________________
श्रुतस्कन्धः-२, अध्ययन-६,
४२१
माईककथानकं गाथाभिरेव नियुक्तिकृदाह
“गामे' इत्यादिगाथाष्टकं, आसांचा कथानकादवसेयः, तदं-मगधाजनपदेवसन्तपुरको ग्रामः, तत्र सामायिको नाम कुटुम्बी प्रतिवसति, सचसंसारभयोद्विग्नो धर्मघोषाचार्यन्तिके धर्म श्रुत्वा सपन्तीकःप्रव्रजितः, सच सदाचाररतः संविग्नः साधुभिःसाद्धविहरति, इतरापिसाध्वीमिसहेत।
कदाचिच्चासावेकस्मिन्नगरेभिक्षार्थमटन्तीं दृष्ट्वा तामसौतथाविधकर्मोदयात्पूर्वरतानुस्मरणेन तस्यामध्युपपन्नः, तेन चात्मीयोऽभिप्रायोद्वितीयस्यसाधोर्निवेदितः, तेनापिचतप्रवर्तिन्याः, तयाऽपि तस्याः, तयाऽपि चाभिहितं-न मम देशान्तरे एकाकिन्या गमनं युज्यते, न चासौ तत्राप्यनुबन्धं त्यक्ष्यतीत्यतोममास्मिन्नवसरे भक्तप्रत्याख्यानमेव श्रेयोन पुनव्रतविलोपनमित्यतस्तया भक्तप्रत्याख्यानपूर्वकमात्मोद्धन्धनमकारि, मृता चासौ अगाद्देवलोकं।
श्रुत्वा चैनं व्यतिकरमसौ परं संवेगुपगतश्चिन्तितं च तेन-तया व्रतभङ्गभयादिदमनुष्ठितं मम त्वसी संजात एवेत्यतोऽहमपि भक्तप्रत्याख्यानं करोमीत्याचार्यस्यानिवेद्यैवासौ मायावी अथ च परमसंवेगापत्रः असावपि भक्तं प्रत्याख्याय दिवंगतः ।
ततोऽपिचप्रत्यागत्यार्द्रपुरेनगरेआर्द्रकसुतआर्द्रकाभिधानोजात, साऽपिचदेवलोकाच्युता वसन्तपुरे नगरे श्रेष्ठिकुले दारिका जाता । इतरोऽपि च परमरूपसंपन्नो यौवनस्थः संवृत्तः ।
अन्यदाऽस्याकपिता राजगृहे नगरे श्रेणिकस्य राज्ञः स्नेहाविष्करणार्थं परमप्राभृतोपेतं महत्तमं प्रेषयति, आर्द्रककुमारेणासौ पृष्टो यथा-कस्यैतानिमहार्हाण्यत्युग्राणि प्राभृतानि मत्पित्रा प्रेषितानि यास्यन्तीति, असावकथयद्-यथा आर्यदेशे तव पितुः परममित्रं श्रेणिको महाराजः तस्यैतानीति, आर्द्रककुमारणाप्यभाणि-किं तस्यास्ति कश्चिद्योग्यः पुत्रः ?, अस्तीत्याह, यद्येवं माहितानिप्राभृतानि भवता तस्य समर्पणीयानीति भणित्वामहार्हाणि प्राभृतानि समर्यामिहितं. वक्तव्योऽसौ मद्वचनात् यथाऽऽर्द्रककुमारस्त्वयि नितरां स्निह्यतीति, स च महत्तमो गृहीतोभयप्राभृतो राजगृहमगात्, गत्वाचराजद्वारपालनिवेदितोराजकुलं प्रविष्टो, दृष्टश्च श्रेणिकः, प्रणामपूर्वकं निवेदितानि प्राभृतानि, कथितं च यथासंदिष्टं, तेनाप्यासनाशनताम्बूलादिन । यथार्हप्रतिपत्या सन्मानितः ।
द्वितीये चाह्नयाककुमारसत्कानि प्राभृतान्यभयकुमारस्य समर्पितानि, कथितानि च तप्रीत्युत्पादकानितत्संदिष्टवचनानि, अभयकुमारेणापिपारिणामिक्या बुद्धया परिणामितं-नूनमसी भव्यः समासन्नमुक्तिगमनश्च तेन मया साईप्रीतिमिच्छतीति तदिदमत्र प्राप्तकालं यदादितीर्थकर प्रतिमासंदर्शनेन तस्यानुग्रहः क्रियतइतिमत्यातथैव कृतं, महार्हाणिच प्रेषितानि प्राभृतानीति, उक्तवासी महत्तमो यथा-माहितप्राभृतमेतदेकान्तेनिरुपणीयं, तेनापि तथैवप्रतिपन्नं, गतश्चासावार्द्रकपुरं, समर्पितं च प्राभृतं राज्ञः।।
द्वितीये चाहयाककुमारस्येति, कथितं च यथासंदिष्टं, तेनाप्येकान्ते स्थित्वा निरूपिता प्रतिमा, तां च निरूपयत ईहापोहविमर्शनेन समुत्पन्नं जातिस्मरणं, चिन्तितं च तेन यथाममाभयकुमारेण महानुपकारोऽकारि सद्धर्मप्रतिबोधत इति, ततोऽसावाकः संजातजातिस्मरणोऽचिन्तयत-यस्य मम देवलोकभोगैर्यथेप्सितं संपद्यमानैस्तृप्ति भूत तस्यामीभिस्तुच्छेर्मानुषैः स्वल्पकालीनैः कामभोगैस्तृप्तिर्भविष्यतीति कुतस्त्यमिति, एतत्परिगणय्य निर्विण्णकामभोगो यथोचितं परिभोगमकुर्वन् राज्ञा संजातभयेन मा क्वचिद्यास्यति अतः पञ्चभिः शतै राजपुत्राणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org