________________
सूत्रकृताङ्ग सूत्रम् २/६/-/७४० धर्मस्ततः किमियं महता प्रबन्धेन धर्मदेशना ?, अथानयैव धर्मस्ततः किमिति पूर्वं मौनव्रतमनेनाललम्बे ?, यस्मादेवं तस्मात्पूर्वोत्तरव्याहतिः । तदेवं गोशालकेन पर्यनुयुक्त आर्द्रककुमारः श्लोकपश्चार्द्धनोत्तरदानायाह
४२४
'पूर्वं' पूर्वस्मिन्काले यन्मौनव्रतिकत्वं या चैकचर्या तच्छद्मस्थत्वाद घातिकर्मचतुष्टयक्षयार्थ, साम्प्रतं यन्महाजनपरिवृतस्य धर्मदेशनाविधानं तप्राग्बद्धभवोपग्राहिकर्मचतुष्टयक्षपणोद्यतस्य विशेषतस्तीर्थकरनाम्नो वेदनार्थं अपरासां चौच्चैर्गोत्रशुभायुर्नामादीनां शुभप्रकृतीनामिति । यदिवा पूर्वं साम्प्रतमनागते च काले रागद्वेषरहितत्वादेकत्वभावनानतिक्रमणाच्चैकत्वमेवानुपचरितं भगवानशेषजनहितं धर्म कथयन् प्रतिसंदधाति, न तस्य पूर्वोत्तरयोरवस्थयोराशंसारहितत्वादभेदोस्ति, अतो यदुच्यते भवता-पूर्वोत्तरयोरवस्थयोरसाङ्गत्यं तत प्लवत इति । समिच्च लोगं तस्थावराणं, खेमंकरे समणे माहणे वा । आइक्खमाणोवि सहरसमऽज्झे, एगंतयंसारयती तहच्चे ॥
मू. (७४१)
वृ. स्यादेतद्-धर्मदेशनया प्राणिनां कश्चिदुपकारो भवत्युत नेति ?, भवतीत्याह- 'समिच्च लोय' मित्यादि, सम्यगयथावस्थितं 'लोकं' षड्द्द्रव्यात्मकं 'मत्वा' अवगम्य केवलालोकेन परिच्छिद्य त्रस्यन्तीति त्रसाः-त्रसनामकर्मोदया द्वीन्द्रियादयः, तथा तिष्ठन्तीति स्थावराः -स्थावरनामकर्मोदयात्स्थावराः पृथिव्यादयस्तेषामुभयेषामपि जन्तूनां 'क्षेमं' शान्तिः रक्षा तत्करणशीलः क्षेमंकरः श्राम्यतीति श्रमणो द्वादशप्रकारतपोनिष्टप्तदेहः, तथा मा हणत्ति प्रवृत्तिर्यस्यासौ माहनो ब्राह्मणो वास एवंभूतो 'निर्ममो' रागद्वेषरहितः प्राणिहितार्थं न लाभपूजाख्यात्यर्थं धर्ममाचक्षाणोऽपि प्राग्वत् छद्मस्थाव- स्थायां मौनव्रतिक इव वाक्संयत एव, उत्पन्नदिव्यज्ञानत्वाद्भाषागुणदोषविवेकज्ञतया भाषणेनैव गुणावाप्तेः, अनुत्पन्नदिव्यज्ञानस्य तु मौनव्रतिकत्वेनेति, तथा देवासुरनरतिर्यक्सहस्रमध्येऽपि व्यवस्थितः पङ्काधारपङ्कजवत्तद्दोषव्यासङ्गाभावान्ममत्वविरहादाशंसादोषविकलत्वादेकान्तमेवासी 'सारयति' प्रख्यातिं नयति साधयतीतियावत् ।
ननु चैकाकिपरिकरोपेतावस्थयोरस्ति विशेषः, प्रत्यक्षेणैवोपलभ्यमानत्वात्, सत्यम्, अस्ति विशेषो बाह्यतो न त्वान्तरतोऽपि दर्शयति- 'तथा' प्राग्वदर्चा- लेश्या शुक्लध्यानाख्या यस्य स तथार्च:, यदिवा अर्चा- शरीरंतच्च प्राग्वद्यस्य स तथार्च:, तथाहि असावशोकाद्यष्टप्रातिहार्योपतोऽपि नोत्सेकंच्चयाति, नापि शरीरं संस्कारायत्तं विदधाति, सहि भगवानात्यन्तिकरागद्वेषप्रहाणादेकाक्यपि जनपरिवृतोऽप्येकाकी, न तस्य तयोरवस्थयोः कश्चिद्विशेषोऽस्ति, तथा चोक्तम् - "रागद्वेषौ विनिर्जित्य, किमरण्ये करिष्यसि ? । अथ नो निर्जितावेतौ, किमरण्येकरिष्यसि ? |
॥ १ ॥
इत्यतो बाह्यमनङ्गमान्तरमेव कषायजयादिकं प्रधानं कारणमिति स्थितम् । मू. (७४२) धम्मं कहंतस्स उ नत्थि दोसो, खंतस्स दंतस्स जितिंदियस्स । भासाय दोसे य वियज्जगस्स, गुणेय भासाय निसेगवस्स ॥
वृ. अपगतरागद्वेषस्य प्रभाषमाणस्यापि दोषाभावं दर्शयितुमाह-तस्य भगवतोऽपगतघनघातिकलङ्कस्योत्पन्नसकलपदार्थाविर्भाविज्ञानस्य जगदभ्युद्धरणप्रवृत्तस्यैकान्तपरहितप्रवृत्तस्य स्वकार्यनिरपेक्षस्य धर्मं कथयतोऽपि तुशब्दस्यापिशब्दार्थत्वात् नास्ति कश्चिद्दोषः ।
किंभूतस्येत्याह- क्षान्तस्य क्षान्तिसंपन्नस्यानेन क्रोधनिरासमाह, तथा 'दान्तस्य'
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International