________________
श्रुतस्कन्धः - १, अध्ययनं - १०,
२०१
अध्ययन- १० " समाधि"
वृ. नवमानन्तरं दशममारभ्यते - अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने धर्मोऽभिहितः, सचाविकलः समाधौ सति भवतीत्यतोऽधुना समाधि प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्युपक्रमादीन्यनुयोगद्वाराणि वाच्यानि, तत्रोपक्रमद्वारान्तर्गतोऽअधिकारोऽयं । तद्यथा- धर्मे समाधि कर्तव्यः सम्यगाधीयते - व्यवस्थाप्यते मोक्षं तन्मार्गं वा प्रति येनात्मा धर्मध्यानादिना स समाधि- धर्मध्यानादिकः, सच सम्यग् ज्ञात्वा स्पर्शनीयः, नामनिष्पन्नं तु निक्षेपमधिकृत्य नियुक्तिकृदाह
नि. [१०३]
आयाणपदेणाऽऽ घं गोणं नामं पुणो समाहित्ति । निक्खिविऊण समाहिं भावसमाहीइ पगयं तु ॥ नामंठवणादविए खेत्ते काले तहेव भावे य ।
नि. [१०४]
एसो उ समाहीए निक्खेवो छव्विहो होइ ॥
नि. [१०५ ] पञ्चसु विसएसु सुभेसु दव्वंभि त्ता भवे समाहित्ति । खेत्तं तु जम्मि खेत्ते काले कालो जहिं जो ऊ । भावसमाहि चउव्विह दंसणनाणे तवे चरित्ते य । चउसुवि समाहियप्पा संमं चरणडिओ साहू ॥
नि. [१०६ ]
वृ. आदीयते - सह्यते प्रथममादौ यत्तदादाम् आदानं च तत्पदं च सुबन्तं तिङ्न्तं वा तदादान पदं तेन 'आधं' ति नामास्याध्ययनस्य यस्मादध्ययनादाविदं सूत्रम्- 'आघंमईमं मणुवीइ धम्म' मित्यादि यथोत्तराध्ययनेषु चतुर्थमध्ययनं प्रभादाप्रमादाभिघायकमप्यादानपदेन 'असंखय मित्युच्यते, गुण निष्पन्नं पुनरस्याध्ययनस्य नाम समाधिरीति, यस्मात्स एवात्र प्रतिपाद्यते ते च समाधि'- नामादिना निक्षिप्य भावसमाधिनेह 'प्रकृतम्' अधिकार इति ।
समाधिनिक्षेपार्थमाह-नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् एष तु समाधिनिक्षेपः षड्विधो भवति, तुशब्दो गुणनिष्पन्नस्यैव नाम्नो निक्षेपो भवतीत्यस्यार्थस्याविर्भावनार्थ इति, नामस्थापने सुगमत्वादनाध्त्य द्रव्यादिकमधिकृत्याह ।
पञ्चस्वपि शब्दादिषु मनोज्ञेषु विषयेषु श्रोत्रादीन्द्रियाणं यथास्वं प्राप्तौ सत्यां यस्तुष्टि विशेषः स द्रव्यसमाधिः, तदन्यथा त्वसमाधिरिति, यदिवा द्रव्ययोर्द्रव्याणां वा सम्मिश्राणामविरोधिनां सतां न रसोपघातो भवति अपितु रसपुष्टि स द्रव्यसमाधिः, तद्यथा-क्षीरशर्करयोर्दधिगुडचातुर्जातकादीनां चेति, येन वा द्रव्येणोपभुक्तेन समाधिपानकादिना समाधिर्भवति तद्द्रव्यं द्रव्यसमाधिः, तुलादावारोपितं वा यत् द्रव्यं समतामुपैतीत्यादिको द्रव्यसमाधिरिति, क्षेत्रसमाधिस्तु यस्य यस्मिन् क्षेत्रे व्यवस्थितस्य समाधिरुत्पद्यते स क्षेत्रप्राधान्यात् क्षेत्रसमाधि यस्मिन्वा क्षेत्रे समाधिव्यार्वर्ण्यत इति, कालसमाधिरपि यस्य यं कालमवाप्य समाधिरुत्पद्यते, तद्यथा-शरदि गवां नक्तमुलूकानामहनि बलिभुजां यस्य वा यावन्तं कालं समाधिर्भवति यस्मिन्वा काले समाधिर्व्याख्यायते स कालप्राधान्यात् क्षेत्रसमाधि यस्मिन्वा क्षेत्रे समाधिर्वावण्येत इति, कालसमाधिरपि यस्य यं कालमवाप्य समाधिरुत्पद्यते, तद्यथा-शरदि गवां नक्तमुलूकानामहनि बलिभूजां यस्य वा यावन्तं कालं समाधिर्भवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org