________________
२००
सूत्रकृताङ्ग सूत्रम् १/९/-/४७० वृ. यदभिसंधायिनः पूर्वोक्तिविशेषणविशिष्टा भवन्ति तदभिधित्सुराह-'गृहे गृहवासे गृहपाशे वा गृहस्थभाव इतियावत् 'दीवंति 'दीपी दीप्ती' दीपयति-प्रकाशयतीति दीपः स च भावदीपः श्रुतज्ञानलाभः यदिवा।
द्वीपः समुद्रादौ प्राणिनामाश्वासभूतः स च भावद्वीपः संसारसमुद्रे सर्वज्ञोक्तचारित्रलाभस्तदेवम्भूतंदीपंद्वीपंवा गृहस्थभावे अपश्यन्तः' अप्राप्नुवन्तः सन्तः सम्यक्प्रव्रज्योत्थानेनोत्थिता उत्तरोत्तरगुणलाभेनैवम्भूता भवन्तीति दर्शयति-'नराः' पुरुषाः पुरुषोत्तमत्वाद्धर्मस्य नरोपादानम्, अन्यथा स्त्रीणामप्येतद्गुणभाक्त्वं भवति, अथवा देवादिव्युदासार्थमिति, मुमुक्षूणां पुरुषाणामादानीया-आश्रयणीयाः पुरुषादानीया महतोऽपि महीयांसो भवन्ति।
यदिवा आदानीयो-हितैषिणां मोक्षस्तन्मार्गो वा सम्यगदर्शनादिकः पुरुषाणांमनुष्याणामादानीयः पुरुषादानीयः स विद्यते येषामितिविगृह्य मत्वर्थीयोऽर्शआदिभ्योऽजिति, तथा य एवंभूतास्ते विशेषेणेरयन्ति अष्टप्रकारं कर्मेति वीराः, तथा बन्धनेन सबाह्याभ्यन्तरेण पुत्रकलत्रादिस्नेहरूपेणोत्-प्राबल्येन मुक्ता बन्धनोन्मुक्ताः सन्तो 'जीवितम्' असंयमजीवितं प्राणधारणं वा 'नाभिकाङ्क्षत' नाभिलषन्तीति। मू. (४७१) अगिद्धे सद्दफासेसु, आरंभेसु अनिस्सिए।
सव्वं तं समयातीतं, जमेतं लवियं बहु॥ वृ.किञ्चान्यत्-'अगृद्धः' अनध्युपपन्नोऽमूर्छितः क्व?-शब्दस्पर्शेषु मनोज्ञेषुआद्यन्तग्रहणान्मध्यग्रहणमतो मनोज्ञेषु रूपेषु गन्धेषु रसेषु वा अगृद्ध इति द्रष्टव्यं, तथेतरेषु वाऽद्विष्ट इत्यपि वाच्यं, तथा 'आरम्भेषु' सावद्यानुष्ठानरपेषु 'अनिश्रितः' असम्बद्धोऽप्रवृत्त इत्यर्थः, उपसंहर्तकाम आह । 'सर्वमेतद्' अध्ययनादेरारभ्य प्रतिषेध्यत्वेन यत् लपितम्-उक्तं मया बहु तत् ‘समयाद्' आर्हतादागमादतीतमतिक्रान्तमितिकृत्वा प्रतिषिद्धं, यदपि च विधिद्वारेणोक्तं तदेतत्सर्वं कुत्सितसमयातीतं लोकोत्तरं प्रधानं वर्तते, यदपिच तैः कुतीर्थिकैर्बहुलपितं तदेतत्सर्व सम-यातीतमितिकृत्वा नानुष्ठेयमिति। मू. (४७२) अइमाणं च मायंच, तं परिन्नाय पंडिए।
गारवाणि य सव्वाणि, निव्वाणं संधए मुनि ॥ वृ. प्रतिषेधयप्रधाननिषेधद्वारेण मोक्षाभिसन्धानेनाह-अतिमानो महामानस्तं, चशब्दात्तत्सहधरितं क्रोधंच,तथा मायां चशब्दात्तत्कार्यभूतं लोभंच, तदेतत्सर्वं पण्डितो' विवेकी ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञयापरिहरेत्, तथा सर्वाणि 'गारवाणि' ऋद्धिरससातरूपाणि सम्यग् ज्ञात्वा संसारकारणत्वेन परिहरेत् ।
परिहत्य च 'मुनि' साधुः 'निर्वाणम्' अशेषकर्मक्षयरूपं विशिष्टाकाशदेशं वा 'सन्धयेत्' अभिसन्दध्यात् प्रार्थयेदितियावत् । इति परिसमाप्तयर्थे, ब्रवीमीति पूर्ववत् ।
अध्ययनं-९-समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाझाचार्यविरचिता
प्रथमश्रुतस्कन्धस्य नवम अध्ययनटीका परिसमाप्ता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org