________________
२०२
यस्मिन्वा काले समाधिर्वाख्यायते स कालप्राधान्यात् कालसमाधिरिति ।
भावसमाधिं त्वधिकृत्याह- भावसमाधिस्तु दर्शनज्ञानतपश्चारित्रभेदाच्चतुर्द्धा, तत्र चतुर्विधमपि भावसमाधिं समासतो गाथापश्चार्धेनाह-मुमुक्षुणा चर्यत इति चरणं तत्र सम्यक्चरणेचारित्रे व्यवस्थितः समुद्युक्तः 'साधुः' मुनिश्चतुर्ष्वपि भावसमाधिभेदेषु दर्शनज्ञानतपश्चारित्ररूपेषु सम्यगाहितो- व्यवस्थापित आत्मा येन स समाहितात्मा भवति, इदमुक्तं भवति यः सम्यकचरणे व्यवस्थितः स चतुर्विधभावसमाधिसमाहितात्मा भवति, योवा भावसमाधिसमाहितात्मा भवति, स सम्यकचरणे व्यवस्थितो द्रष्टव्य इति, तथाहि - दर्शनसमाधौ व्यवस्थितो जिनवचनभावितान्तःकरणो निवातशरणप्रदीपवन कुमतिवायुभिर्भ्राम्यते, ज्ञानसमाधिना तु यथा यथाऽपूर्वं श्रुतमधीते तथा तथाऽतीव भावसमाधावुद्युक्तो भवति, तथा चोक्तम्
11911
"जह जह सुयमवगाहइ अइसयरसपसरसंजुयमउव्वं । तह तह पल्हाइ मुनी नवनवसंवेगसद्धाए ॥
चारित्रसमाधावपि त्रिषयसुखनिस्पृहतया निष्किञ्चनोऽपि परं समाधिमाप्नोति, तथा
सूत्रकृताङ्ग सूत्रम् १/१०/-/४७२/नि. [१०६ ]
चोक्तम्
119 11
'तणसंथारणिसन्नोऽवि मुनिवरो भट्टरागमयमोहो । जं पावइ मुत्तिसुहं कत्तो तं चक्कवट्टी वि ? ॥ नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥
॥ २ ॥
इत्यादि, तपः समाधिनापि विकृष्टतपसोऽपि न ग्लानिर्भवति तथा क्षुत्तृ ष्णादिपरीषहेभ्यो नोद्विजते, तथा अभ्यस्ताभ्यन्तरतयोध्यानाश्रितमनाः स निर्वाणस्थ इव न सुखदुःखाभ्यां बाध्यत इत्येवं चतुर्विधभावसमाधिस्थः सम्यकचरणव्यवस्थितो भवति साधुरिति ॥ गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदं
मू. (४७३) आघं मईमं मणुवीय धम्मं, अंजू समाहिं तमिणं सुणेह । अपडिन्न भिक्खू उ समाहिपत्ते, अनियाण भूतेसु परिव्वएज्जा ।।
वृ. अस्य चायमनन्तरसूत्रेण सह सम्बन्धः, तद्यथा- अशेषगारवपरिहारेण मुनिर्निवाणमनुसन्धयेदित्येतद्भगवानुत्पन्नदिव्यज्ञानः समाख्यातवान् एतच्च वक्ष्यमाणमाख्यातवानिति, 'आघं' ति आख्यातवान् कोऽसौ ? -'मतिमान्' मननं मति-समस्तपदार्थपरिज्ञानं तद्विद्यते यस्यासौ मतिमान् केवलज्ञानीत्यर्थ, तत्रासाधारणविशेषणोपादानात्तीर्थकृद् गृह्यते, असावपि प्रत्यासत्तेर्वीरवर्धमानस्वामी गृह्यते, किमाख्यातवान् ? 'धर्म' श्रुतचारित्राख्यं ।
कथम्? -'अनुविचिन्त्य' केवलज्ञानेन ज्ञात्वा प्रज्ञापनायोग्यान् पदार्थानाश्रित्य धर्मं भाषते, यदिवा - ग्राहकमनुविचिन्त्य कस्यार्थस्यायं ग्रहणसमर्थः ? तथा कोऽयं पुरुषः ? कञ्चनतः ? किं वा दर्शनमापन्न? इत्येवं पर्यालोच्य, धर्मशुश्रूषवो वा मन्यन्ते यथा प्रत्येकमस्मदभिप्रायमनुविचिन्त्य भगवान् धर्म भाषते, युगपत्सर्वेषां स्वभाषापरिणत्या संशयापगमादिति, किंभूतं धर्म भाषते ? । 'ऋजुम्' अवक्रं यथावस्थितवस्तुस्वरूपनिरूपणतो, न यथा शाक्याः सर्वं क्षणिकमभ्युपगम्य कृतनाशाकृताभ्यागमदोषभयात्सन्तानाभ्युपगमं कृतवन्तः तथा वनस्पतिमचेतन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org