________________
श्रुतस्कन्धः -२, अध्ययनं-६,
४२५ उपशान्तस्यानेन तुमानव्युदास, तथा जितानि स्वविषयप्रवृत्तिनिषेधेनेन्द्रियाणियेन सजितेन्द्रियो वश्येन्द्रियोऽनेनतुलोभनिरासमाचष्टे, मायायास्तु लोभनिरासादेव निरासोद्रष्टव्यः, तन्मूलत्वात्तस्याः, भाषाया दोषाःअसत्यासत्यामृषाकर्कशासभ्यशब्दोच्चारणादयस्तद्विवर्जकस्य-तत्परिहर्तुस्तथा भाषाया ये गुणा-हितमितदेशकालासंदिग्धभाषणादयस्तन्निषेवकस्य सतो अवतोऽपि नास्ति दोषः, छद्मस्थस्य हि बाहुल्येन मौनव्रतमेव श्रेयः, समुत्पन्नकेवलस्य तु भाषणमपि गुणायेति। मू. (७४३) महव्वएपंच अणुव्वएय, तहेव पंचासव संवरेय।
विरति इहस्सामणियमि पन्ने,लवापसक्की समणे-त्तिबेमि। वृ. किंभूतं धर्ममसौ कथयतीत्याह 'महब्बए पंचे'त्यादि, महान्ति च तानि व्रतानिप्राणातिपातविरमणादीनितानिच साधूनांप्रज्ञापितवान्, पञ्चापितदपेक्षयाऽणूनि-लघूनि व्रतानि अणुव्रतानि पञ्चेवतानि श्रावकानुद्दिश्य प्रज्ञापितवान्, पञ्चाश्रवान्प्राणापिपातादिरूपान् कर्मणः प्रवेशद्वारभूतान्तत्संबरंचसप्तदशप्रकारं संयमं प्रतिपादितवान्, संवरवतोहि विरतिर्भवतीत्यतो विरतिंच प्रतिपादितवान् चशब्दात्तत्फलभूती निर्जरामोक्षौ च ।
"इह' अस्मिन्प्रवचने लोके वा श्रमणभावः श्रामण्यं-संपूर्णसंयमस्तस्मिन् वा विधेये मूलगुणान् महाव्रताणुव्रतरूपान् तथोत्तरगुणान्-संवरविरत्यादिरूपान् 'पूर्णे कृत्स्ने संयमे विघातव्ये 'प्राज्ञ' इति वा क्वचित्पाठः, प्रज्ञावानेत प्रतिपादितवानिति । किंभूतोऽसौ?-लवं-कर्म तस्माद् 'अवसकइत्ति अवसर्पणशीलोऽवसपी श्राम्यतीति श्रमणः-तपश्चरणयुक्त इत्येदहं ब्रवीमि ।
स्वयमेव च भगवान्पञ्चमहाव्रतोपपन्न इन्द्रियनोइन्द्रियगुप्तो विरतश्चासौ लवावसपी सन् स्वतोऽन्येषामपि तथाभूतमुपदेशंदत्तवानित्येतद्ब्रवीमीति।यदिवाऽऽककुमारवचनमाकासौ गोशालकस्तत्प्रतिपक्षभूतं अर्थं वक्तुकाम इदमाह-इत्येतद्वक्ष्यमाणं यदहंब्रवीमितच्छृणु! त्वमिति यथाप्रतिज्ञातमेवाह गोशालकः-- मू. (७४४) सीओदगं सेवउ बीयकाय, आहायकम्मं तह इत्थयाओ।
एगंतचारिस्सिह अम्ह धम्मे तवस्सिणो नाभिसमेति पावं। इ. भवतेदमुद्ग्राहितं-परार्थं प्रवृत्तस्याशोकादिप्रातिहार्यपरिग्रहस्तथा शिष्यादिपरिकरो धर्मदेशना च न दोषायेति यथा तथाऽस्माकमपि सिद्धान्ते यदेतद्वक्ष्यमाणं तन्न दोषायेति । शीतं च तदुदकं च शीतोदकम्-अप्रासुकोदकं तत्सेवन-परिभोगं करोतु, तथा जीवकायोपभोगमाधाकर्माश्रयणंस्त्रीप्रसझंच विदधातु, अनेनचस्वपरोपकारः कृतो भवतीत्यस्मदीये धर्मे प्रवृत्तस्य 'एकान्तचारिणः आरामोद्यानादिष्वेकाकिविहारोद्यतस्यतपस्विनो नाभिसमेति न संबन्धमुपयाति 'पापम्' अशुभकर्मेति, इदमुक्तंभवति-एतानि शीतोदकादीनियद्यपीषत्कर्मबन्धाय तथापिधर्माधारं शरीरं प्रतिपालयत एकान्तचारिणस्तपस्विनो बन्धाय न भवन्तीति। मू. (७४५) सीतोदगंवा तह बीयकायं, आहायकम्मतह इत्थियाओ।
एयाइं जाणं पडिसेवमाणा, अगारिणो अस्समणा भवंति॥ वृ.एतत्परिहतुकामआह-'सीतोदग'मित्यादि, एतानि प्रागुपन्यस्तानिअप्रासुकोदकपरभोगादीनि प्रतिसेवन्तोऽगारिणो-गृहस्थास्तेभवन्ति अश्रमणाश्च-अप्रव्रजिताश्चेवंजानीहि, यतःअहिंसा सत्मस्तेयं, ब्रह्मचर्यमलुब्धता इत्येत्तच्छ्रमणलक्षणं, तश्चैषां शीतोदकबीजाऽऽधाकमीपरिभोगवतां नास्तीत्यतस्ते नामाकाराभ्यां श्रमणान परमार्थानुष्ठानत इति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org