________________
श्रुतस्कन्धः- १, अध्ययन-९,
१९९
-
-
-
कुप्येत्' न कोपवशगो भवेत्, तथा दुरवचनानि 'उच्यमानः' आक्रुश्यमानो निर्भत्स्यमानो 'न संज्चलेत्' न प्रतीपं वदेत्, न मनागपि मनोऽन्यथात्वं विदध्यात्, किंतु सुमनाः सर्वं कोलाहलमकुर्वत्राधिसहेतेति। मू. (४६८) लद्धे कामे न पत्थेजा, विवेगे एवमाहिए।
आयरियाई सिक्खेजा, बुद्धाणं अंतिए सया।। वृ.किश्चान्यत्-'लब्धान्' प्राप्तानपि 'कामान्' इच्छामदनरूपान्गन्धालङ्कारवादिरूपान्वा वैरस्वामिवत् 'न प्रार्थयेत्' नानुमन्येत् न गृहीयादित्यर्थः, यदिवा।
यत्रकामावसायितया गमनादिलब्धिरूपान् कामंस्तपोविशेषलब्धानपि नोपजीव्यात, नाप्यनागतान् ब्रह्मदत्तवप्रार्थयेद्, एवं च कुर्वतो भावविवेकः 'आख्यात' आविर्भावितोभवति, तथा आर्याणि' आर्याणां कर्तव्यानि अनार्यकर्तव्यपरिहारेण यदिवा आचर्याणि ।
मुमुक्षुणायान्याचरणीयानिज्ञानदर्शनचारित्राणि तानि 'बुद्धानाम् आचार्याणाम् 'अन्तिके' समीपे सदा सर्वकालं शिक्षेत' अभ्यस्येदिति, अनेन हिशीलवता नित्यं गुरुकुलवास आसेवनीय इत्यावेदितं भवतीति । यदुक्तं बुद्धानामन्तिके शिक्षेत्तत्स्वरूपनिरूपणायाहमू. (४६९) सुस्सूसमाणो उवासेजा, सुप्पन्नं सुतवस्सियं ।
वीराजे अत्तपन्नेसी, धितिमन्ता जिइंदिया। वृ.गुरोरादेशंप्रति श्रोतुमिच्छाशुश्रूषागुवदिर्वैयावृत्त्यमित्यर्थः तांकुर्वाणोगुरुम् उपासीत' सेवेत, तस्यैव प्रधानगुणद्वयद्वारेण विशेषणमाह-सुष्टु शोभना वा प्रज्ञाऽस्येति सुप्रज्ञःस्वसमयपरसमयवेदी गीतार्थ इत्यथः, तथा सुष्टु शोभनं वा सबाह्याभ्यान्तरं ततोऽस्यास्तीति सुतपस्वी, तमेवम्भूतं ज्ञानिनं सम्यक्चारित्रवन्तं गुरुं परलोकार्थी सेवेत, तथा चोक्तम् -- ॥१॥ “नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते य ।
धन्ना आवकहाए गुरुकुलवासं न मुंचंति ।। य एवं कुर्वन्ति तान् दर्शयति-यदिवा के ज्ञानिनस्तपस्विनो वेत्याह- 'वीराः कर्मविदारणसहिष्णवो धीरा वा परीषहोपसर्गाक्षोभ्याः, धिया-बुध्धा राजन्तीति वा धीरा ये केचनासन्नसिद्धिगमनाः, आप्तो-रागादिविप्रमुक्तस्तस्य प्रज्ञा-केवलज्ञानाख्या तामन्वेष्टु शीलं येषां ते आप्तप्रज्ञान्वेषिणः सर्वज्ञोक्तान्वेषिण इतियावत् ।
यदिवा-आत्मप्रज्ञान्वेषिण आत्मनः प्रज्ञा-ज्ञानमात्मप्रज्ञा तदन्वेषिणः आत्मज्ञत्वा(प्रज्ञा)न्वेषिण आत्महितान्वेषिण इत्यर्थः, तथा घृति-संयमे रति सा विद्यते येषां ते धृतिमन्तः संयमधृत्या हि पञ्चमहाव्रतभारोद्वहनं सुसाध्यं भवतीति, तपःसाध्याचसुगतिर्हस्तप्राप्तेति, तदुक्तम् ॥१॥ “जस्स धिई तस्स तवो जस्स तवो तस्स सुग्गई सुलहा।
__ जे अधिइमंत पुरिसा तवोऽवि खलु दुल्लहो तेसिं ।। तथा जितानी-वशीकृतानि स्वविषयरागद्वेषविजयेनेन्द्रियाणि-स्पर्शनादीनि यैस्ते जितेन्द्रियाः, शुश्रूषमणाः शिष्या गुरवो वाशुश्रूषमाणा यथोक्तविशेषणविशिष्ट भवन्तीत्यर्थः । मू. (४७०) गिहे दीवमपासंता, पुरिसादानिया नरा।
ते वीरा बंधणुम्मुक्का, नावकखंति जीवियं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org