरका इति, ततस्तयोक्त-तात! सकृत्कन्याः प्रदीयन्ते नानेकशः, दत्ताचाहंतस्मै यत्सम्बन्धि हिरण्यजातं भवद्भिर्गृहीतं, ततः सा पित्राऽभाणि-किं त्वंतं जानीषे?
तयोक्तं-तत्पादगताभिज्ञानदर्शनतोजानामीति, तदेवमसौतत्परिज्ञानार्थ सर्वस्यभिक्षार्थिनो भिक्षांदापयितुं निरूपिता, ततोद्वादशभिर्वषैर्गतैः कदाचिच्चासौ भवितव्यतानियोगेन तत्रैवविहरन् समायातः, प्रत्यभिज्ञानतश्च तया तत्पादचिह्नदर्शनतः, ततोऽसौ दारिका सपरिवारा तत्पृष्ठतो जगाम, आर्द्रककुमारोऽपिदेवतावचनं स्मरंस्तथाविधकर्मोदयात्रावश्यंभाविभवितव्यतानियोगेन च प्रतिभग्न्स्तया सार्द्ध मुनक्ति भोगान्, पुत्रश्चोत्पन्नः।
पुनराककुमारेणासावभिहिता-साम्प्रतंतेपुत्रो द्वितीयः अहंचस्वकार्यमनुतिष्ठामि, तया सुतव्युत्पादनार्थं कसकर्तनमारब्धं, पृष्टाचासौ बालकेन-किमम्बैतद्भवत्याप्रारब्धमितरजनाचरितं?, ततोऽसाववोचद-यथा तव पिता प्रव्रजितुकामः त्वं चाद्यापि शिशुरसमर्थोऽर्थार्जने ततोऽहमनाथास्त्रीजनोचितेनानिन्छन विधिनाऽऽत्मानं भवन्तं च किल पालयिष्यामीत्येतदालोच्येदमा-रब्धमिति।
तेनापि बालकेनोत्पन्नप्रतिभया तत्कर्त्तितसूत्रेणैव कायं मद्बद्धो यास्यतीति मन्मनभाषिणोपविष्ट एवासौ पिता परिवेष्टितः, तेनापि चिन्तितं-यावन्तोऽमी बालककुतवेष्टनतन्तवस्तावन्त्येववर्षाणि मया गृहेस्थातव्यमिति, निरूपिताश्चतन्तवोयावद्वादशतावन्त्येववर्षाण्यसौ गृहवासे व्यवस्थितः, पूर्णेषुचद्वादशसुसंवत्सरेषुगृहान्निर्गतः प्रव्रजितश्चेति। ततोऽसौ सूत्रार्थनिष्प न्नएकाकिविहारेण विहरन् राजगृहाभिमुखं प्रस्थितः, तदन्तराले च तद्रक्षणार्थं यानि प्रापित्रा निरूपितानी पञ्च राजपुत्रशतानि तस्मिन्श्वेन नष्टे राजभयाद्वैलक्ष्याच्च न राजान्तिकं जग्मुः तत्राटवीदुर्गे चौर्येण वृत्ति कल्पितवन्तः, तैश्चासौ दृष्टः प्रत्यभिज्ञातश्च, तेच तेन पृष्टाः-किमिति भवद्भिरेवंभूतं कर्माश्रितं?, तैश्च सर्व राजभयादिकं कथितम्, आर्द्रककुमारवचनाच संबुद्धाः प्रव्रजिताश्च । तथा राजगृहनगरप्रवेशे गोशालको हस्तितापसा- ब्राह्मणाश्च वादे पराजिताः।
तथाऽऽर्द्रककुमारदर्शनादेव हस्ती बन्धनाद्विमुक्तः,तेचहस्तितापसादय आर्द्रककुमारधर्मकथाक्षिप्ता जिनवीरसमवसरणे निष्कान्ताः। राज्ञाच विदितवृत्तान्तेनमहाकुतूहलापूरितहृदयेन पृष्टो-भगवन्! कयंत्वदर्शनतोहस्ती निरर्गलः संवृत्तइति?,महान् भगवतःप्रभाव इत्येवमभिहितः सन्नाककुमारोऽब्रवीत् नवमगाथयोत्तरं।
नदुष्करमेतद्यन्नरपाशैर्बद्धमत्तवारणस्य विमोचनं वने राजन्! एतत्तुमे प्रतिभातिदुष्करं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org